अग्निपुराणम्/अध्यायः १०२

विकिस्रोतः तः
Jump to navigation Jump to search

ध्वजारोपणं

ईश्वर उवाच
चूलके ध्वजदण्डे च(४) ध्वजे देवकुले तथा ।१०२.००१
प्रतिष्ठा च यथोद्दिष्टा(५) तथा स्कन्द वदामि ते(६) ॥१०२.००१
तडागार्धप्रवेशाद्वा यद्वा सवार्धवेशनात् ।१०२.००२
ऐष्टके दारुजः(७) शूलः शैलजे धाम्नि शैलजः(८) ॥१०२.००२
वैष्णवादौ च चक्राढ्यः कुम्भः स्यान्मूर्तिमानतः ।१०२.००३
स च त्रिशूलयुक्तस्तु अग्रचूलाभिधो मतः(९) ॥१०२.००३
टिप्पणी
४ चूडके ध्वजदण्डे वा इति ज..
५ यथादिष्टा इति झ..
६ तथा ह्यहं वदामि ते इति ङ..
७ ऐष्टे दारुभव इति घ.. , ज.. च
८ तडागार्धेत्यादिः, शैलज इत्यन्तः पाठो झ.. पुस्तके नास्ति
९ अग्रं चूडाभिधो मत इति घ.. । अस्रचूलादिदोषत इति छ.. । गृहचूडाभिधो मत इति ङ.. । अग्रं चूडादिदोषत इति ख..

ईशशूलः(१) समाख्यातो मूर्ध्नि लिङ्गसमन्वितः ।१०२.००४
वीजपूरकयुक्तो वा शिवशास्त्रेषु तद्विधः ॥१०२.००४
चित्रो ध्वजश्च जङ्घातो यथा जङ्गार्धतो भवेत्(२) ।१०२.००५
भवेद्वा दण्डमानस्तु यदि वा तद्यदृच्छया(३) ॥१०२.००५
महाध्वजः समाख्यातो यस्तु पीठस्य वेष्टकः(४) ।१०२.००६
शक्रैर्ग्रहै रसैवापि हस्तैर्दण्डस्तु सम्भितः ॥१०२.००६
उत्तमादिक्रमेणैव विज्ञेयः शूरिभिस्ततः ।१०२.००७
वंशजः शालजातिर्वा स दण्डः सर्वकामदः ॥१०२.००७
अयमारोप्यमाणस्तु भङ्गमायाति वै यदि ।१०२.००८
राज्ञोनिष्टं(५) विजानीयाद्यजमानस्य वा तथा(६) ॥१०२.००८
मन्त्रेण बहुरूपेण पूर्ववच्छान्तिमाचरेत् ।१०२.००९
द्वारपालादिपूजाञ्च मन्त्राणान्तर्प्यणन्तथा ॥१०२.००९
विधाय चूलकं(७) दण्डं स्नापयेदस्त्रमन्त्रतः ।१०२.०१०
अनेनैव तु मन्त्रेण ध्वजं सम्प्रोक्ष्य देशिकः ॥१०२.०१०
मृदु कषायादिभिः(८) स्नानं प्रासादङ्कारयेत्ततः ।१०२.०११
विलिप्य रसमाच्छाद्य(९) शय्यायां न्यस्य पूर्ववत् ॥१०२.०११
चूडके(१०) लिङ्गवणन्यासो न च ज्ञानं न च क्रिया ।१०२.०१२
टिप्पणी
१ ईशश्चूड इति इति ग.. । ईशश्चूल इति ङ.. । ईषश्चूल इति छ.. । शशः शूल इति ज..
२ जङ्घातो यद्वा जङ्घार्धतो भवेदिति ख.. । सङ्घातो यथा जङ्घार्धतो यजेदिति घ..
३ यदि वा तद्विदिच्छया इति ख..
४ यस्तु स्यात्पीठवेष्टक इति ङ..
५ राज्ञोरिष्टमिति ज..
६ वै तथा इति ज..
७ चूडकमिति ज..
८ भृत्काषायादिभिरिति ख.. , छ.. च
९ विलिप्य रसमादायेति ज..
१० चूलके इति घ.. , ङ.. च

विशेषार्था(१) चतुर्थी च न कुण्डस्य(२) कल्पना ॥१०२.०१२
दण्डे तयार्थतत्त्वञ्च(३) विद्यातत्त्वं द्वितीयकं ।१०२.०१३
सद्योजातानि वक्राणि(४) शिवतत्त्वं पुनर्ध्वजे ॥१०२.०१३
निष्कलञ्च शिवन्तत्र न्यस्याङ्गानि प्रपूजयेत् ।१०२.०१४
चूडके च(४) ततो मन्त्रो सान्निध्ये सहिताणुभिः(६) ॥१०२.०१४
होमयेत्प्रतिभागञ्च ध्वजे तैस्तु फडन्तिकैः(७) ।१०२.०१५
अन्यथापि कृतं यच्च ध्वजसंस्कारणं(८) क्वचित् ॥१०२.०१५
अस्त्रयागविधावेवं(९) तत्सर्वमुपदर्शितं ।१०२.०१६
प्रासादे कारिते स्थाने(१०) स्रग्वस्त्रादिविभूषिते ॥१०२.०१६
जङ्घा वेदी तदूर्ध्वे तु त्रितत्त्वादि निवेश्य च ।१०२.०१७
होमादिकं विधायाथ शिवं सम्पूज्य पूर्ववत् ॥१०२.०१७
सर्वतत्त्वमयं ध्यात्वा शिवञ्च व्यापकं न्यसेत् ।१०२.०१८
अनन्तं कालरुद्रञ्च विभाव्य च पदाम्बुजे ॥१०२.०१८
कुष्माण्डहाटकौ पीठे पातालनरकैः(११) सह ।१०२.०१९
भुवनैर्लोकपालैश्च शतरुद्रादिभिर्वृतं ॥१०२.०१९
ब्रह्माण्दकमिदं ध्यात्वा जङ्घाताञ्च विभावयेत् ।१०२.०२०
वारितेजोनिलव्योमपञ्चाष्टकसमन्वितं(१२) ॥१०२.०२०
टिप्पणी
१ विशेषाद्या इति घ..
२ नवदण्डस्येति झ..
३ तथात्मतत्त्वञ्चेति ग.. , घ.. च
४ सद्योजातादि वक्राणीति झ..
५ चूलके च इति ख.. , ज.. च
६ संहितात्मभिरिति ख.. , ग.. च
७ चूलके इति श्लोको झ.पुस्तके नास्ति
८ तच्च ध्वजे संहरणमिति ख.. , छ.. , च । यच्च ध्वजसंस्करणमिति घ..
९ अस्त्रयागे विधाने चेति ज..
१० प्रासादकारितस्थाने इति ख.. , झ.. च । प्रासादे कारितस्थाने इति ज..
११ पातालनवकैरिति ङ.. , ज.. च
१२ पञ्चाग्गकसमन्वितमिति ग..

सर्वावरणसञ्ज्ञञ्च वृद्धयोन्यवृकान्वितं(१) ।१०२.०२१
योगाष्टकसमायुक्तं(२) नाशाविधि गुणत्रयं ॥१०२.०२१
पटस्थं पुरुषं सिंहं वामञ्च(३) परिभावयेत् ।१०२.०२२
मञ्जरीवेदिकायाञ्च विद्यादिकचतुष्टयं ॥१०२.०२२
कण्ठे मायां सरुद्राञ्च(४) विद्याश्चामलसारके(५) ।१०२.०२३
कलसे चेश्वरं विन्दुं विद्येश्वरसमन्वितं(६) ॥१०२.०२३
जटाजूटञ्च तं विद्याच्छूलं चन्द्रार्धरूपकं ।१०२.०२४
शक्तित्रयं च तत्रैव दण्डे नादं विभाव्य च ॥१०२.०२४
ध्वजे च कुण्डलीं शक्तिमिति धाम्नि विभावयेत् ।१०२.०२५
जगत्या वाथ सन्धाय लिङ्गं पिण्डिकयाथवा(७) ॥१०२.०२५
समुत्थाप्य सुमन्त्रैश्च(८) विन्यस्ते शक्तिपङ्कजे ।१०२.०२६
न्यस्तरत्नादिके तत्र स्वाधारे विनिवेशयेत् ॥१०२.०२६
यजमानो ध्वजे लग्ने बन्धुमित्रादिभिः सह ।१०२.०२७
धाम प्रदक्षिणीकृत्य लभते फलमीहितं(९) ॥१०२.०२७
गुरुः पाशुपतं ध्यायन्(१०) स्थिरमन्त्राधिपैर्युतं(११) ।१०२.०२८
अधिपान् शस्त्रयुक्तांश्च रक्षणाय निबोधयेत्(१२) ॥१०२.०२८
टिप्पणी
१ वुद्धयोन्यन्तकान्वितमिति ग..
२ यागष्टकसमायुक्तमिति झ..
३ रागश्चेति ख.. , ज.. च
४ कण्ठे मायाङ्गवक्त्रञ्चेति झ..
५ विद्याश्चामनसारके इति ख.. , ग.. च । विद्याद्या मनसारके इति ज..
६ विश्वेश्वरसमन्वितमिति ख.. , घ.. , छ.. च । विद्योत्तरसमन्वितमिति ग.. । सर्वावरणसञ्ज्ञञ्चेत्यादिः, विश्वेश्वरसमन्वितमित्यन्तः पाठो ङ.पुस्तके नास्ति
७ लिङ्गपिण्डिकयाथवेति घ.. , ङ.. , ज.. च
८ स्वमन्त्रैश्चेति ग.. , ङ.. , च
९ लभते फलमीप्सितमिति ङ..
१० पाशुपतं ध्यायेदिति ख.. , घ.. च
११ शिवमन्त्राधिपैर्युतमिति घ.. , ङ.. च
१२ रक्षणाय निवेदयेदिति ख.. , छ.. च

न्यूनादिदोषशान्त्यर्थं हुत्वा(१) दत्वा च दिग्बलिं ।१०२.०२९
गुरवे दक्षिणां दद्याद्यजमानो दिवं व्रजेत् ॥१०२.०२९
प्रतिमालिङ्गवेदीनां यावन्तः परमाणवः ।१०२.०३०
तावद्युगसहस्राणि कर्तुर्भोगभुजः(२) फलं ॥१०२.०३०
टिप्पणी
१ न्यूनादिदोषनाशार्थं कृत्वेति झ.. । न्यूनादिदोषनाशाय हुत्वेति घ.. , ज.. च
२ कर्तर्भोगवत इति ख.. , छ.. च


इत्याग्नेये महापुराणे ध्वजारोहणादिविधिर्नाम द्व्यधिकशततमोऽध्यायः