अग्निपुराणम्/अध्यायः ३२९

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
अग्निपुराणम्
















छन्दःसारः[सम्पाद्यताम्]

अग्निरुवाच
छन्दोधिकारे गायत्री देवी चैकाक्षरी भवेत् ।
पञ्चदशाक्षरी सा स्यात्प्राजापत्याष्टविर्णिका ॥१
यजुषां षडर्णा गायत्री साम्नां स्याद्द्वादशाक्षरा ।
ऋचामष्टादशार्णा स्यात्साम्नां वर्धेत च द्वयं ॥२
ऋचां तुर्यञ्च वर्धेत प्राजापत्याचतुष्टयं ।
वर्धेदेकैककं शेषे आतुर्यादेकमुत्सृजेत् ॥३
उष्णिगनुष्टुब्वृहती पङ्क्तिस्त्रिष्टुब्जगत्यपि ।
तानि ज्ञेयानि क्रमशो गायत्र्यो ब्रह्म एव ताः ॥४
तिस्रस्तिस्रः समान्यः स्युरेकैका आर्ष्य एव च ।
ऋग्यजुषां संज्ञाः स्युश्चतुःषष्टिपदे लिखेत् ॥५


इत्याग्नेये महापुराणे छन्दःसारो नामोनत्रिंशदधिकत्रिशततमोऽध्यायः