अग्निपुराणम्/अध्यायः ३१

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
अग्निपुराणम्
















मार्जनविधानम्[सम्पाद्यताम्]

अग्निरुवाच
रक्षां स्वस्य परेषाञ्च वक्ष्ये तां मार्जनाह्वयां ।३१.००१
यया विमुच्यते दुःखैः सुखञ्च प्राप्नुयान्नरः(२)[१] ॥३१.००१
ओं नमः परमार्थाय पुरुषाय महात्मने ।३१.००२
अरूपबहुरूपाय व्यापिने परमात्मने ॥३१.००२
निष्कल्मषाय शुद्धाय ध्यानयोगरताय च ।३१.००३
नमस्कृत्य प्रवक्ष्यामि यत्तत्सिध्यतु मे वचः ॥३१.००३
वराहाय नृसिंहाय वामनाय महामुने ।३१.००४
नमस्कृत्य प्रवक्ष्यामि यत्तत्सिध्यतु मे वचः ॥३१.००४
त्रिविक्रमाय रामाय वैकुण्ठाय नराय च ।३१.००५
नमस्कृत्य प्रवक्ष्यामि यत्तत्सिध्यतु मे वचः ॥३१.००५
वराह नरसिंहेश वामनेश त्रिविक्रम ।३१.००६
हरग्रीवेश सर्वेश हृषीकेश हराशुभम् ॥३१.००६
अपराजितचक्राद्यैश्चतुर्भिः परमायुधैः ।३१.००७
अखण्डितानुभावैस्त्वं(१)[२] सर्वदुष्टहरो भव ॥३१.००७
हरामुकस्य दुरितं सर्वञ्च कुशलं कुरु ।३१.००८
मृत्युबन्धार्तभयदं दुरितस्य च यत्फलम् ॥३१.००८
पराभिध्यानसहितैः प्रयुक्तञ्चाभिचारकम् ।३१.००९
गदस्पर्शमहारोगप्रयोगं जरया जर ॥३१.००९
ओं नमो वासुदेवाय नमः कृष्णाय खड्गिने ।३१.०१०
नमः पुष्करनेत्राय केशवायादिचक्रिणे ॥३१.०१०
नमः कमलकिञ्जल्कपीतनिर्मलवाससे ।३१.०११
महाहररिपुस्कन्धसृष्टचक्राय चक्रिणे ॥३१.०११
द्ंष्ट्रोद्धृतक्षितिभृते(२)[३] त्रयीमूर्तिमते नमः ।३१.०१२
महायज्ञवराहाय शेषभोगाङ्कशायिने ॥३१.०१२
तप्तहाटककेशाग्रज्वलत्पावकलोचन ।३१.०१३
वज्राधिकनखस्पर्शं दिव्यसिंह नमोस्तु ते ॥३१.०१३
काश्यपायातिह्रस्वाय ऋग्यजुःसामभूषित ।३१.०१४
तुभ्यं वामनरूपायाक्रमते गां(३)[४] नमो नमः ॥३१.०१४
वराहाशेषदुष्टानि सर्वपापफलानि वै ।३१.०१५
मर्द मर्द महादंष्ट्र मर्द मर्द च तत्फलम् ॥३१.०१५
नरसिंह करालाख्य दन्तप्रान्तानलोज्ज्वल ।३१.०१६
भञ्ज भञ्ज निनादेन दुष्टान्यस्यार्तिनाशन ॥३१.०१६
ऋग्यजुःसामगर्भाभिर्वाग्भिर्वामनरूपधृक् ।३१.०१७
प्रशमं सर्वदुःखानि नयत्त्वस्य जनार्दनः ॥३१.०१७
ऐकाहिकं द्व्याहिकञ्च तथा त्रिदिवसं ज्वरम् ।३१.०१८
चातुर्थकन्तथात्युग्रन्तथैव सततज्वरम् ॥३१.०१८
दोषोत्थं सन्निपातोत्थं तथैवागन्तुकं ज्वरम् ।३१.०१९
शमं नयाशु गोविन्द च्छिन्धि च्छिन्ध्यस्य वेदनाम्(१)[५] ॥३१.०१९
नेत्रदुःखं शिरोदुःखं दुःखञ्चोदरसम्भवम् ।३१.०२०
अन्तःश्वासमतिश्वासं(२)[६] परितापं सवेपथुम् ॥३१.०२०
गुदघ्राणाङ्घ्रिरोगांश्च कुष्ठरोगांस्तथा क्षयं(३)[७] ।३१.०२१
कामलादींस्तथा रोगान् प्रमेहांश्चातिदारुणान् ॥३१.०२१
भगन्दरातिसारांश्च मुखरोगांश्च वल्गुलीम् ।३१.०२२
अश्मरीं मूत्रकृच्छ्रांश्च रोगानन्यांश्च दारुणान् ॥३१.०२२
ये वातप्रभवा रोगा ये च पित्तसमुद्भवाः[८] ।३१.०२३
कफोद्भवाश्च ये केचित्ये चान्ये सान्निपातिकाः ॥३१.०२३
आगन्तुकाश्च ये रोगा लूता विस्फोटकादयः ।३१.०२४
ते सर्वे प्रशमं यान्तु वासुदेवापमार्जिताः(५)[९] ॥३१.०२४
विलयं यान्तु ते सर्वे विष्णोरुच्चारणेन च ।३१.०२५
क्षयं गछ्हन्तु चाशेषास्ते चक्राभिहता हरेः ॥३१.०२५
अच्युतानन्तगोविन्दनामोच्चारणभीषिताः ।३१.०२६
नश्यन्ति सकला रोगाः सत्यं सत्यं वदाम्यहम् ॥३१.०२६
स्थावरं जङ्गमं वापि कृत्रिमं चापि यद्विषम् ।३१.०२७
दन्तोद्भवं नखभवमाकाशप्रभवं विषम् ॥३१.०२७
लूतादिप्रभवं यच्च विषमन्यत्तु दुःखदं ।३१.०२८
शमं नयतु तत्सर्वं कीर्तितोस्य जनार्दनः ॥३१.०२८
ग्रहान् प्रेतग्रहांश्चापि तथा वै डाकिनीग्रहान्(१)[१०] ।३१.०२९
वेतालांश्च पिशाचांश्च गन्धर्वान् यक्षराक्षसान्(२)[११] ॥३१.०२९
शकुनीपूतनाद्यांश्च तथा वैनायकान् ग्रहान् ।३१.०३०
मुखमण्डीं तथा क्रूरां रेवतीं वृद्धरेवतीम् ॥३१.०३०
वृद्धकाख्यान् ग्रहांश्चोग्रांस्तथा मातृग्रहानपि ।३१.०३१
बालस्य विष्णोश्चरितं हन्तु बालग्रहानिमान् ॥३१.०३१
वृद्धाश्च ये ग्रहाः केचिद्ये च बालग्रहाः क्वचित् ।३१.०३२
नरसिंहस्य ते दृष्ट्या दग्धा ये चापि यौवने ॥३१.०३२
सदा(३)[१२] करालवदनो नरसिंहो महाबलः ।३१.०३३
ग्रहानशेषान्निःशेषान् करोतु जगतो हितः ॥३१.०३३
नरसिंह महासिंह ज्वालामालोज्ज्वलानन ।३१.०३४
ग्रहानशेषान् सर्वेश खाद खादाग्निलोचन ॥३१.०३४
ये रोगा ये महोत्पाता यद्विषं ये महाग्रहाः ।३१.०३५
यानि च क्रूरभृतानि ग्रहपीडाश्च दारुणाः ॥३१.०३५
शस्त्रक्षतेषु ये दोषा ज्वालागर्दभकादयः ।३१.०३६
तानि सर्वाणि सर्वात्मा परमात्मा जनार्दनः ॥३१.०३६
किञ्चिद्रूपं समास्याय वासुदेवास्य नाशय ॥३७॥३१.०३७
क्षिप्त्वा सुदर्शनञ्चक्रं ज्वालामालातिभीषणम् ।३१.०३८
सर्वदुष्टोपशमनं कुरु देववराच्युत ॥३१.०३८
सुदर्शन महाज्वाल च्छिन्धि च्छिन्धि महारव(१)[१३] ।३१.०३९
सर्वदुष्टानि रक्षांसि क्षयं यान्तु विभीषण ॥३१.०३९
प्राच्यां प्रतीच्यां च दिशि दक्षिणोत्तरतस्तथा ।३१.०४०
रक्षाङ्करोतु सर्वात्मा नरसिंहः सुगर्जितः(२)[१४] ॥३१.०४०
दिवि भुव्यन्तरीक्षे च पृष्ठतः पार्श्वतोग्रतः ।३१.०४१
रक्षाङ्करोतु भगवान् बहुरूपी जनार्दनः ॥३१.०४१
यथा विष्णुर्जगत्सर्वं सदेवासुरमानुषं ।३१.०४२
तेन सत्येन दुष्टानि शममस्य व्रजन्तु वै(३)[१५] ॥३१.०४२
यथा विष्णौ स्मृते सद्यः सङ्क्षयं यान्ति पातकाः ।३१.०४३
सत्येन तेन सकलं दुष्टमस्य प्रशाम्यतु ॥३१.०४३
परमात्मा यथा विष्णुर्वेदान्तेषु च गीयते ।३१.०४४
तेन सत्येन सकलं दुष्टमस्य प्रशाम्यतु ॥३१.०४४
यथा यज्ञेश्वरो विष्णुर्देवेष्वपि हि गीयते ।३१.०४५
सत्येन तेन सकलं यन्मयोक्तं तथास्तु तत् ॥३१.०४५
शान्तिरस्तु शिवञ्चास्तु दुष्टमस्य प्रशाम्यतु ।३१.०४६
वासुदेवशरीरोत्थैः कुशैर्निर्मथितं मया(४)[१६] ॥३१.०४६
अपमार्जतु गोविन्दो नरो नारायणस्तथा ।३१.०४७
तथास्तु सर्वदुःखानां प्रशमो जपनाद्धरेः ॥३१.०४७
अपमार्जनकं शस्त्रं सर्वरोगादिवारणम् ।३१.०४८
अयं हरिः कुशो विष्णुर्हता रोगा मया तव ॥३१.०४८


इत्यादिमहापुराणे आग्नेये कुशापमार्जनं नाम एकत्रिंशोऽध्यायः

  1. सुखं ब्रह्माप्नुयान्नरः इति ख, चिह्नितपुस्तकपाठः
  2. अखण्डितात्मभावैस्त्वमिति ख, चिह्नितपुस्तकपाठः
  3. दंष्ट्रोद्धृतभूमिभर्त्रे इति ख, चिह्नितपुस्तकपाठः
  4. सृजते गामिति ख, चिह्नितपुस्तकपाठः
  5. छिन्द छिन्दास्य वेदनामिति ग, चिह्नितपुस्तकपाठः
  6. अनिश्वासमतिश्वासमिति ग, चिह्नितपुस्तकपाठः
  7. तथैव च इति ग, चिह्नितपुस्तकपाठः
  8. ये रोगाः पित्तसम्भवा इति ग, चिह्नितपुस्तकपाठः
  9. वासुदेवपराजिता इति ख, चिह्नितपुस्तकपाठः
  10. तथा वेतालिकान् ग्रहानिति घ, चिह्नितपुस्तकपाठः
  11. गन्धर्वान् राक्ससानपि इति ख, चिह्नितपुस्तकपाठः
  12. शटा इति ख, ङ, चिह्नितपुस्तकद्वयपाठः
  13. महाबल इति ख, चिह्नितपुस्तकपाठः
  14. स्वर्गर्जितैरिति ग, ङ, चिह्नितपुस्तकद्वयपाठः
  15. प्रयान्तु वै इति ग, चिह्नितपुस्तकपाठ
  16. कुशैर्निर्णाशितमिति ख, ग, चिह्नितपुस्तकद्वयपाठः