अग्निपुराणम्/अध्यायः ३५५

विकिस्रोतः तः
Jump to navigation Jump to search
अग्निपुराणम्
















समासः[सम्पाद्यताम्]

स्कन्ध उवाच
षोढ़ा समासं वक्ष्यामि अष्टाविंशातिधा पुनः ।
नित्यानित्यविभागेन लुगलोपेन च द्विधा ।। ३५५.१ ।।

कुम्भकारश्च नित्यः स्याद्धेमकारादिकस्तथा ।
राज्ञः पुमान्‌राजपुमान् नित्योऽयञ्च समासकः ।। ३५५.२ ।।

कष्टश्रितो लुक्‌समासः कण्ठेकालादिकस्त्वलुक् ।
स्यादष्टधा तत्‌पुरुषः प्रथमाद्यसुपा सह ।। ३५५.३ ।।

प्रथमातत्‌पुरुषोऽयं पूर्व्वं कायस्य विग्रहे ।
पूर्वकायोऽपरकायो ह्यधरोत्तरकायकः ।। ३५५.४ ।।

अर्द्धं कणाया अर्द्धकणा भिक्षातुर्य्यमथेदृशम् ।
आपन्नजीविकस्तद्वत् द्वितीया चाधराश्रितः ।। ३५५.५ ।।

वर्षम्भोग्यो वर्षभोग्यो धान्यार्थश्च तृतीयया ।
चतुर्थो स्याद्विषणुबलिर्वृकभीतिश्च पञ्चमी ।। ३५५.६ ।।

राज्ञः पुमान् राजपुमान् षष्ठी वृक्षफलं तथा ।
सप्तमी चाक्षशौण्डोऽयमहितो नञ्‌समासकः ।। ३५५.७ ।।

कर्मधारयः सप्तधा नीलोत्पलमुखाः स्मृताः ।
विशेषणपूर्व्वपदो विशेष्योत्तरतस्तथा ।। ३५५.८ ।।

वैयाकरणखसूचिः शीतोष्णं द्विपदं शुभम् ।
उपमानपूर्वपदः शङ्खपाण्डर इत्यपि ।। ३५५.९ ।।

उपमानोत्तरपदः पुरुषव्याघ्र इत्यपि ।
सम्भावनापूर्वपदो गुणवृद्धिरितीदृशम् ।। ३५५.१० ।।

गुण इति वृद्धिर्वाच्या सुहृदेव सुबन्धुकः ।
सवधारणपूर्वपदो बहुव्रीहिश्च सप्तधा ।। ३५५.११ ।।

द्विपदश्च बहुव्रीहिरारूढ़भवनो नरः ।
अर्च्चिताशेषपूर्व्वोऽयं बह्वङ्‌घ्रिः परिकीर्त्तितः ।। ३५५.१२ ।।

एते विप्राश्चोपदशाः सङ्‌ख्योत्तरपदस्त्वयम् ।
सङ्‌ख्योभयपदो यद्वद्‌द्वित्रा द्व्येकत्रयो नरः ।। ३५५.१३ ।।

सहपूर्षपदोऽयं स्यात् समूलोद्‌धृतकस्तरुः ।
व्यतिहारलक्षणार्थः केशाकेशि नखानखि ।। ३५५.१४ ।।

दिग्लक्ष्या स्याद्दक्षिणपूर्व्वा द्विगुराभाषितो द्विधा ।
एकवद्भावि द्विश्रृङ्गं पञ्चमूली त्वनेकधा ।। ३५५.१५ ।।

द्वन्द्वः समासो द्विविखधो हीतरेतरयोगकः ।
रुद्रविष्णू समाहारो भेरीपटहमीदृशम् ।। ३५५.१६ ।।

द्विधाख्यातोऽव्ययीभावो नामपूर्वपदो यथा ।
शाकस्य मात्रा शाकप्रति यथाऽव्ययपूर्व्यकः ।। ३५५.१७ ।।

उपकुम्भञ्चोपरथ्यं प्राधान्येन चतुर्विंधः ।
उत्तरपदार्थमुख्यो द्वन्द्वश्चोभयमुख्यकः ।।

पूर्वार्थेशोऽव्ययीभावो बहुव्रीहिश्च वाह्यगः ।। ३५५.१८ ।।

इत्यादिमहापुराणे आग्नेये व्याकरणे समासो नाम पञ्चपञ्चाशदधिकत्रिशततमोऽध्यायः ॥