अग्निपुराणम्/अध्यायः ९९

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ

सूर्यप्रतिष्ठाकथनं

ईश्वर उवाच
वक्ष्ये सूर्यप्रतिष्ठाञ्च पूर्ववन्मण्डपादिकं ।९९.००१
स्नानादिकञ्च सम्याद्य(१) पूर्वोक्तविधिना ततः ॥९९.००१
विद्यामासनशय्यायां साङ्गं विन्यस्य भास्करं ।९९.००२
त्रितत्त्वं विन्यसेत्तत्र सस्वरं खादिपञ्चकं ॥९९.००२
शुद्ध्यादि पूर्ववत्कृत्वा पिण्डीं संशोध्य पूर्ववत् ।९९.००३
सदेशपदपर्यन्तं विन्यस्य तत्त्वपञ्चकं(२) ॥९९.००३
शक्त्या च सर्वतोमुख्या संस्थाप्य विधिवततः ।९९.००४
स्वाणुना(३) विधिवत्सूर्यं शक्त्यन्तं(४) स्थापयेद्गुरुः ॥९९.००४
स्वाम्यन्तमथवादित्यं पादान्तन्नाम धारयेत् ।९९.००५
सूर्यमन्त्रास्तु(५) पूर्वोक्ता द्रष्टव्याः स्थापनेपि च(६) ॥९९.००५

इत्याग्नेये महापुराणे सूर्यप्रतिष्ठा नामैकोनशततमोऽध्यायः ॥
- - - -- - - -- - - -- - - -- - - - - - - - -
टिप्पणी
१ स्नानादिकं च सम्पूज्य इति ख.. , छ.. , च
२ विन्यस्य पदपञ्चकमिति छ.. । विन्यस्य रत्नपञ्चकमिति ज..
३ आत्मनेति छ..
४ शक्त्यर्थमिति ङ..
५ सूर्यमन्त्राश्चेति छ..
६ स्थापनेपि वेति ज..
- - - - -- - - -- - - -- - - - - - - -