अग्निपुराणम्/अध्यायः १२७

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← अध्यायः १२६ अग्निपुराणम्
अध्यायः १२७
वेदव्यासः
अध्यायः १२८ →

नानाबलानि

ईश्वर उवाच(२)
विष्कुम्भे घटिकास्तिस्रः शूले पञ्च विवर्जयेत्(३) ।१२७.००१
षट्षट्(४) गण्डेऽनिगण्डे च नव व्याद्यातवज्रयोः ॥१२७.००१
परिघे च व्यतीपाते उभयोरपि तद्दिनम् ।१२७.००२
वैधृते तद्दिनञ्चैव यात्रायुद्धादिकन्त्यजेत् ॥१२७.००२
ग्रहैः शुभाशुभं वक्ष्ये देवि मेषादिराशितः(५) ।१२७.००३
चन्द्रशुक्रौ च जन्मस्थ्यौ वर्जितौ शुभदायकौ ॥१२७.००३
टिप्पणी
२ अग्निरुवाचेति छ..
३ पञ्च च वर्जयेदिति ख.. , ग.. , घ.. , ङ.. च
४ षट्च गण्डेऽतिगण्डे चेति ख.. , घ.. , छ.. च । सप्त गण्डेतिगण्डे चेति ग.. , ङ.. च
५ मेषादिराशिभिरिति ज..

द्वितीयो मङ्गलोऽथार्कः सौरिश्चैव तु सैंहिकः ।१२७.००४
द्रव्यनाशमलाभञ्च आहवे भङ्गमादिशेत् ॥१२७.००४
सोमो बुधो भृगुर्जीमो द्वितीयस्थाः शुभावहाः ।१२७.००५
तृतीयस्थो यदा भानुः शनिर्भौमो भृगुस्तथा ॥१२७.००५
बुधश्चैवेन्दू राहुश्च सर्वे ते फलदा ग्रहाः ।१२७.००६
बुधशुक्रौ चतुर्थौ तु शेषाश्चैव भयावहाः ॥१२७.००६
पञ्चमस्थो यदा जीवः शुक्रः सौम्यश्च चन्द्रमाः ।१२७.००७
ददेत(१) चेप्सितं लाभं षष्ठे स्थाने शुभो रविः ॥१२७.००७
चन्द्रः सौरिर्मङ्गलश्च ग्रहा देवि स्वराशितः ।१२७.००८
बुधश्च शुभदः षष्ठे त्यजेत्षष्ठं गुरुं भृगुं ॥१२७.००८
सप्तमोऽर्कः शनिर्भौमो राहुर्हान्यै सुखाय च ।१२७.००९
जीवो भृगुश्च सौम्यश्च ज्ञशुक्रो चाष्टमौ शुभौ ॥१२७.००९
शेषा ग्रहास्तथा हान्यै ज्ञभृगू नवमौ शुभौ ।१२७.०१०
शेषा हान्यै च लाभाय दशमौ भृगुभास्करौ ॥१२७.०१०
शनिर्भौमश्च राहुश्च चन्द्रः सौम्यः शुभावहः ।१२७.०११
शुभाश्चैकादशे सर्वे वर्जयेद्दशमे(२) गुरुम् ॥१२७.०११
बुधशुक्रौ द्वादशस्थौ शेषान् द्वादशगांस्त्यजेत् ।१२७.०१२
अहोरात्रे द्वादश स्यू राशयस्तान् वदाम्यहम् ॥१२७.०१२
मीनो मेषोऽथ मिथुनञ्चतस्रो नाडयो वृषः ।१२७.०१३
षट्कर्कसिंहकन्याश्च तुला पञ्च च वृश्चिकः ॥१२७.०१३
धनुर्नक्रो घटश्चैव सूर्यगो राशिराद्यकः ।१२७.०१४
टिप्पणी
१ ददातीति ख..
२ वर्जयेद्दशमिति ख.. , ग.. , घ.. , ङ.. च

चरस्थिरद्विःस्वभावा मेषाद्याः स्युर्यथाक्रमम् ॥१२७.०१४
कुलीरो मकरश्चैव तुलामेषादयश्चराः ।१२७.०१५
चरकार्यं जयं काममाचरेच्च शुभशुभम् ॥१२७.०१५
स्थिरो वृषो हरिः कुम्भो वृश्चिकः स्थिरकार्यके ।१२७.०१६
शीघ्रः समागमो नास्ति रोगार्तो नैव मुच्यते ॥१२७.०१६
मिथुनं कन्यका मौनी धनुश्च द्विःस्वभावकः ।१२७.०१७
द्विःस्वभावाः शुभाश्चैते सर्वकार्येषु नित्यशः ॥१२७.०१७
यात्रावाणिज्यसङ्ग्रामे विवाहे राजदर्शने ।१२७.०१८
वृद्धिं जयन्तथा लाभं युद्धे जयमवाप्नुयात् ॥१२७.०१८
अश्विनी विंशताराश्च तुरगस्याकृतिर्यथा ।१२७.०१९
यद्यत्र कुरुते वृष्टिमेकरात्रं प्रवर्षति ॥१२७.०१९
यमभे तु यदा वृष्टिः पक्षमेकन्तु वर्षति ॥२०॥१२७.०२०

इत्याग्नेये महापुराणे युद्धजयार्णवे नानाबलानि नाम सप्तविंशत्यधिकशततमोऽध्यायः ॥