अग्निपुराणम्/अध्यायः १००

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
अग्निपुराणम्
















ईश्वर उवाच
द्वाराश्रितप्रतिष्ठाया वक्ष्यामि विधिमप्यथ ।१००.००१
द्वाराङ्गानि कषायाद्यैः संस्कृत्य शयने न्यसेत् ॥१००.००१
मूलमध्याग्रभागेषु त्रयमात्मादिसेश्वरं ।१००.००२
विन्यस्य सन्निवेश्याथ(१) हुत्वा जप्त्वात्र रूपतः(२) ॥१००.००२
द्वारादथो यजेद्वास्तुन्तत्रैवानन्तमन्त्रितः ।१००.००३
रत्नादिपञ्चकं न्यस्य शान्तिहोमं विधाय च ॥१००.००३
यवसिद्धार्थकाक्रान्ता ऋद्धिवृद्धिमहातिलाः ।१००.००४
गोमृत्सर्षपरागेन्द्रमोहनीलक्षणामृताः ॥१००.००४
रोचना रुग्वचो दूर्वा प्रासादधश्च पोटलीं ।१००.००५
प्रकृत्योदुम्बरे बद्ध्वा रक्षार्थं प्रणवेन तु ॥१००.००५
द्वारमुत्तरतः किञ्चिदाश्रितं सन्निवेशयेत् ।१००.००६
आत्मतत्त्वमधो न्यस्य विद्यातत्त्वञ्च शाखयोः ॥१००.००६
शिवमकाशदेशे च व्यापकं सर्वमङ्गले(३) ।१००.००७
ततो महेशनाथं च विन्यसेन्मूलमन्त्रतः ॥१००.००७
- - - - -- - - -- - -- - -- - - -- - --
टिप्पणी
१ विन्यस्य च निवेशयाथ इति ख.. । विन्यस्य सन्निबोध्याथेति ज..
२ अजप्त्वानुरूपत इति ग..
३ सर्वपुष्कलमिति ख.. , घ.. च
- - - -- - -- - - -- - - -- - - -- - -- - -- - - - -
द्वाराश्रितांश्च तल्पादीन्(१) कृतयुक्तैः(२) स्वनामभिः ।१००.००८
जुहुयाच्छतमर्धं वा द्विगुणं शक्तितोथवा(३) ॥१००.००८
न्यूनादिदोषमोषार्थं हेतितो जुहुयाच्च्छतं(४) ।१००.००९
दिग्बलिम्पूर्ववद्धुत्वा(५) प्रदद्याद्दक्षिणादिकं ॥१००.००९
- - -- - - -- - - -- - -- - -- - -- - --
टिप्पणी
१ नन्द्यादीन इति ख..
२ कृत्ययुक्तैरिति ज..
३ शक्तितो यथा इति ग..
४ भागत्रयेणेत्यादिः, जुहुयाच्छतमित्यन्तः पाठो झ.. पुस्तके नास्ति । अत्र कतिपयश्लोकाधिकोऽध्यायत्रयात्मकः पाठः पतितोस्ति
५ पूर्ववद्दत्वा इति ग.. , घ च
- - -- - -- - -- - -- - -- - -- - - -- -

इत्याग्नेये महापुराणे द्वारप्रतिष्ठा नाम शततमोऽध्यायः ॥