अग्निपुराणम्/अध्यायः ३००

विकिस्रोतः तः
Jump to navigation Jump to search
अग्निपुराणम्
















ग्रहहृन्मन्त्रादिकम्[सम्पाद्यताम्]

अग्निरुवाच
ग्रहापहारमन्त्रादीन् वक्ष्ये ग्रहविमर्दनान् ।
हर्षेच्छाभयशोकादिविरुद्धाशुचिभोजनात् ।। ३००.१ ।।

गुरुदेवादिकोषाच्च पञ्चोन्मादा भवन्त्यऽथ ।
त्रिदोषजाः सन्निपाता आगन्तुरिति ते स्मृताः ।। ३००.२ ।।

देवादयो ग्रहा जाता रुद्रक्रोधादनेकधा ।
सरित्सरस्तड़ागादौ शैलोपवनसेतुषु ।। ३००.३ ।।

नदीसङ्गे शून्यगृहे विलद्वार्य्येकवृक्षके ।
ग्रहा गृह्णन्ति पुंसश्च श्रइयः सुप्ताञ्च गर्भिणीम् ।। ३००.४ ।।

आसन्नपुष्पान्नग्नाञ्च ऋतुस्नानं करोति या ।
अवमानं नृणं वैरं विघ्नं भाग्यविपर्य्ययः ।। ३००.५ ।।

देवतागुरुधर्म्मादिसदाचारादिलङ्घनम् ।
पतनं शैलवृक्षादेर्विधुन्वन्मूर्द्धजं मुहुः ।। ३००.६ ।।

रुदन्नृत्यति रक्ताक्षो हूंरुपोऽनुग्रही नरः ।
उद्विग्नः शूलदाहार्त्तः क्षुत्तृष्णार्त्तः शिरोर्त्तिमान् ।। ३००.७ ।।

देहि दहीति योचेत बलिकामग्रही नरः ।
स्त्रीमालाभोगस्नानेच्छुरतिकामग्रही नरः ।। ३००.८ ।।

महासुदर्शनो व्योमव्यापी विटपनासिकः ।
पातालनारसिंहाद्या चण्डीमन्त्रा ग्रहार्दनाः ।। ३००.९ ।।

पृश्नीहिङ्गुवचाचक्रशिरीषटयितम्परम् ।
पाशाङ्कुशधरं देवमक्षमालाकपालिनम् ।। ३००.१० ।।

खकट्टाङ्गाव्जादिशक्तिञ्च दधानं चतुराननम् ।
अन्तर्वाह्यादिखट्टाङ्गपद्मस्थं रविमण्डले ।। ३००.११ ।।

आदित्यादियुतं प्रार्च्य उदितेर्केऽर्घ्यकंददेत् ।
श्वासविषाग्निविप्रकुण्डीहृल्लेखासकलो भृगुः ।। ३००.१२ ।।

अर्काय भूर्भुवः स्वश्च ज्वालिनीं कुलमुद्‌गरम् ।
पद्मासनोऽरुणो रक्तवस्त्रसद्युतिविश्वका ।। ३००.१३ ।।

उदारः पद्मधृग्दोर्भ्यां सौम्यः सर्व्वाङ्गभूषितः ।
रक्ता हृदादयः सौम्या वरदाः पद्मधारिणः ।। ३००.१४ ।।

विद्युत्पुञ्जनिभं वस्त्रं श्वेतः सौम्योऽरुणः कुजः ।
बुधस्तद्वद्‌गुरुः पीतः शुक्लः शुक्रः शनैश्चरः ।। ३००.१५ ।।

कृष्णाङ्गारनिभो राहुर्धूम्रः सौम्योऽरुणः कुजः ।
वामोरुवामहस्तान्ते दक्षहस्ताभयप्रदा ।। ३००.१६ ।।

स्वनामाद्यन्तु वीजास्ते हस्तौ संशोध्य चास्त्रतः ।
अङ्गुष्ठादौ तले नेत्रे हृदाद्यं व्यापकं न्यसेत् ।। ३००.१७ ।।

मूलवीजैस्त्रिभिः प्राणध्यायकं न्यस्य साङ्गकम् ।
प्रक्षाल्य पात्रमस्त्रेण मूलेनापूर्य्य वारिणा ।। ३००.१८ ।।

गन्वपुष्पाक्षतं न्यस्य दूर्व्वामर्घ्यञ्च मन्त्रयेत् ।
आत्मानं तेन सम्प्रोक्ष्य पूजाद्रव्यञ्च वै ध्रुवम् ।। ३००.१९ ।।

प्रभूतं विमलं सारमाराध्यं परमं सुखम् ।
पिठाद्यान् कल्पयेदेतान् हृदा मध्ये विदिक्षु च ।। ३००.२० ।।

पीठोपरि हृदा मध्ये दिक्षु चैव विदिक्षु च ।
पीठोपरि हृदाब्जञ्च केशवेष्वष्टशक्तयः ।। ३००.२१ ।।

वां दीप्तां वीं तथा सूक्ष्मां वुञ्चयां वूञअच भद्रिकां ।
वें विभूतीं वैं विमलां वोमसिघातविद्युताम् ।। ३००.२२ ।।

वौं सर्वतोमुखीं वं पीठं वः प्रार्च्य रविं यजेत् ।
आवाह्य दद्यात् पाद्यादि हृत्‌षड़ङ्गेन सुव्रत ।। ३००.२३ ।।

खकरौ दण्डिनौ चण्डौ मज्जा दशनसंयुता ।
मांसदीर्घा जरद्वायुहृदैतत् सर्वदं रवेः ।। ३००.२४ ।।

वह्नीशरक्षो मरुतां दिक्षु पूज्या हृदादयः ।
स्वमन्त्रैः कर्णिकान्तस्था दिक्ष्वस्त्रं पुरतः सदृक् ।। ३००.२५ ।।

पूर्व्वादिदिक्षु सम्पूज्याश्चन्द्रज्ञगुरुभार्गवाः ।
नस्याञ्जनादि कुर्वीत साजमूत्रैर्ग्रहापहैः ।। ३००.२६ ।।

पाठापथ्यावचाशिग्रुसिन्धुव्योषैः पृथक् फलैः ।
अजाक्षीराढके पक्कसर्पिः सर्वग्रहान् हरेत् ।। ३००.२७ ।।

वृश्चिकालीफलीकुष्ठं लवणानि च शार्ङ्गकम् ।
अपस्मारविनाशाय तज्जलं त्वभिभोजयेत् ।। ३००.२८ ।।

विदारीकुशकाशेक्षुक्काथजं पाययेत् पयः ।
द्रोणे सयष्टिकुष्माण्डरसे सर्पिश्च संस्कृतौ ।। ३००.२९ ।।

पञ्चगव्यं घृतं दद्वद्योगं ज्वहरहं श्रृणु ।
ओं भस्मास्त्राय विद्महे एकदंष्ट्राय धीमहि तन्नो ज्वरः प्रचोदयात् ।
कृष्णोषणनिशारास्नाद्राक्षातैलं गुडं लिहेत् ।। ३००.३० ।।

श्वासवानथ वा भार्गीं सयष्टिमधुसर्पिषा ।
पाठा तिक्ता कणा भार्गी अथवा मधुना लिहेत् ।। ३००.३१ ।।

धात्री विश्वसिता कृष्णा मुस्ता खर्जूरमागधी ।
पिवरश्चेति हिक्काघ्नं तत् त्रयं मधुना लिहेत् ।। ३००.३२ ।।

कामली जीरमाण्डूकीनिशाधात्रीरसं पिवेत् ।
व्योषपद्मकत्रिफलाकिड़ङ्गदेवदारवः ।
रास्नाचूर्णं समं खण्डैर्जग्ध्वा कासहरं ध्रुवम् ।। ३००.३३ ।।

इत्यादिमहापुराणे आग्नेये ग्रहहृन्मन्त्रादिकं नामत्रिशततमोऽध्यायः ।।