अग्निपुराणम्/अध्यायः २९४

विकिस्रोतः तः
Jump to navigation Jump to search
अग्निपुराणम्
















नागलक्षणानि[सम्पाद्यताम्]

अग्निरुवाच
नागादयोऽथ भावादिदशस्थानानि कर्म्म च ।
सूतकं दष्टचेष्टेति सप्तलक्षणमुच्यते ।। २९४.१ ।।

शेषवासुकितक्षाख्याः कर्कटोऽब्जो महाम्बुजः ।
शङ्खपालश्च कुलिक इत्याष्टौ नागवर्य्यकाः ।। २९४.२ ।।

दशाष्टपञ्चत्रिगुणशतमूर्द्धान्वितौ क्रमात् ।
विप्रौ नृपो विशौ शूद्रौ द्वौ द्वौ नागेषु कीर्त्तितौ ।। २९४.३ ।।

तदन्वयाः पञ्चशतं तेभ्यो जाता असंख्यकाः ।
फणिमण्डलिराजीलवातपित्तकफात्मकाः ।। २९४.४ ।।

व्यन्तरा दोषमिश्रास्ते सर्पा दर्व्वीकराः समृताः ।
रथाङ्गलाङ्गलच्छत्रस्वस्तिकाङ्कुशधारिणः ।। २९४.५ ।।

गोनसा मन्दगा दीर्घा मण्डलैर्विविधैस्चिताः ।
राजिलाश्चित्रिताः स्निग्धास्तिर्य्यगूद्‌र्ध्वञ्च वाजिभिः ।। २९४.६ ।।

व्यन्तरा मिश्रचिह्नाश्च भूवर्षाग्नेयवायवः ।
चतुर्विधास्ते षड्‌विंशभेदाः षोड़श गोनसाः ।। २९४.७ ।।

त्रयोदश च राजीला व्यन्तरा एकविशतिः ।
येऽनुक्तकाले जायन्ते सर्पास्ते व्यन्तराः स्मृताः ।। २९४.८ ।।

आषाढादित्रिमासैः स्याद् गर्भो माषटतुष्टये ।
अण्डकानां शते द्वे च तत्वारिंशत् प्रसूयते ।। २९४.९ ।।

सर्पा ग्रसन्ति सूतौघान् विना स्त्रीपुन्नपुंसकान् ।
उन्मीलतेऽक्षि सप्ताहात् कृष्णो मासाद्भवेद्वहिः ।। २९४.१० ।।

द्वादशाहात् सुबोधः स्यात् दन्ताः स्युः सूर्य्यदर्शनात् ।
द्वात्रिंशद्दिनविंशत्या चतुस्रस्तेषु दंष्ट्रिकाः ।। २९४.११ ।।

कराली मकरी कालरात्री च यमदूतिका ।
एतास्तीः सविषा दंष्ट्रा वामदक्षिणपार्श्वगाः ।। २९४.१२ ।।

षण्मासान्मुच्यते कृत्तिं जीवेत्षष्टिसमाद्वयं ।
नागाः सूर्य्यादिवारेशाः सप्त उक्ता दिवा निशि ।। २९४.१३ ।।

स्वेषां षट् प्रतिवारेषु कुलिकः सर्व्वसन्धिषु ।
शङ्खेन वा महाव्जेन सह तस्योदयोऽथवा ।। २९४. १४ ।।

द्वयोर्व्वा नाड़िकामन्त्रमन्त्रकं कुलिकोदयः ।
दुष्टः स कालः सर्व्वत्र सर्पदंशे विशेषतः ।। २९४.१५ ।।

कृत्तिका भरणी स्वाती मूलं पूर्व्वत्रयाश्विनी ।
विशाखार्द्रा मघाश्लेषा श्रवणरोहिणो ।। २९४.१६ ।।

हस्ता मन्दकुजौ वारौ पञ्चमी चाष्टमी तिथिः ।
षष्ठी रिक्ता शिवा निन्द्या पञ्चमी च चतुर्द्दशी ।। २९४.१७ ।।

सन्ध्याचतुष्टयं दुष्टं दग्धयोगाश्च राशयः ।
एकद्विबहवो दंशा दष्टविद्धञ्च खण्डितम् ।। २९४.१८ ।।

अदंशमवगुप्तं स्याद्दंशमेवं चतुर्विधम् ।
त्रयो द्‌व्येकक्षता दंशा वेदना रुधिरोल्वणा ।। २९४.१९ ।।

नक्तन्त्वेकाङ्‌घ्रिकूर्म्माबा दंशाश्च यमचोदिताः ।
दीहीपिपीलिकास्पर्शी कण्ठशोथरुजान्वितः ।। २९४.२० ।।

सतोदो ग्रन्थितो दंशः सविषो न्यस्तनिर्व्विषः ।
देवालये शून्यगृहे वल्मीकोद्यानकोटरे ।। २९४.२१ ।।

रथ्यासन्धौ श्मशाने च नद्याञ्च सिन्धुसङ्गमे ।
द्वीपे चतुष्पथे सौधे गृहेऽब्जे पर्व्वताग्रतः ।। २९४.२२ ।।

विलद्वारे जीर्णकूपे जीर्णवेश्मनि कुड्यके ।
शिग्रुश्लेष्मातकाक्षेषु जम्बू डुम्बरणेषु च ।। २९४.२३ ।।

वटे च जीर्णप्राकारे खास्यहृत्‌कक्षजत्रुणि ।
तालौ शङ्खे गले मूद्‌र्ध्नि चिवुके नाभिपादयोः ।। २९४.२४ ।।

दंशोऽशुभः शुभो दूनः पुष्पहस्तः सुवाक् सुधीः ।
लिङ्गवर्णंसमानश्च शुक्लवस्त्रोऽमलः शुचिः ।। २९४.२५ ।।

अपद्वारगतः शस्त्री प्रमादी भूगतेक्ष्णः ।
विवर्णवासाः पाशादिहस्तो गदगदवर्णभाक् ।। २९४.२६ ।।

शुष्ककाष्ठाश्रितः खिन्नस्तिलाक्तककरांशुकः ।
आर्द्रवासाः कृष्णारक्तपुष्पयुक्तशिरोरुहः ।। २९४.२७ ।।

कुचमर्दीं नखच्छेदी गुदस्पृक् पादलेखकः ।
केशमुञ्ची तृणच्छेदी दुष्टा दूतास्तथैकशः ।। २९४.२८ ।।

इड़ान्या वा वहेद्‌द्वेधा यदि दूतस्य चात्मनः ।
आभ्यां द्वाभ्यां पुष्टयास्मान् विद्यास्त्रीपुन्नपुंसकान् ।। २९४.२९ ।।

दूतः स्पृशति यद्‌गात्रं तस्मिन् दंशमुदाहरेत् ।
दूताङ्‌घ्रिचलनं दुष्टमुत्थितिर्निश्चला शुभा ।। २९४.३० ।।

जीवपार्श्वे शुभो दूतो दुष्टोऽन्यत्र समागतः ।
जीवो गतागतैर्दुष्टः शुभो दूतनिवेदने ।। २९४.३१ ।।

द्तस्य वाक् प्रदुष्टा सा पूर्व्वामजार्द्धनिन्दिता ।
विभक्तैस्तस्य वाक्यान्तैर्विषैर्निर्व्विषकालता ।। २९४.३२ ।।

आद्यैः स्वरैश्च काद्यैश्च वर्गैर्भिन्नलिपिर्द्विधा ।
स्वरजो वसुमान्वर्गी इतिक्षेपा च मातृका ।। २९४.३३ ।।

वाताग्नीन्द्रजलात्मानो वर्गेषु च चतुष्टयम् ।
नपुंसकाः पञ्चमाः स्युः स्वराः शक्राम्बुयोनयः ।। २९४.३४ ।।

दुष्टौ दूतस्य वाक्‌पादौ वातग्नी मध्यमो हरिः ।
प्रशस्ता वारुणा वर्णा अतिदुष्टा नपुंसकाः ।। २९४.३५ ।।

प्रस्थाने मङ्गलं वाक्यं गर्ज्जितं मेघहस्तिनोः ।
प्रदक्षिणं फले वृक्षे वामस्य च रुतं जितं ।। २९४.३६ ।।

शुभा गीतादिशब्दाः स्युरीदृशं स्यादसिद्धये ।
अनर्थगीरथाक्रन्दो दक्षिणे विरुतं क्षुतम् ।। २९४.३७ ।।

वेश्या क्षुतो नृपः कन्या गौर्द्दन्ती मुरजध्वजौ ।
क्षीराज्यदधिङ्खाम्बु छत्रं भेरी फलं सुराः ।। २९४.३८ ।।

तण्डुला हेम रूप्यञ्च सिद्धयेऽभिमुखा अमी ।
सकाष्ठः सानलः कारुर्म्मलिनाम्बरभावभृत् ।। २९४.३९ ।।

गलस्थटङ्को गोमायुगृध्रोलूककपर्द्दिकाः ।
तैलं कपालकार्पासा निषेधे भस्म नष्टये ।। २९४.४० ।।

विषरोगाश्च सप्त स्युर्धातोर्धात्वन्तराप्तितः ।
विषदंशो ललाटं यात्यतो नेत्रं ततो मुखम् ।

आस्याच्च वचनीनाड्यौ धातून् प्राप्नोति हि क्रमात् ।। २९४.४१ ।।

इत्यादिमहापुराणे आग्नेये नागलक्षणादिर्नाम चतुर्नवत्यधिकद्विशततमोऽध्यायः ।।