अग्निपुराणम्/अध्यायः १६८

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
अग्निपुराणम्
















अथाष्टषष्ट्यधिकशततमोऽध्यायः

महापातकादिकथनम्

पुष्कर उवाच
दण्डं कुर्यान्नृपो नॄणां प्रायश्चित्तमकुर्वतां ।१६८.००१
कामतोऽकामतो वापि प्रायश्चित्तं कृतं चरेत् ॥१६८.००१
टिप्पणी
१ जातवेदोमुखैः सौरैरिति ख..
२ रिपुं हरेदिति ङ.. , ञ.. च

मत्तक्रुद्धातुराणां च न भुञ्जीत कदाचन ।१६८.००२
महापातकिनां स्पृष्टं यच्च स्पृष्टमुदक्यया ॥१६८.००२
गणान्नं गणिकान्नं च(१) वार्धुषेर्गायनस्य च ।१६८.००३
अभिशप्तस्य षण्डस्य यस्याश्चोपपतिर्गृहे ॥१६८.००३
रजकस्य नृशंसस्य वन्दिनः कितवस्य च ।१६८.००४
मिथ्यातपस्विनश्चैव चौरदण्डिकयोस्तथा(२) ॥१६८.००४
कुण्डगोलस्त्रीजितानां वेदविक्रयिणस्तथा ।१६८.००५
शैलूषतन्त्रवायान्नं कृतघ्नस्यान्नमेव च ॥१६८.००५
कर्मारस्य निषादस्य चेलनिर्णेजकस्य च ।१६८.००६
मिथ्याप्रव्रजितस्यान्नम्पुंश्चल्यास्तैलिकस्य च ॥१६८.००६
आरूढपतितस्यान्नं विद्विष्टान्नं च वर्जयेत् ।१६८.००७
तथैव ब्राह्मणस्यान्नं ब्राह्मणेनानिमन्त्रितः ॥१६८.००७
ब्राह्मणान्नञ्च शूद्रेण नाद्याच्चैव निमन्त्रितः ।१६८.००८
एषामन्यतमस्यान्नममत्या वा त्र्यहं क्षपेत् ॥१६८.००८
मत्या भुक्त्वा चरेत्कृच्छ्रं रेतोविण्मूत्रमेव च ।१६८.००९
चण्डालश्वपचान्नन्तु भुक्त्वा चान्द्रायणं चरेत् ॥१६८.००९
अनिर्दिशं च प्रेतान्नं गवाघ्रातं तथैव च ।१६८.०१०
शूद्रोच्छिष्टं शुनोच्छिष्टं पतितान्नं तथैव च ॥१६८.०१०
तप्तकृच्छ्रं प्रकुर्वीत अशौचे कृच्छ्रमाचरेत् ।१६८.०११
अशौचे यस्य यो भुङ्क्ते सोप्यशुद्धस्तथा भवेत् ॥१६८.०११
मृतपञ्चनखात्कूपादमेध्येन सकृद्युतात् ।१६८.०१२
टिप्पणी
१ गणानां गणिकानाञ्चेति ङ.. , ञ.. च
२ चौरदाम्भिकयोस्तथेति ञ..

अपः पीत्वा त्र्यहं तिष्ठेत्सोपवासो द्विजोत्तमः ॥१६८.०१२
सर्वत्र शूद्रे पादः स्याद्द्वित्रयं वैश्यभूपयोः(१) ।१६८.०१३
विड्वराहखरोष्ट्राणां गोमायोः कपिकाकयोः ॥१६८.०१३
प्राश्य मूत्रपुरीषाणि द्विजश्चान्द्रायणं चरेत् ।१६८.०१४
शुष्काणि जग्ध्वा मांसानि(२) प्रेतान्नं करकाणि च ॥१६८.०१४
क्रव्यादशूकरोष्ट्राणां गोमायोः कपिकाकयोः ।१६८.०१५
गोनराश्वखरोष्ट्राणां छत्राकं ग्रामकुक्कुटं ॥१६८.०१५
मांसं जग्ध्वा कुञ्जरस्य तप्तकृच्छ्रेण शुद्ध्यति ।१६८.०१६
आमश्राद्धे तथा भुक्त्वा ब्रह्मचारी मधु त्वदन् ॥१६८.०१६
लशुनं गुञ्जनं चाद्यात्प्राजापत्यादिना शुचिः(३) ।१६८.०१७
भुक्त्वा चान्द्रायणं कुर्यान्मांसञ्चात्मकृतन्तथा ॥१६८.०१७
पेलुगव्यञ्च पेयूषं तथा श्लेष्मातकं मृदं ।१६८.०१८
वृथाकृशरसंयावपायसापूपशष्कुलीः ॥१६८.०१८
अनुपाकृटमांसानि देवान्नानि हवींषि च ।१६८.०१९
गवाञ्च महिषीणां च वर्जयित्वा तथाप्यजां ॥१६८.०१९
सर्वक्षीराणि वर्ज्याणि तासाञ्चैवाप्यन्निर्दशं ।१६८.०२०
शशकः शल्यकी गोधा खड्गः कूर्मस्तथैव च ॥१६८.०२०
भक्ष्याः पञ्चनखाः प्रोक्ताः परिशेषाश्च वर्जिताः ।१६८.०२१
पाठीनरोहितान्मत्स्यान् सिंहतुण्डांश्च भक्षयेत् ॥१६८.०२१
यवगोधूमजं सर्वं पयसश्चैव विक्रियाः ।१६८.०२२
वागषाड्गवचक्रादीन् सस्नेहमुषितं तथा ॥१६८.०२२
टिप्पणी
१ द्वितीयं वैश्यशूद्रयोरेति क.. , ख.. , ङ.. , ञ.. च
२ शुष्काणि दग्धमंसानि इति ङ..
३ प्राजापत्याद्द्विजः शुचिरिति ख..

अग्निहोत्रपरीद्धाग्निर्ब्राह्मणः कामचारतः ।१६८.०२३
चान्द्रायणं चरेन्मासं वीरवध्वासनं हितं ॥१६८.०२३
ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः ।१६८.०२४
महान्ति पातकान्याहुः संयोगश्चैव तैः सह ॥१६८.०२४
अनृते च समुत्कर्षो राजगामि च पैशुनं ।१६८.०२५
गुरोश्चालीकनिर्बन्धः समानं ब्रह्महत्यया(१) ॥१६८.०२५
ब्रह्मोज्झ्यवेदनिन्दा च कौटसाक्ष्यं सुहृद्बधः ।१६८.०२६
गर्हितान्नाज्ययोर्जग्धिः(२) सुरापानसमानि षट् ॥१६८.०२६
निक्षेपस्यापहरणं नराश्वरजतस्य च ।१६८.०२७
भूमिवज्रमणीनाञ्च रुक्मस्तेयसमं स्मृतं ॥१६८.०२७
रेतःसेकः स्वयोन्याषु कुमारीष्वन्त्यजासु च ।१६८.०२८
सख्युः पुत्रस्य च(३) स्त्रीषु गुरुतल्पसमं विदुः ॥१६८.०२८
गोबधोऽयाज्य संयाज्यं पारदार्यात्मविक्रियः ।१६८.०२९
गुरुमातृपितृत्यागः स्वाध्ययाग्न्योः सुतस्य च ॥१६८.०२९
परिवित्तितानुजेन परिवेदनमेव च ।१६८.०३०
तयोर्दानञ्च कन्यायास्तयोरेव च याजनं ॥१६८.०३०
कन्याया दूषणञ्चैव वार्धुष्यं व्रतलोपनं ।१६८.०३१
तडागारामदाराणामपत्यस्य च विक्रियः ॥१६८.०३१
व्रात्यता बान्धवत्यागो भृताध्यापनमेव च ।१६८.०३२
भृताच्चाध्ययनादानमविक्रेयस्य विक्रयः ॥१६८.०३२
टिप्पणी
१ समानि ब्रह्महत्ययेति ख.. , ङ.. , ञ.. च
२ गर्हितानामन्नजग्धिरिति ङ..
३ सख्युः सुतस्य चेति ङ..

सर्वाकारेष्वधीकारो महायन्त्रप्रवर्तनं ।१६८.०३३
हिंसौषधीनां स्त्र्याजीवः क्रियालङ्गनमेव च ॥१६८.०३३
इन्धनार्थमशुष्काणां दुमाणाञ्चैव पातनं ।१६८.०३४
योषितां ग्रहणञ्चैव स्त्रीनिन्दकसमागमः ॥१६८.०३४
आत्मार्थञ्च क्रियारम्भो निन्दितान्नदनन्तथा ।१६८.०३५
अनाहिताग्नितास्तेयमृणानाञ्चानपक्रिया ॥१६८.०३५
असच्छास्त्राधिगमनं दौःशील्यं व्यसनक्रिया ।१६८.०३६
धान्यकुप्यपशुस्तेयं मद्यपस्त्रीनिषेवणं ॥१६८.०३६
स्त्रीशूद्रविट्क्षत्रबधो नास्तिक्यञ्चोपपातकं ।१६८.०३७
ब्राह्मणस्य रुजः कृत्यं घ्रातिरघ्रेयमद्ययोः ॥१६८.०३७
जैंभं पुंसि च मैथुन्यं जातिभ्रंशकरं स्मृतं ।१६८.०३८
श्वखरोष्ट्रमृगेन्द्राणामजाव्योश्चैव मारणं(१) ॥१६८.०३८
सङ्कीर्णकरणं ज्ञेयं मीनाहिनकुलस्य च ।१६८.०३९
निन्दितेभ्यो धनादानं बाणिज्यं शूद्रसेवनं ॥१६८.०३९
अपात्रीकरणं ज्ञेयमसत्यस्य च भाषणं ।१६८.०४०
कृमिकीटवयोहत्या मद्यानुगतभोजनं ॥१६८.०४०
फलैधःकुसुमस्तेयमधैर्यञ्च मलावहम् ॥४१॥१६८.०४१
टिप्पणी
१ मार्जारस्यैव मारणमिति ङ..


इत्याग्नेये महापुराणे महापातकादिकथनं नामाष्टषष्ट्यधिकशततमोऽध्यायः ॥