अग्निपुराणम्/अध्यायः १२९

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← अध्यायः १२८ अग्निपुराणम्
अध्यायः १२९
वेदव्यासः
अध्यायः १३० →

अर्घकाण्डम्

ईश्वर उवाच
अर्घमानं प्रवक्ष्यामि उल्कापातोऽथ भूश्चला ।१२९.००१
निर्घातो ग्रहणं वेशो दिशां दाहो भवेद्यदा ॥१२९.००१
लक्षयेन्मासि मास्येवं यद्येते स्युश्च चैत्रके ।१२९.००२
अलङ्कारादि सङ्गृह्य षड्भिर्मासैश्चतुर्गुणम् ॥१२९.००२
वैशाखे चाष्टमे मासि षड्गुणं सर्वसङ्ग्रहं ।१२९.००३
ज्यैष्ठे मासि तथाषाढे यवगोधूमधान्यकैः ॥१२९.००३
श्रावणे घृततैलाद्यैराश्विने वस्त्रधान्यकैः ।१२९.००४
कार्त्तिके धान्यकैः क्रीतैर्मासे स्यान्मार्गशीर्षके ॥१२९.००४
पुष्ये कुङ्कुमगन्धाद्यैर् लाभो धान्यैश्च माघके ।१२९.००५
गन्धाद्यैः फाल्गुने क्रीतैरर्घकाण्डमुदाहृतम् ॥१२९.००५

इत्याग्नेये महापुराणे अर्घकाण्डं नाम ऊनत्रिंशदधिकशततमोऽध्यायः ॥