अग्निपुराणम्/अध्यायः ३८०

विकिस्रोतः तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
अग्निपुराणम्
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८
  109. अध्यायः १०९
  110. अध्यायः ११०
  111. अध्यायः १११
  112. अध्यायः ११२
  113. अध्यायः ११३
  114. अध्यायः ११४
  115. अध्यायः ११५
  116. अध्यायः ११६
  117. अध्यायः ११७
  118. अध्यायः ११८
  119. अध्यायः ११९
  120. अध्यायः १२०
  121. अध्यायः १२१
  122. अध्यायः १२२
  123. अध्यायः १२३
  124. अध्यायः १२४
  125. अध्यायः १२५
  126. अध्यायः १२६
  127. अध्यायः १२७
  128. अध्यायः १२८
  129. अध्यायः १२९
  130. अध्यायः १३०
  131. अध्यायः १३१
  132. अध्यायः १३२
  133. अध्यायः १३३
  134. अध्यायः १३४
  135. अध्यायः १३५
  136. अध्यायः १३६
  137. अध्यायः १३७
  138. अध्यायः १३८
  139. अध्यायः १३९
  140. अध्यायः १४०
  141. अध्यायः १४१
  142. अध्यायः १४२
  143. अध्यायः १४३
  144. अध्यायः १४४
  145. अध्यायः १४५
  146. अध्यायः १४६
  147. अध्यायः १४७
  148. अध्यायः १४८
  149. अध्यायः १४९
  150. अध्यायः १५०
  151. अध्यायः १५१
  152. अध्यायः १५२
  153. अध्यायः १५३
  154. अध्यायः १५४
  155. अध्यायः १५५
  156. अध्यायः १५६
  157. अध्यायः १५७
  158. अध्यायः १५८
  159. अध्यायः १५९
  160. अध्यायः १६०
  161. अध्यायः १६१
  162. अध्यायः १६२
  163. अध्यायः १६३
  164. अध्यायः १६४
  165. अध्यायः १६५
  166. अध्यायः १६६
  167. अध्यायः १६७
  168. अध्यायः १६८
  169. अध्यायः १६९
  170. अध्यायः १७०
  171. अध्यायः १७१
  172. अध्यायः १७२
  173. अध्यायः १७३
  174. अध्यायः १७४
  175. अध्यायः १७५
  176. अध्यायः १७६
  177. अध्यायः १७७
  178. अध्यायः १७८
  179. अध्यायः १७९
  180. अध्यायः १८०
  181. अध्यायः १८१
  182. अध्यायः १८२
  183. अध्यायः १८३
  184. अध्यायः १८४
  185. अध्यायः १८५
  186. अध्यायः १८६
  187. अध्यायः १८७
  188. अध्यायः १८८
  189. अध्यायः १८९
  190. अध्यायः १९०
  191. अध्यायः १९१
  192. अध्यायः १९२
  193. अध्यायः १९३
  194. अध्यायः १९४
  195. अध्यायः १९५
  196. अध्यायः १९६
  197. अध्यायः १९७
  198. अध्यायः १९८
  199. अध्यायः १९९
  200. अध्यायः २००
  201. अध्यायः २०१
  202. अध्यायः २०२
  203. अध्यायः २०३
  204. अध्यायः २०४
  205. अध्यायः २०५
  206. अध्यायः २०६
  207. अध्यायः २०७
  208. अध्यायः २०८
  209. अध्यायः २०९
  210. अध्यायः २१०
  211. अध्यायः २११
  212. अध्यायः २१२
  213. अध्यायः २१३
  214. अध्यायः २१४
  215. अध्यायः २१५
  216. अध्यायः २१६
  217. अध्यायः २१७
  218. अध्यायः २१८
  219. अध्यायः २१९
  220. अध्यायः २२०
  221. अध्यायः २२१
  222. अध्यायः २२२
  223. अध्यायः २२३
  224. अध्यायः २२४
  225. अध्यायः २२५
  226. अध्यायः २२६
  227. अध्यायः २२७
  228. अध्यायः २२८
  229. अध्यायः २२९
  230. अध्यायः २३०
  231. अध्यायः २३१
  232. अध्यायः २३२
  233. अध्यायः २३३
  234. अध्यायः २३४
  235. अध्यायः २३५
  236. अध्यायः २३६
  237. अध्यायः २३७
  238. अध्यायः २३८
  239. अध्यायः २३९
  240. अध्यायः २४०
  241. अध्यायः २४१
  242. अध्यायः २४२
  243. अध्यायः २४३
  244. अध्यायः २४४
  245. अध्यायः २४५
  246. अध्यायः २४६
  247. अध्यायः २४७
  248. अध्यायः २४८
  249. अध्यायः २४९
  250. अध्यायः २५०
  251. अध्यायः २५१
  252. अध्यायः २५२
  253. अध्यायः २५३
  254. अध्यायः २५४
  255. अध्यायः २५५
  256. अध्यायः २५६
  257. अध्यायः २५७
  258. अध्यायः २५८
  259. अध्यायः २५९
  260. अध्यायः २६०
  261. अध्यायः २६१
  262. अध्यायः २६२
  263. अध्यायः २६३
  264. अध्यायः २६४
  265. अध्यायः २६५
  266. अध्यायः २६६
  267. अध्यायः २६७
  268. अध्यायः २६८
  269. अध्यायः २६९
  270. अध्यायः २७०
  271. अध्यायः २७१
  272. अध्यायः २७२
  273. अध्यायः २७३
  274. अध्यायः २७४
  275. अध्यायः २७५
  276. अध्यायः २७६
  277. अध्यायः २७७
  278. अध्यायः २७८
  279. अध्यायः २७९
  280. अध्यायः २८०
  281. अध्यायः २८१
  282. अध्यायः २८२
  283. अध्यायः २८३
  284. अध्यायः २८४
  285. अध्यायः २८५
  286. अध्यायः २८६
  287. अध्यायः २८७
  288. अध्यायः २८८
  289. अध्यायः २८९
  290. अध्यायः २९०
  291. अध्यायः २९१
  292. अध्यायः २९२
  293. अध्यायः २९३
  294. अध्यायः २९४
  295. अध्यायः २९५
  296. अध्यायः २९६
  297. अध्यायः २९७
  298. अध्यायः २९८
  299. अध्यायः २९९
  300. अध्यायः ३००
  301. अध्यायः ३०१
  302. अध्यायः ३०२
  303. अध्यायः ३०३
  304. अध्यायः ३०४
  305. अध्यायः ३०५
  306. अध्यायः ३०६
  307. अध्यायः ३०७
  308. अध्यायः ३०८
  309. अध्यायः ३०९
  310. अध्यायः ३१०
  311. अध्यायः ३११
  312. अध्यायः ३१२
  313. अध्यायः ३१३
  314. अध्यायः ३१४
  315. अध्यायः ३१५
  316. अध्यायः ३१६
  317. अध्यायः ३१७
  318. अध्यायः ३१८
  319. अध्यायः ३१९
  320. अध्यायः ३२०
  321. अध्यायः ३२१
  322. अध्यायः ३२२
  323. अध्यायः ३२३
  324. अध्यायः ३२४
  325. अध्यायः ३२५
  326. अध्यायः ३२६
  327. अध्यायः ३२७
  328. अध्यायः ३२८
  329. अध्यायः ३२९
  330. अध्यायः ३३०
  331. अध्यायः ३३१
  332. अध्यायः ३३२
  333. अध्यायः ३३३
  334. अध्यायः ३३४
  335. अध्यायः ३३५
  336. अध्यायः ३३६
  337. अध्यायः ३३७
  338. अध्यायः ३३८
  339. अध्यायः ३३९
  340. अध्यायः ३४०
  341. अध्यायः ३४१
  342. अध्यायः ३४२
  343. अध्यायः ३४३
  344. अध्यायः ३४४
  345. अध्यायः ३४५
  346. अध्यायः ३४६
  347. अध्यायः ३४७
  348. अध्यायः ३४८
  349. अध्यायः ३४९
  350. अध्यायः ३५०
  351. अध्यायः ३५१
  352. अध्यायः ३५२
  353. अध्यायः ३५३
  354. अध्यायः ३५४
  355. अध्यायः ३५५
  356. अध्यायः ३५६
  357. अध्यायः ३५७
  358. अध्यायः ३५८
  359. अध्यायः ३५९
  360. अध्यायः ३६०
  361. अध्यायः ३६१
  362. अध्यायः ३६२
  363. अध्यायः ३६३
  364. अध्यायः ३६४
  365. अध्यायः ३६५
  366. अध्यायः ३६६
  367. अध्यायः ३६७
  368. अध्यायः ३६८
  369. अध्यायः ३६९
  370. अध्यायः ३७०
  371. अध्यायः ३७१
  372. अध्यायः ३७२
  373. अध्यायः ३७३
  374. अध्यायः ३७४
  375. अध्यायः ३७५
  376. अध्यायः ३७६
  377. अध्यायः ३७७
  378. अध्यायः ३७८
  379. अध्यायः ३७९
  380. अध्यायः ३८०
  381. अध्यायः ३८१
  382. अध्यायः ३८२
  383. अध्यायः ३८३

अद्वैतब्रह्मविज्ञानम्[सम्पाद्यताम्]

अग्निरुवाच
अद्वैतब्रह्मविज्ञानं वक्ष्ये यद्भवतोऽगदत् ।
शालग्रामे तपश्चक्रे वासुदेवार्चनादिकृत् ।। ३८०.१ ।।

मृगसङ्गान्मृगो बूत्वा ह्यन्तकाले स्मरन् मृगं ।
जातिस्मरो मृगस्त्यक्त्वा देहं योगात्स्वतोऽभवत् ।। ३८०.२ ।।

अद्वैतब्रह्मभूतश्च जडवल्लोकमाचरत् ।
क्षत्ताऽसौ वीरराजस्य विष्टियोगममन्यत ।। ३८०.३ ।।

उवाह शिविकामस्य क्षत्तुर्वचनचोदितः ।
गृहीतो विष्टिना ज्ञानी उवाहात्मक्षयाय तं ।। ३८०.४ ।।

ययौ जड़गतिः पश्चाद् ये त्वन्ये त्वरितं ययुः ।
शीघ्रान् शीघ्रगतीन् दृष्ट्वा अशीघ्रं तं नृपोऽव्रवीत् ।। ३८०.५ ।।

राजोवाच
किं श्रान्तोऽस्यल्पमध्वानं त्वयोढ़ा शिविका मम ।
किमायाससहो न त्वं पीवानसि निरीक्ष्यसे ।। ३८०.६ ।।

ब्राह्मण उवाच
नाहं पीवान्न वैषोढ़ा शिविका भवतो मया ।
न श्रान्तोऽस्मि न वायासो वोढव्योऽसि महीपते ।। ३८०.७ ।।

भूमौ पादयुगन्तस्थौ जङ्‌घे पादद्वये स्थिते ।
उरू जङ्घाद्वयावस्थौ तदाधारं तथोदरम् ।। ३८०.८ ।।

वक्षःस्थलं तथा वाहू स्कन्धौ चोदरसंस्थितौ ।
स्कन्धस्थितेयं शिविका मम भावोऽत्र किं कृतः ।। ३८०.९ ।।

शिविकायां स्थितञ्चेदं देहं त्वदुपलक्षितं ।
तत्र त्वमहमप्यत्र प्रोच्यते चेदमन्यथा ।। ३८०.१० ।।

अहं त्वञ्च तथान्यं च भूतैरुह्याम पार्थिव ।
गुणप्रवाहपतितो गुणवर्गो हि यात्ययं ।। ३८०.११ ।।

कर्म्मवश्या गुणाश्चैते सत्वाद्याः पृथिवीपते ।
अविद्यासञ्चितं कर्म तच्चाशेषेषु जन्तुषु ।। ३८०.१२ ।।

आत्मा शुद्धोऽक्षरः शान्तो निर्गुणः प्रकृतेः परः ।
प्रवृद्ध्यपचयौ नाम्य एकस्याखिलजन्तुषु ।। ३८०.१३ ।।

यदा नोपचयस्तस्य यदा नापचयो नृप।
तदा पीवानसीति त्वं कया युक्त्या त्वयेरितं ।। ३८०.१४ ।।

भूजङ्घापादकट्‌यूरुजठरादिषु संस्थिता ।
शिविकेयं तथा स्कन्धे तदा भावः समस्त्वया ।। ३८०.१५ ।।

तदन्यजन्तुभिर्भूप शिविसोत्थानकर्मणा ।
शैलद्रव्यगृहोत्थोपि पृथिवीसम्भवोपि वा ।। ३८०.१६ ।।

यथा पुंसः पृथग्भावः प्राकृतैः करणैर्नृप ।
सोढ़व्यः स महाभारः कतरो नृपते मया ।। ३८०.१७ ।।

यद्द्रव्या शिविका चेयं तद्‌द्रव्यो भूतसंग्रहः ।
भवतो मेऽखिलस्यास्य समत्वेनोपबृंहितः ।। ३८०.१८ ।।

तच्छ्रु त्वोवाच राजा तं गृहीत्वाङ्‌घ्री क्षमाप्य च ।
प्रसादं कुरु त्वक्त्वेमां शिविकां ब्रूहि श्रृण्वते ।
यो भवान् यन्निमित्तं वा यदागमनकारणम् ।। ३८०.१९ ।।

श्रूयतां कोहमित्येतद्वक्तु नैव च शक्यते ।
उपभोगनिमित्तञ्च सर्वत्रागमनक्रिया ।। ३८०.२० ।।

सुखदुःखोपभोगौ तु तौ देशाद्युपपादकौ ।
धर्माघर्मोद्भवौ भोक्तुं जन्तुर्देशादिमृच्छति ।। ३८०.२१ ।।

राजोवाच
योऽस्ति सोहमिति ब्रह्मन् कथं वक्तुं न शक्यते ।
आत्मन्येष न दोषाय शब्कदोहमिति यो द्विज ।। ३८०.२२ ।।

शब्दोहमित्रि दोषाय नात्मन्येष तथैव तत् ।
अनात्मन्यात्मविज्ञानं शब्दो वा भ्रान्तिलक्षणः ।। ३८०.२३ ।।

यदा समस्तदेहेषु पुमानेको व्यवस्थितः ।
तदा हि को भवान् कोहमित्येतद्विफलं वचः ।। ३८०.२४ ।।

त्वं राजा शिविका चेयं वयं वाहाः पुरःसराः ।
अयञ्च भवतो लोको न सदेनन्नृपोच्यते ।। ३८०.२५ ।।

वृक्षाद्दारु ततश्चेयं शिविका त्वदधिष्ठता ।
का वृक्षसंज्ञा जातास्य दारुसंज्ञाथ वा नृप ।। ३८०.२६ ।।

वृक्षारूढ़ो महाराजो नायं वदति चेतनः ।
न च दारुणि सर्वस्त्वां ब्रवीति शिविकागतं ।। ३८०.२७ ।।

शिविकादारुसङ्घातो रचनास्थितिसंस्थितः ।
अन्विष्यतां नृपश्रेष्ट तद्भेदे शिविका त्वया ।। ३८०.२८ ।।

पुमान् स्त्री गौरयं वाजी कुञ्जरो विहगस्तरुः ।
देहेषु लोकसंज्ञेयं विज्ञेया कर्महेतुषु ।। ३८०.२९ ।।

जिह्वा व्रवीत्यहमिति दन्तौष्ठौ तालुकं नृप ।
एते नाहं यतः सर्व्वेवाङ्निपादनहेतवः ।। ३८०.३० ।।

किं हेतुभिर्वदत्येषा वागेवाहमिति स्वयं ।
तथापि वाङ्नाहमेतदुक्तं मिथ्या न युज्यते ।। ३८०.३१ ।।

पिण्डः पृथग्‌ यतः पुंसः शिरःपाय्वादिलक्षणः ।
ततोऽहमिति कुत्रैतां संज्ञां राजन् करोम्यहं ।। ३८०.३२ ।।

यदन्योऽस्ति परः कोपि मत्तः पार्थिवसत्तम ।
तदेषोहमयं चान्यो वक्तुमेवमपीष्यते ।। ३८०.३३ ।।

परमार्थभेदो न नगो न पशुर्नच पादपः ।
शरीराश्च विभेदाश्च य एते कर्मयोनयः ।। ३८०.३४ ।।

यस्तु राजेत् यल्लोके यच्च राजभटात्मकम् ।
तच्चान्यच्च नृपेत्थन्तु न सत् सम्यगनामयं ।। ३८०.३५ ।।

त्वं राजा सर्वलोकस्य पितुः पुत्रो रिपोरिपुः ।
पत्न्याः पतिः पिता सूनोः कस्त्वां भूप वदाम्यहं ।। ३८०.३६ ।।

त्वं किमेतच्छिरः किन्नु शिरस्तव तथोदरं ।
किमु पादादिकं त्वं वै तवैतत् किं महीपते ।। ३८०.३७ ।।

समस्तावयवेभ्यस्त्वं पृथग्भूतो व्यवस्थितः ।
कोहमित्यत्र निपुणं भूत्वा चिन्तय पार्थिव ।।

तच्छ्रत्वोवाच राजा तमवधूतं द्विजं हरिं ।। ३८०.३८ ।।
श्रेयोऽर्थमुद्यतः प्रष्ट्रं कपिलर्षिमहं द्विज ।

तस्याशः कपिलर्षेस्त्वं मत् कृते ज्ञानदो भुवि ।।
ज्ञानवीच्युदधेर्यस्माद्यच्छ्रेयस्तच्च मे वद ।। ३८०.३९ ।।

ब्राह्मण उवाच
भूयः पृच्छसि किं श्रेयः परमार्थन्न पृच्छसि ।
श्रेयांस्यपरमार्थानि अशेषाण्येव भूपते ।। ३८०.४० ।।

देवताराधनं कृत्वा धनसम्पत्तिमिच्छति ।
पुत्रानिच्छति राज्यञ्च श्रेयस्तस्यैव किं नृपः ।। ३८०.४१ ।।

विवेकिनस्तु संयोगः श्रेयो यः परमात्मनः ।
यज्ञादिका क्रिया न स्यात् नास्ति द्रव्योपपत्तिता ।। ३८०.४२ ।।

परमार्थात्मनोर्योगः परमार्थ इतीष्यते ।
एको व्यापी समः शुद्धो निर्गुणः प्रकृतेः परः ।। ३८०.४३ ।।

जन्मवृद्ध्यादिरहित आत्मा सर्वगतोऽव्ययः ।
परं ज्ञानमयोऽसङ्गी गुणजात्यादिभिर्विभुः ।। ३८०.४४ ।।

निदाघऋतुसंवादं वदामि द्विज तं श्रृणु२ ।
ऋतुर्ब्रह्मसुतो ज्ञानी तच्छिष्योऽभूत् पुलत्स्यजः ।। ३८०.४५ ।।

निदाघः प्राप्तविद्योऽस्मान्नगरे वै पुरे स्थितः ।
देविकायास्तटे तञ्च तर्कयामास वै ऋतुः ।। ३८०.४६ ।।

दिव्ये वर्षसहस्रेऽगान्निदाघमवलोकितुं ।
निदाघो वैश्वदेवान्ते भुक्त्वान्नं शिष्यमब्रवीत् ।।
भुक्तन्ते तृप्तिरुत्पन्ना तुष्टिदा साऽक्षया यतः ।। ३८०.४७ ।।

ऋतुरुवाच ।
क्षुदस्ति यस्य भुक्तेऽन्ने तुष्टिर्ब्राह्मण जायते ।
न मे क्षुदभवत्तृप्तिं कस्मात्त्वं परिपृच्छसि ।। ३८०.४८ ।।

क्षुत्तृष्णे देहधर्म्माख्ये न ममैते यतो द्विज ।
पृष्टोहं यत्त्वाया ब्रूयां३ तृप्तिरस्त्येव मे सदा ।। ३८०.४९ ।।

पुमान् सर्वगतो व्यापी आकाशवदयं यतः ।
अतोऽहं प्रत्यगात्मास्मीत्येतदर्थे भवेत् कथं४ ।। ३८०.५० ।।

सोऽहं गान्ता५ न चागन्ता नैकदेशनिकेतनः ।
त्वं चान्यो न भवेन्नापि नान्यस्त्वक्तोऽस्मि वा प्यहं ।। ३८०.५१ ।।

मृण्मयं हि गृहं यद्वन्मृदालिप्तं स्थिरीभबेत् ।
पार्थिवोऽयं तथा देहः पार्थिवैः परमाणुभिः ।। ३८०.५२ ।।

ऋतुरस्मि तवाचार्य्यः प्रज्ञादानाय ते द्विज ।
इहागतोऽहं यास्यामि परमार्थस्तवोदितः ।। ३८०.५३ ।।

एकमेवमिदं विद्धि न भेदः सकलं जगत् ।
वासुदेवाभिधेयस्य स्वरूपं परमात्मनः ।। ३८०.५४ ।।

ऋतुर्वर्षसहस्रान्ते पुनस्तन्नगरं ययौ ।
निदाघं नगरप्रान्ते एकान्ते स्थितमव्रवीत् ।।
एकान्ते स्थीयते कस्मान्निदाघं ऋतुरव्रवीत् ।। ३८०.५५ ।।

निदाघ उवाच
भो विप्र जनसंवादो महानेष नरेश्वर ।
प्रविवीक्ष्य पुरं रम्यं तेनात्र स्थीयते मया ।। ३८०.५६ ।।

ऋतुरुवाच
नराधिपोऽत्र कतमः कतमश्चेतरो जनः ।
कथ्यतां मे द्विजश्रेष्ठ त्वमभिज्ञो द्विजोत्तम ।। ३८०.५७ ।।

योऽयं गजेन्द्रमुन्मत्तमद्रिश्रृङ्गसमुत्थितं ।
अधिरूढ़ो नरेन्द्रोऽयं परिवारस्तथेतरः६ ।। ३८०.५८ ।।

गजो योऽयमधो ब्रह्मन्नुपर्य्येष स भूपतिः ।
ऋतुराह गजः कोऽत्र राजा चाह निदाघकः ।। ३८०.५९ ।।

ऋतुर्निदाघ आरुढ़ो दृष्टान्तं पश्य वाहनं ।
उपर्य्यहं यथा राज त्वमधः कुञ्जरो यथा ।। ३८०.६० ।।

ऋतुः७ प्राह निदाघन्तं कतमस्त्वामहं वदे ।
उक्तो निदाघस्तन्नत्वा प्राह मे त्वं गुरुर्घ्रुवम् ।। ३८०.६१ ।।

नात्यस्माद्‌द्वैतसंस्कारसंस्कृतं मानसं तथा ।
ऋतुः प्राह निदाघन्तं ब्रह्मज्ञानाय चागतः ।
परमार्थं सारभूतमद्वैतं दर्शितं मया ।। ३८०.६२ ।।

ब्राह्मण उवाच
निदाघोऽप्युपदेशेन तेनाद्वैतपरोऽभवत् ।
सर्वभूतान्यभेदेन ददृशे स तदात्मनि ।। ३८०.६३ ।।

अवाप मुक्ति ज्ञानात्स तथा त्वं मुक्तिमाप्स्यसि ।
एकः समस्तं त्वञ्चाहं विष्णुः सर्वगतो यतः ।। ३८०.६४ ।।

पीतनीलादिभेदेन यथैकं दृश्यते तमः ।
भ्रान्तिदृष्टिभिरात्मापि तथैकः स पृथक् पृथक् ।। ३८०.६५ ।।

अग्निरुवाच
मुक्तिं ह्यवाप भवतो ज्ञानसारेण भूपतिः८ ।
संसाराज्ञानवृक्षारिज्ञानं ब्रह्मेति चिन्तय ।। ३८०.६६ ।।

इत्यादिमहापुराणे आग्नेये अद्वैतब्रह्मविज्ञानं नामाशीत्यधिकत्रिशततमोऽध्यायः ॥