अग्निपुराणम्/अध्यायः ६

विकिस्रोतः तः
Jump to navigation Jump to search
अग्निपुराणम्
















श्रीरामावतारवर्णनम्[सम्पाद्यताम्]

नारद उवाच
भरतेऽथ गते रामः पित्रादीनभ्यपूजयत् ।
राजा दशरथो राममुवाच शृणु राघव ॥६.००१
गुणानुरागाद्राज्ये त्वं प्रजाभिरभिषेचितः ।
मनसाहं प्रभाते ते यौवराज्यं ददामि ह ॥६.००२
रात्रौ त्वं सीतया सार्धं संयतः सुव्रतो भव ।
राज्ञश्च मन्त्रिणश्चाष्टौ सवसिष्ठास्तथाब्रुवन् ॥६.००३
सृष्टिर्जयन्तो विजयः सिद्धार्थो राष्ट्रवर्धनः(१) ।
अशोको धर्मपालश्च सुमन्त्रः सवसिष्ठकः(२) ॥६.००४
पित्रादिवचनं श्रुत्वा तथेत्युक्त्वा स राघवः ।
स्थितो देवार्चनं कृत्वा कौशल्यायै निवेद्य तत् ॥६.००५
राजोवाच वसिष्ठादीन् रामराज्याभिषेचने ।
सम्भारान् सम्भवन्तु स्म इत्युक्त्वा कैकेयीङ्गतः ॥६.००६
अयोध्यालङ्कृतिं दृष्ट्वा ज्ञात्वा रामाभिषेचनं ।
भविष्यतीत्याचचक्षे कैकेयीं मन्थरा सखी(३) ॥६.००७
पादौ गृहीत्वा रामेण कर्षिता सापराधतः ।
तेन वैरेण सा राम वनवासञ्च काङ्क्षति ॥६.००८
कैकेयि त्वं समुत्तिष्ठ रामराज्याभिषेचनं ।
मरणं तव पुत्रस्य मम ते नात्र संशयः ॥६.००९
कब्जयोक्तञ्च तच्छ्रुत्वा एकमाभरणं ददौ ।
उवाच मे यथा रामस्तथा मे भरतः सुतः ॥६.०१०
उपायन्तु न पश्यामि भरतो येन राज्यभाक् ।
कैकेयीमब्रवीत्क्रुद्धा हारं त्यक्त्वाथ मन्थरा ॥६.०११
बालिशे रक्ष भरतमात्मानं माञ्च राघवात् ।
भविता राघवो राजा राघवस्य ततः सुतः ॥६.०१२
राजवंशस्तु कैकेयि भरतात्परिहास्यते ।
देवासुरे पुरा युद्धे शम्बरेण हताः सुराः ॥६.०१३
रात्रौ भर्ता गतस्तत्र रक्षितो विद्यया त्वया ।
वरद्वयन्तदा प्रादाद्याचेदानीं नृपञ्च तत् ॥६.०१४
रामस्य च वनेवासं नव वर्षाणि पञ्च च ।
यौवराज्यञ्च भरते तदिदानीं प्रदास्यति ॥६.०१५
प्रोत्साहिता कुब्जया सा अनर्थे चार्थदर्शिनी ।
उवाच सदुपायं मे कच्चित्तं(४) कारयिष्यति ॥६.०१६
क्रोधागारं प्रविष्टाथ पतिता भुवि मूर्छिता ।
द्विजादीनर्चयित्वाथ राजा दशरथस्तदा ॥६.०१७
ददर्श केकयीं रुष्टामुवाच कथमीदृशी ।
रोगार्ता किं भयोद्विग्ना किमिच्छसि करोमि तत् ॥६.०१८
येन रामेण हि विना न जीवामि मुहूर्तकम् ।
शपामि तेन कुर्यां वै वाञ्छितं तव सुन्दरि ॥६.०१९
सत्यं ब्रूहीति सोवाच नृपं मह्यं ददासि चेत् ।
वरद्वयं पूर्वदत्तं सत्यात्त्वं देहि मे नृप ॥६.०२०
चतुर्दशसमा रामो वने वसतु संयतः ।
सम्भारैरेभिरद्यैव भरतोत्राभिषेच्यताम् ॥६.०२१
विषं पीत्वा मरिष्यामि दास्यसि त्वं न चेन्नृप ।
तच्छ्रुत्वा मूर्छितो भूमौ वज्राहत इवापतत् ॥६.०२२
मुहूर्ताच्चेतनां प्राप्य कैकेयीमिदमब्रवीत् ।
किं कृतं तव रामेण मया वा पापनिश्चये ॥६.०२३
यन्मामेवं ब्रवीषि त्वं सर्वलोकाप्रियङ्करि ।
केवलं त्वत्प्रियं कृत्वा भविष्यामि सुनिन्दितः ॥६.०२४
या त्वं भार्या(५) कालरात्री भरतो नेदृशः सुतः ।
प्रशाधि विधवा राज्यं मृते मयि गते सुते ॥६.०२५
सत्यपाशनिबद्धस्तु राममाहूय चाब्रवीत् ।
कैकेय्या वञ्चितो राम राज्यं कुरु निगृह्य माम् ॥६.०२६
त्वया वने तु वस्तव्यं कैकेयीभरतो नृपः ।६.०२७
पितरञ्चैव कैकेयीं नमस्कृत्य प्रदक्षिणं ॥६.०२७
कृत्वा नत्वा च कौशल्यां समाश्वस्य सलक्ष्मणः ।
सीतया भार्यया सार्धं सरथः ससुमन्त्रकः ॥६.०२८
दत्वा दानानि विप्रेभ्यो दीनानाथेभ्य एव सः ।
मातृभिश्चैव विप्राद्यैः शोकार्तैर्निर्गतः पुरात् ॥६.०२९
उषित्वा तमसातीरे रात्रौ पौरान् विहाय च ।
प्रभाते तमपश्यन्तोऽयोध्यां ते पुनरागताः ॥६.०३०
रुदन् राजापि कौशल्या गृहमागात्सुदुःखितः ।
पौरा जना स्त्रियः सर्वा रुरुदू राजयोषितः ॥६.०३१
रामो रथस्थश्चीराढ्यः शृङ्गवेरपुरं ययौ ।
गुहेन पूजितस्तत्र इङ्गुदीमूलमाश्रितः(६) ॥६.०३२
लक्ष्मणः स गुहो रात्रौ चक्रतुर्जागरं हि तौ ।
सुमन्त्रं सरथं त्यक्त्वा प्रातर्नावाथ जाह्नवीं ॥६.०३३
रामलक्ष्मणसीताश्च तीर्णा आपुः प्रयागकम् ।
भरद्वाजं नमस्कृत्य चित्रकूटं गिरिं ययुः ॥६.०३४
वास्तुपूजान्ततः कृत्वा स्थिता मन्दाकिनीतटे ।
सीतायै दर्शयामास चित्रकूटञ्च राघवः ॥६.०३५
नखैर्विदारयन्तन्तां काकन्तच्चक्षुराक्षिपत् ।
ऐषिकास्त्रेण शरणं प्राप्तो देवान् विहायसः ॥६.०३६
रामे वनं गते राजा षष्ठेऽह्नि निशि चाब्रवीत् ।
कौशल्यां स कथां पौर्वां(७) यदज्ञानद्धतः पुरा ॥६.०३७
कौमारे शरयूतीरे यज्ञदत्तकुमारकः ।
शब्दभेदाच्च कुम्भेन शब्दं कुर्वंश्च तत्पिता ॥६.०३८
शशाप विलपन्मात्रा शोकं कृत्वा रुदन्मुहुः ।
पुत्रं विना मरिष्यावस्त्वं च शोकान्मरिष्यसि ॥६.०३९
पुत्रं विना स्मरन् शोकात्कौशल्ये मरणं मम ।
कथामुक्त्वाथ हा राममुक्त्वा राजा दिवङ्गतः ॥६.०४०
सुप्तं मत्त्वाथ कौशल्या सुप्ता शोकार्तमेव सा ।
सुप्रभाते गायनाश्च सूतमागधवन्दिनः ॥६.०४१
प्रबोधका बोधयन्ति न च बुध्यत्यसौ मृतः(८) ।
कौशल्या तं मृतं ज्ञात्वा हा हतास्मीति चाब्रवीत्(९) ॥६.०४२
नरा नार्योऽथ रुरुदुरानीतो भरतस्तदा ।
वशिष्ठाद्यैः सशत्रुघ्नः शीघ्रं राजगृहात्पुरीम् ॥६.०४३
दृष्ट्वा सशोकां कैकेयीं निन्दयामास दुःखितः ।
अकीर्तिः पातिता मूर्ध्नि कौशल्यां स प्रशस्य च ॥६.०४४
पितरन्तैलद्रोणिस्थं संस्कृत्य सरयूतटे ।
वशिष्ठाद्यैर्जनैरुक्तो राज्यं कुर्विति सोऽब्रवीत् ॥६.०४५
व्रजामि राममानेतुं रामो राजा मतो बली(१०) ।
शृङ्गवेरं प्रयागञ्च भरद्वाजेन भोजितः ॥६.०४६
नमस्कृत्य भरद्वाजं रामं लक्ष्मणमागतः ।
पिता स्वर्गं गतो राम अयोध्यायां नृपो भव ॥६.०४७
अहं वनं प्रयास्यामि त्वदादेशप्रतीक्षकः ।
रामः श्रुत्वा जलं दत्वा गृहीत्वा पादुके व्रज ॥६.०४८
राज्यायाहन्नयास्यामि(११) सत्याच्चीरजटाधरः ।
रामोक्तो भरतश्चायान्नन्दिग्रामे स्थितो बली ॥
त्यक्त्वायोध्यां पादुके ते पूज्य राज्यमपालयत् ॥६.०४९
इत्यादिमहापुराणे आग्नेये रामायणेऽयोध्याकाण्डवर्णनं नाम षष्ठोऽध्यायः ॥

टिप्पणी १ राज्यवर्धन इति ख, ग, घ चिह्नितपुस्तकत्रयपाठः २ सुमन्त्रश्च वशिष्ठक इति ख, ग, घ, ङ, चिह्नितपुस्तकचतुष्टयपाठः ३ मन्थरासती इति ख, ङ, चिह्नितपुस्तकद्वयपाठः मन्थरा सतीमिति ग, चिह्नितपुस्तकपाठः ४ कथितमिति ख, ङ, चिह्नितपुस्तकद्वयपाठः ५ न त्वं भार्या इति ग, घ, छ, चिह्नितपुस्तकत्रयपाठः ६ संश्रित इति ग, घ, चिह्नितपुस्तकद्वयपाठः ७ पूर्वामिति ग, ङ, चिह्नितपुस्तकद्वयपाठः ८ नृप इति ङ, चिह्नितपुस्तकपाठः ९ चापतदिति ङ, चिह्नितपुस्तकपाठः १० यतो बली इति ख, ग, चिह्नितपुस्तकद्वयपाठः गतो बली इति ख, ङ, चिह्नितपुस्तकद्वयपाठः ११ नाहं राज्यं प्रयास्यामि इति ख, चिह्नितपुस्तकपाठः राज्यं नाहं प्रयास्यामि इति ङ, चिह्नितपुस्तकपाठः

नारद उवाच
भरतेऽथ गते रामः पित्रादीनभ्यपूजयत्।
राजा दशरथो राममुवाच श्रृणु राघव ।। १ ।।

गुणानुरागाद्राज्ये त्वं प्रजाभिरभिषेचितः।
मनसाऽहं प्रभाते ते यौवराज्यं ददामि च ।। २ ।।

रात्रौ त्वं सीतया सार्धं संयतः सुव्रतो भव।
राज्ञश्च मन्त्रिणश्चाष्टौ सवसिष्ठास्तथाब्रुवन् ।। ३ ।।

सृप्टिर्जयन्तो विजयः सिद्धार्थो राष्ट्रवर्धनः ।
अशोको धर्मपालश्च सुमन्त्रः सवसिष्ठकः ।। ४ ।।

पित्रादिवचनं श्रुत्वा तथेत्युक्त्वा स राघवः।
स्थितो देवार्चनं कृत्वा कौशल्यायै निवेद्य तत् ।। ५ ।।

राजोवाच वसिष्ठादीन् रामराज्याभिषेचने।
सम्भारान् सम्भवन्तु स्म इत्युक्त्वा कैकयीङ्गतः ।। ६ ।।

अयोध्यालङ्कृति दृष्ट्वा ज्ञात्वा रामाभिषेचनम्।
भविष्यतीत्याचचक्षे कैकेयीं मन्थरा सखी ।। ७ ।।

पादौ गृहीत्वा रामेण कर्षिता सापरधतः।
 तेन वैरेण सा रामावनवासं चा काङ्क्षती ।। ८ ।।

कैकयि त्वं समुत्तिष्ठ रामराज्याभिषेचनम्।
मरणं तव पुत्रस्य मम ते नात्र संशयः।।९।।

कुव्जयोक्तञ्च तच्छ्रुत्वा एकमाभरणं ददौ।
उवाच मे यथा रामस्तथा मे भरतः सुतः।।१०।।

उपायन्तु न पश्यामि भरतो येन राज्यभाक्।
कैकेयीमब्रवीत् क्रुद्धा हारं त्यक्त्वाऽथ मन्थरा ।। ११ ।।

बालिशे रक्ष भरतमात्मानं माञ्च राघवात्।
देवासुरे पुरा युद्धे शम्बरेण हताः सुराः ।। १२ ।।

राजवंशस्तु कैकेयि भरतात् परिहास्यते।
देवासुरे पुरा युद्दे राम्बरेण हताः सुरा ।। १३ ।।

रात्रौ भर्त्ता गतस्तत्र रक्षितो विद्यया त्वया।
वरद्वयन्तदा प्रादाद्याचेदानीं नृपञ्च तत् ।। १४ ।।

रामस्य च वनेवासं नव वर्षाणि पञ्च च।
यौवराज्यञ्च भरते तदिदानीं प्रदास्यति ।।१५।।

प्रोत्साहिता कुव्जया सा अनर्थे चार्थदर्शिनी।
उवाच सदुपायं मे कच्चितं कारयिष्यति ।। १६ ।।

क्रोधागारं प्रविष्टाऽय पतिता भुवि मूर्च्छिता।
द्विजादीनर्च्चयित्वाऽथ राजा दशरथस्तदा ।। १७ ।।

ददर्श केकयीं रुष्टामुवाच कथमीदृशी।
रोगार्त्ता किं भयोद्विग्ना किमिच्छसि करोमि तत् ।। १८ ।।

येन रामेण हि विना न जीवामि मुहूर्त्तकम्।
शपामि तेन कुर्यां वै वाञ्छितं तव सुन्दरि ।। १९ ।।

सत्यं व्रूहीति सोवाच नृपं मह्यं ददासि चेत्।
वरद्वयं पूर्वदत्तं सत्यात् त्वं देहि मे नृप ।। २० ।।

चतुर्द्दशसमा रामो वने वसतु संयतः।
सम्भारैरेभिरद्यैव भरतोत्राभिषेच्यताम् ।।२१।।

विषं पीत्वा मरिप्यामि दास्यसि त्वं न चेन्नृप।
तच्छ्रुत्वा मूर्च्छितो भूमौ वज्राहत इवापतत् ।। २२ ।।

मुहूर्त्ताच्चेतनां प्राप्य कैकेयीमिदमब्रवीत्।
किं कृतं तव रामेण मय वा पापनिश्चये ।। २३ ।।

यन्मामेवं ब्रवीषि त्वं सर्वलोकाप्रियङ्करि।
केवलं त्वत्प्रियं कृत्वा भविष्यामि सुनिन्दितः ।। २४ ।।

या त्वं भार्या कालरात्री भरतो नेदृशः सुतः।
प्रशाधि विधवा राज्यं मृते मयि गतो सुते ।। २५ ।।

सत्यपाशनिबद्धस्तु राममाहूय चाब्रवीत्।
कैकय्या वञ्चितो राम राज्यं कुरु निगृह्य माम् ।। २६ ।।

त्वया वने तु वस्तव्यं कैकेयीभरतो नृपः।
पितरञ्चैव कैकेयीं नमस्कृत्य प्रदक्षिणम् ।। २७ ।।

कृत्वा नत्वा च कौशल्यां समाश्वास्य सलक्ष्मणः।
सीतया भार्यया सार्द्ध सरथः ससुमन्त्रकः ।। २८ ।।

दत्त्वा दानानि विप्रेभ्यो दीनानाथेभ्य एव सः।
मातृभिश्चैव विप्राद्यैः शोकार्त्तौनिर्गतः पुरात् ।। २९ ।।

उषित्वा तमसातीरे रात्रौ पौरान् विहाय च।
प्रभाते तमपश्यन्तोऽयोध्यां ते पुनरागताः ।। ३० ।।

रुदन् राजापि कौशल्यागृहमागात् सुदुः खितः।
पौरा जना स्त्रियः सर्वा रुरुदू राजयोपितः ।। ३१ ।।

रामो रथस्थश्चीराढ्यः श्रृङ्गवेरपुरं ययौ।
गुहेन पूजितस्तत्र इङ्गुदीमूलमाश्रितः ।। ३२ ।।

लक्ष्मणः स गुहो रात्रौ, चक्रतुर्ज्जागरं हि तौ।
सुमन्त्रं सरथं त्यक्त्वा प्रातर्न्नवाथ जाह्नवीम् ।। ३३ ।।

रामलक्ष्मणसीताश्च तीर्णा आपुः प्रयागकम्।
भरद्वाजंनमस्कृत्य चित्रकूटं गिरिं ययुः ।। ३४ ।।

वास्तुपूजान्ततः कृत्वा स्थिता मन्दाकिनीतटे।
सीतायै दर्शयामास चित्रकूटञ्च राघवः ।। ३५ ।।

नखैर्विदारयन्तन्तां काकन्तच्छक्षुराक्षिपत्।
ऐषिकास्त्रेण शरणं प्राप्तो देवान् विहाय सः ।। ३६ ।।

रामे वनं गते राजा षष्ठेऽह्नि निशि चाब्रवीत्।
कौशल्यां सकथा पौर्वां यदज्ञानाद्दतः पुरा ।। ३७ ।।

कौमारे सरयूतीरे यज्ञदत्तकुमारकः।
शब्दभेदाच्च कुम्भेन शब्दं कुर्वंश्च तत्पिता ।। ३८ ।।

शशाप विलपन्मात्रा शोकं कृत्वा रुदन्मुहुः।
पुत्रं विना मरिष्यावस्त्वं च शोकान्मरिष्यसि ।। ३९ ।।

पुत्रं विना स्मरन् शोकात् कौशल्ये मरणं मम ।
कथामुक्त्वाऽथ हा राममुक्त्वा राजा दिवङ्गतः ।। ४० ।।

सुप्तं मत्वाऽथ कौशल्या सुप्ता शोकार्त्तमेव सा।
सुप्रभाते गायनाश्च सूतमागधवन्दिनः ।। ४१ ।।

प्रबोधका बोधयन्ति न च बुध्यत्यसौ मृतः ।
कौशल्या तं मृतं ज्ञात्वा हा हतास्मीति चाब्रवीत् ।। ४२ ।।

नरा नार्योऽथ रुरुदुरानीतो भरतस्तदा।
वशिष्ठद्यैः सशत्रुघ्नः शीघ्नं राजगृहात्पुरीम् ।। ४३ ।।

दृष्ट्वा सशोकां कैकेयीं निन्दयामास दुः खितः।
अकीर्त्तिः पातिता मूर्ध्नि कौसल्यां स प्रशस्य च ।। ४४ ।।

पितरन्तैलद्रोणिस्थं संस्कृत्य सरयूतटे।
वशिष्ठाद्यैर्ज्जनैरुक्तोराज्यं कुर्विति सोऽब्रवीत् ।। ४५ ।।

व्रजामि राममानेतुं रामो राजा मतो बली
श्रृङ्गवेरं प्रयागञ्च भरद्वाजेन भोजितः ।। ४६ ।।

नमस्कृत्य भरद्वाजं रामं लक्ष्मणमागतः।
पिता स्वर्गं गतो राम अयोध्यायां नृपो भव ।। ४७ ।।

अहं वनं प्रयास्यामि त्वदादेशप्रतीक्षकः।
रामः श्रुत्वा जलं दत्त्वा गृहीत्वा पादुके व्रज ।। ४८ ।।

राज्यायाहं न यास्यामि सत्याच्चीरजटाधरः।
रामोक्तो भरतश्चायान्नन्दिग्रामे स्थितो बली
त्यक्त्वाऽयोध्यां पादुके ते पूज्य राज्यमपालयत् ।। ४९ ।।

इत्यादिमहापुराणे आग्नेये रामायणेऽयोध्याकाण्डवर्णनं नाम षष्ठोऽध्यायः ।।