अग्निपुराणम्/अध्यायः ३४९

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
अग्निपुराणम्
















व्याकरणम्[सम्पाद्यताम्]

स्कन्द उवाच
वक्ष्ये व्याकरणं सारं सिद्धशब्दस्वरूपकम् ।
कात्यायनविबोधाय बालानां बोधनाय च ।। ३४९.१ ।।

प्रत्याहारादिकाः संज्ञाः शास्त्रसंव्यवहारगाः ।
अ ई उ ण्
ऋ लृ क्
ए ओ ङ्
ऐ औ च्
ह य व र ट्
ल ण्
ञ म ङ ण न म्
झ भ ञ्
घ ढ ध ष्
ज ब ग ड द श्
ख फ छ ठ थ च ट त व्
क प य्
श ष स र्
ह ल् इति
प्रत्याहारः ।
उपदेश इद्धलन्तं भवेदजनुनासिकः ।। ३४९.१ ।।

आदिवर्णो गृह्यमाणोऽप्यन्त्येनेता सहैव तु ।
तयोर्मध्यगतानां स्याद् ग्राहकः स्वस्य तद्यथा ।। ३४९.१ ।।

अण् एङ् अट् यङ् छव् झम् भष् अक् इक् अण् इण् यण् परेण णकारेण ।
अम् यम् ङम् अच् इच् ऐच् अय् मय् झय् जव् झव् खव् शव् अश् हश् वश् भश् अल् हल् बल् रल् झल् शल् इति प्रत्याहाराः ।

इत्यादिमहापुराणे आग्नेये व्याकरणे प्रत्याहारो नामोनचत्वारिंशदधिकत्रिशततमोऽध्यायः।।