अग्निपुराणम्/अध्यायः १५१

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
अग्निपुराणम्
















वर्णेतरधर्माः

अग्निरुवाच
मन्वादयो भुक्तिमुक्तिधर्मांश्चीर्त्वाप्नुवन्ति यान् ।१५१.००१
प्रोचे परशुरामाय वरुणोक्तन्तु पुष्करः ॥१५१.००१
पुष्कर उवाच
वर्णाश्रमेतराणान्ते धर्मान्वक्ष्यामि सर्वदान् ।१५१.००२
मन्वादिभिर्निगदितान् वासुदेवादितुष्टिदान् ॥१५१.००२
अहिंसा सत्यवचनन्दया भूतेष्वनुग्रहः ।१५१.००३
तीर्थानुसरणं दानं ब्रह्मचर्यम्मत्सरः ॥१५१.००३
देवद्विजातिशुश्रूषा गुरूणाञ्च भृगूत्तम ।१५१.००४
श्रवणं सर्वधर्माणां पितॄणां पूजनं तथा ॥१५१.००४
भक्तिश्च नृपतौ नित्यं तथा सच्छास्त्रनेत्रता ।१५१.००५
आनृशंष्यन्तितिक्षा च तथा चास्तिक्यमेव च ॥१५१.००५
वर्णाश्रमाणां सामान्यं धर्माधर्मं(१) समीरितं ।१५१.००६
यजनं याजनं दानं वेदाद्यध्यापनक्रिया ॥१५१.००६
प्रतिग्रहञ्चाध्ययनं विप्रकर्माणि निर्दिशेत् ।१५१.००७
दानमध्ययनञ्चैव यजनञ्च यथाविधिः ॥१५१.००७
क्षत्रियस्य सवैश्यस्य कर्मेदं परिकीर्तितं ।१५१.००८
क्षत्रियस्य विशेषेण पालनं दुष्टनिग्रहः ॥१५१.००८
कृषिगोरक्ष्यवाणिज्यं वैश्यस्य परिकीर्तितं ।१५१.००९
शूद्रस्य द्विजशुश्रूषा सर्वशिल्पानि वाप्यथ ॥१५१.००९
मौञ्जीबन्धनतो जन्म विप्रादेश्च द्वितीयकं ।१५१.०१०
आनुलोम्येन वर्णानां जातिर्मातृसमा स्मृता ॥१५१.०१०
चण्डालो ब्राह्मणीपुत्रः शूद्राच्च प्रतिलोमतः ।१५१.०११
सूतस्तु क्षत्रियाज्जातो वैश्याद्वै देवलस्तथा ॥१५१.०११
पुक्कसः क्षत्रियापुत्रः शूद्रात्स्यात्प्रतिलोमजः ।१५१.०१२
मागधः स्यात्तथा वैश्याच्छूद्रादयोगवो भवेत् ॥१५१.०१२
वैश्यायां प्रतिलोमेभ्यः प्रतिलोमाः सहस्रशः ।१५१.०१३
टिप्पणी
१ धर्मरूपमिति ग.. , घ.. , ङ.. , ञ.. च

विवाहः सदृशैस्तेषां नोत्तमैर्नाधमैस्तथा ॥१५१.०१३
चण्डालकर्म निर्दिष्टं बध्यानां घातनं तथा ।१५१.०१४
स्त्रीजीवन्तु तद्रक्षाप्रोक्तं(१) वैदेहकस्य च ॥१५१.०१४
सूतानामश्वसारथ्यं पुक्कसानाञ्च व्याधता ।१५१.०१५
स्तुतिक्रिया माघ्धानां तथा चायोगशस्य च ॥१५१.०१५
रङ्गावतरणं प्रोक्तं तथा शिल्पैश्च जीवनं ।१५१.०१६
वहिर्ग्रामनिवासश्च मृतचेलस्य धारणं ॥१५१.०१६
न संस्पर्शस्तथैवान्यैश्चण्डालस्य विधीयते ।१५१.०१७
ब्राह्मणार्थे गवार्थे वा देहत्यागोऽत्र यः कृतः ॥१५१.०१७
स्त्रीबालाद्युपपतो वा वाह्याणां सिद्धिकारणं ।१५१.०१८
सङ्करे जातयो ज्ञेयाः पितुर्मातुश्च कर्मतः ॥१५१.०१८
टिप्पणी
१ श्रीजीवनञ्च तत्र स्यात्प्रोक्तमिति ग.. , घ.. , ङ.. , ञ.. च

इत्याग्नेये महापुराणे वर्णान्तरधर्मा नामैकपञ्चाशदधिकशततमोऽध्यायः ॥