अग्निपुराणम्/अध्यायः ६५

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
अग्निपुराणम्
















सभास्थापनकथनं

भगवानुवाच
सभादिस्थानं वक्ष्ये तथैव तेषां प्रवर्तनं ।६५.००१
भूमौ परीक्षितायाञ्च वास्तुयागं समाचरेत् ॥६५.००१
स्वेच्छया तु सभां कृत्वा स्वेच्छया स्थापयेत्सुरान् ।६५.००२
चतुष्पथे ग्रामादौ(१) च न शून्ये कारयेत्सभां ॥६५.००२
निर्मलः कुलमुद्धृत्य कर्ता स्वर्गे विमोदते ।६५.००३
अनेन विधिना कुर्यात्सप्तभौमं हरेर्गृहं ॥६५.००३
यथा राज्ञां तथान्येषां पूर्वाद्याश्च ध्वजादयः ।६५.००४
कोणभुजान् वर्जयित्वा चतुःशालं तु वर्तयेत् ॥६५.००४
त्रिशालं वा द्विशालं वा एकशालमथापि वा ।६५.००५
व्ययाधिकं न कुर्वीत व्ययदोषकरं हि तत् ॥६५.००५
आयाधिके भवेत्पीडा तस्मात्कुर्यात्समं द्वयं ।६५.००६
करराशिं समस्तन्तु कुर्याद्वसुगुणं गुरुः ॥६५.००६
सप्तार्चिषा हृते भागे गर्गविद्याविचक्षणः ।६५.००७
अष्टधा भाजिते तस्मिन् यच्छेषं स व्ययो गतः ॥६५.००७
अथवा करराशिं तु हन्यात्सप्तार्चिषा बुधः ।६५.००८
वसुभिः संहृते भागे पृथ्व्यादि(२) परिकल्पयेत् ॥६५.००८
ध्वजो धूम्रस्तथा सिंहः श्वा वृषस्तु खरो गजः ।६५.००९
तथा ध्वाङ्क्षस्तु पूर्वादावुद्भवन्ति विकल्पयेत् ॥६५.००९
त्रिशालकत्रयं शस्तं उदक्पूर्वविवर्जितं ।६५.०१०
याम्यां परगृहोपेतं द्विशालं लभ्यते सदा ॥६५.०१०
याम्ये शालैकशालं तु प्रत्यक्शालमथापि वा ।६५.०११
एकशालद्वयं शस्तं शेषास्त्वन्ये भयावहाः ॥६५.०११
चतुःशालं सदा शस्तं सर्वदोषविवर्जितं ।६५.०१२
एकभौमादि कुर्वीत भवनं सप्तभौमकं ॥६५.०१२
द्वारवेद्यादिरहितं पूरणेन विवर्जितं ।६५.०१३
देवगृहं देवतायाः प्रतिष्ठाविधिना सदा ॥६५.०१३
टिप्पणी
१ पूश्चतुष्पथग्रामादाविति ख, चिह्नितपुस्तकपाठः
२ ध्वजादि इति ख, चिह्नितपुस्तकपाठः

संस्थाप्य मनुजानाञ्च समुदायोक्तकर्मणा ।६५.०१४
प्रातः सर्वौषधीस्नानं कृत्वा शुचिरतन्द्रितः ॥६५.०१४
मधुरैस्तु द्विजान् भोज्य पूर्णकुम्भादिशोभितं ।६५.०१५
सतोरणं स्वस्ति वाच्य द्विजान् गोष्ठहस्तकः(१) ॥६५.०१५
गृही गृहं प्रविशेच्च दैवज्ञान् प्रार्च्य(२) संविशेत् ।६५.०१६
गृहे पुष्टिकरं मन्त्रं पठेच्चेमं समाहितः ॥६५.०१६
ओं नन्दे नन्दय वाशिष्ठे वसुभिः प्रजया सह ।६५.०१७
जये भार्गवदायदे प्रजानां विजयावहे ॥६५.०१७
पूर्णेऽङ्गिरसदायादे पूर्णकामं कुरुध्व मां ।६५.०१८
भद्रे काश्यपदायादे कुरु भद्रां मतिं मम ॥६५.०१८
सर्ववीजौषधीयुक्ते सर्वरत्नौषधीवृते ।६५.०१९
रुचिरे नन्दने नन्दे वासिष्ठे रम्यतामिह ॥६५.०१९
प्रजापतिसुते देवि चतुरस्रे महीयसि ।६५.०२०
सुभगे सुव्रते देवि गृहे काश्यपि रम्यतां ॥६५.०२०
पूजिते परमाचार्यैर्गन्धमाल्यैरलङ्कृते ।६५.०२१
भवभूतिकरे देवि गृहे भार्गवि रम्यतां ॥६५.०२१
अव्यक्ते व्याकृते पूर्णे मुनेरङ्गिरसः सुते ।६५.०२२
इष्टके त्वं प्रयच्छेष्टं प्रतिष्ठां कारयाम्यहं ॥६५.०२२
देशस्वामिपुरस्वामिगृहस्वामिपरिग्रहे ।६५.०२३
मनुष्यधनहस्त्यश्वपशुवृद्धिकरी भव ॥६५.०२३

इत्यादिमहापुराणे आग्नेये सभागृहस्थापनं नाम पञ्चषष्टितमोऽध्यायः ॥

टिप्पणी
१ गोपुच्छहस्तक इति घ, चिह्नितपुस्तकपाठः
२ देवाज्ञां प्राप्य इति ग, चिह्नितपुस्तकपाठः