अग्निपुराणम्/अध्यायः २८५

विकिस्रोतः तः
Jump to navigation Jump to search
अग्निपुराणम्
















मृतसञ्जीवनीकरसिद्धयोगः[सम्पाद्यताम्]

धन्वन्तरिरुवाच
सिद्धयोगान् पुनर्वक्ष्ये मृतसञ्जीवनीकरान् ।
आत्रेयभाषितान् दिव्यान् सर्वव्याधिविमर्दनान् ।। २८५.१ ।।

आत्रेय उवाच
विल्वादिपञ्चमूलस्य क्काथः स्याद्वातिके ज्वरे ।
पावनं पिप्पलीमूलं गुडूची विष्वजोऽथ वा ।। २८५.२ ।।

आमलक्यभ्या कृष्णा वह्निः सर्वज्वरान्तकः ।
विल्वाग्निमन्थश्योनाककाश्मर्य्यः पारला स्थिरा ।। २८५.३ ।।

त्रिकण्टकं पृश्निपर्णी वृहती कण्टकारिकाः ।
ज्वराविपाकपार्श्वार्त्तिकाशनुत् कुशमृलकम् ।। २८५.४ ।।

गुडूची पर्पटी मुस्तं किरातं विश्वभेषजम् ।
वातपित्तज्वरे देयं पञ्चभद्रमिदं स्मृतम् ।। २८५.५ ।।

त्रिवृद्विशालकटुकात्रिफलारग्बधैः कृतः ।
संस्कारो भेदनक्काथः पेथः सर्वज्वरापहः ।। २८५.६ ।।

देवदारुबलावासात्रिफलाव्योषपद्मकैः ।
सविडङ्गैः सितातुल्यं तच्चूर्णं पञ्चकाशजित् ।। २८५.७ ।।

दशमूलीशटीरास्नापिप्पलीविल्वपौष्करैः ।
श्रृङ्गीतामलकीभार्गीगुडूचीनागवल्लिभिः ।। २८५.८ ।।

यवाग्रं विधिना सिद्धं कषायं वा पिवेन्नरः ।
काशहृद्‌ग्रहणीपार्श्वहिक्काश्वासप्रशान्तये ।। २८५.९ ।।

मधुकं मधुना युक्तं पिप्पलीं शर्करान्वितां ।
नागरं गुड़संयुक्तं हिक्काघ्नं लावणत्रयम् ।। २८५.१० ।।

कारव्यजाजीमरिचं द्राक्षा वृक्षाम्लदाड़िमम् ।
सौवर्च्चलं गुड़ं क्षौद्रं सर्वारोचननाशनम् ।। २८५.११ ।।

श्रृह्गवेररसञ्चैव मधुना सह पाययेत् ।
अरुचिश्वासकाशघ्नं प्रतिश्यायकफान्तकम् ।। २८५.१२ ।।

वटं श्रृङ्गी शिलालोध्रदाड़िमं मधुकं मधु ।
पिवेत् तण्डुलतोयेन च्छर्दितृष्णानिवारणम् ।। २८५.१३ ।।

गुडुची वासकं लोध्रं पिप्पलीक्षौद्रसंयुतम् ।
कफान्वितञ्जयेद्रक्तं तृष्णआकासज्वरापहम् ।। २८५.१४ ।।

वासकस्य रसस्तद्वत् समधुस्ताम्रजो रसः .
शिरीषपुष्पसुरसभावितं मरिचं हितं ।। २८५.१५ ।।

सर्व्वार्त्तिनुन्मसूरोऽथ पित्तमुक् तण्डुलीयकं ।
निर्ग्गुण्डी शारिवा शेलुरह्कोलश्च विषापहः ।। २८५.१६ ।।

महौषधं मृतां क्षुद्रां पुष्करं ग्रन्थिकोद्भवं ।
पिवेत् कणायुतं क्काथं मूर्च्छायाञ्च मदेषु च ।। २८५.१७ ।।

हिङ्गुसौवर्च्चलव्योषैर्द्विपलांशैर्घृताढकं ।
चतुर्गुणे गवां मूत्रे सिद्धमुन्मादनाशनं ।। २८५.१८ ।।

शङ्खपुष्पीवचाकुष्ठैः सिद्धं ब्राह्मीरसैर्युतं ।
पुराणआं हन्त्यपस्मारं सोन्मादं मेध्यमुत्तमं ।। २८५.१९ ।।

पञ्चगव्यं घृतं तद्वत् कुष्ठनुच्चाभ्यायुतं ।
पटोलत्रिफलानिम्बगुडु वीधावणीवृषैः ।। २८५.२० ।।

सकरञ्जैर्घृतं सिद्धं कुष्ठनुद्वज्र्कं स्मृतं ।
निम्बं पटोलं व्याघ्री च गुडुची वासकं तथा ।। २८५.२१ ।।

कुर्य्याद्दशपलान् भागान् एकैकस्य सकुट्टितान् ।
जलद्रोणए विपक्तव्यं यावत्‌पादावशेषितं ।। २८५.२२ ।।

घृतप्रस्थम्प्चेत्तेन त्रिफलागर्भसंयुतं ।
पञ्चतिक्तमिति ख्यातं सर्पिः कुष्ठविनाशनं ।। २८५.२३ ।।

अशीतिं वातजान् रोगान् चत्वारिंशच्च पैत्तिकान् ।
विंशतिं श्लैष्मिकान् कासपीनसार्शोव्रणादिकान् ।। २८५.२४ ।।

हन्त्यन्यान् योगराजोषऽयं यथार्कस्तिमिरं खलु ।
त्रिफलायाः कषायेन् भृङ्गराजरसेन च ।। २८५.२५ ।।
ब्रणप्रक्षालनङ्कुर्यादुपदंशप्रशान्तये ।
पटोलदलचूर्णेन दाडिमत्वग्रजोऽथ वा ।। २८५.२६ ।।

गुण्डयेच्च गजेनापि त्रिफलाचूर्णकेन च ।
त्रिफलायोरजोयष्टिमार्कवोत्पलमारिचै ।। २८५.२७ ।।

ससैन्धवैः पचेत्तैलमभ्यह्गाच्छर्द्दिकापहं ।
सक्षीरान् मार्कवरसान् द्विप्रस्थमधुकोत्पलैः ।। २८५.२८ ।।

पचेत्तु तैलकुडवं तन्नस्यं पलितापहं ।
निम्बम्पटोलं त्रिफला गुडूची खदिरं वृषं ।। २८५.२९ ।।

भूनिम्बपाठात्रिफलागुडूचीरक्तचन्दनं ।
योगद्वयं ज्वरं हन्ति कुष्ठविस्फोटकादिकं ।। २८५.३० ।।

पटोलामृतभूनिम्बवासारिष्टकपर्पटैः ।
खदिरान्तयुतैः क्काथो विस्फोटज्वरशान्तिकृत् ।। २८५.३१ ।।

दशमूली च्छिन्नरुहा पथ्या दारु पुनर्नवा ।
ज्वर्रावद्रधिशोथेषु शिग्रुविश्वजिता हिताः ।। २८५.३२ ।।

मधूकं निम्बपत्राणि लेपः स्याद् व्रणशोधनः ।
त्रिफला खदिरो दार्वी न्यग्रोधातिबलाकुशाः ।। २८५.३३ ।।

निम्बमूलकपत्राणां कषायाः शोधने हिताः ।
करञ्जारिष्टनिर्गुण्डीरसो हन्याद् व्रणक्रिमीन् ।। २८५.३४ ।।

धातकीचन्दनबलासमह्गामधुकोत्पलैः ।
दार्वीमेदोन्वितैर्लेपः ससर्पिर्व्रणरोपणः ।। २८५.३५ ।।

गुग्गुलुत्रिफलाव्योषसमांशैर्घृतयोगतः ।
नाडी दुष्टवणं शूलम्भगन्दरमुखं हरेत् ।। २८५.३६ ।।

हरितकीं मूत्रसिद्धां सतैललवणान्वितां ।
प्रातः प्रातश्च सेवेत् कफवातामयापहां ।। २८५.३७ ।।

त्रिककटुत्रिफलाक्काथं९ सक्षारलवणं पिवेत् ।
कफवातात्मकेष्वेव विंरेकः कफवृद्धिनुत् ।। २८५.३८ ।।

पिप्पलीपिप्पलीमूलवचाचित्रकनागरैः ।
क्काथितं वा पिवेत्पेयमामवातविनाशनं ।। २८५.३९ ।।

रास्नां गुडुचीमेरण्डदेवदारुमहौषधं ।
पिवेत् सर्वाड्गिके वाते सामे सन्ध्यस्थिमज्जगे ।। २८५.४० ।।

दशमूलकषायं वा पिवेद्वा नागराम्भसा ।
सुण्ठीगोक्षुरकक्काथः प्रातः प्रातर्न्निषेवितः ।। २८५.४१ ।।

सामवातकटीशूलपाचनो रुक्प्रणाशनः ।
समूलपत्रशाखायाः प्रसारण्याश्च तैलकं ।। २८५.४२ ।।

गुडुच्याः सुरसः कल्कः चूर्णं वा क्काथमेव च ।
प्रभूतकालमासेव्य मुच्यते वातशोणितात् । २८५.४३ ।।

पिप्पली वर्द्धमानं वा सेव्यं पथ्या गुडेन् वा ।
पटोलत्रिफलातीव्रकटुकामृतसाधितं ।। २८५.४४ ।।

पक्वं पीत्वा जयत्याशु सदाहं वातशोणितं ।
गुग्गुलं कोष्णशीते तु गुडुची त्रिफलाम्भ्सा ।। २८५.४५ ।।

बलापुनर्न्नवैरण्डवृहतीद्वयगोक्षुरैः ।
सहिङ्गु लवणैः पीतं सद्यो वातरुजापहं ।। २८५.४६ ।।

कार्षिकं पिप्पलीलमूलं पञ्चैव लवणानि च ।
पिप्पली चित्रकं शुण्ठी त्रिफ्ला त्रिवृता वचा ।। २८५.४७ ।।

द्वौ क्षारौ शाद्वला दन्ती स्वर्णक्षीरी विषाणिका ।
कोलप्रमाणां गुटिकां पिवेत् सौवीरकायुतां ।। २८५.४८ ।।

शोथावपाके त्रिवृता प्रवृद्धे चोदरादिके ।
क्षीरं शोथहरं दारु वर्षाभूर्नागरैः शुभम् ।। २८५.४९ ।।

सेकस्तथार्कवर्षाभूनिम्बक्काथेन शोथजित् ।
व्योषगर्भं पलाशस्य त्रिगुणे भस्मवारिणि ।। २८५.५० ।।

साधितं पिवतः सर्पिः पतत्यर्शो न संशयः ।
विश्वक्सेनावनिर्ग्गुण्डीसाधितं चापि लावणं ।। २८५.५१ ।।

विड़ङ्गानलसिन्धूत्थरास्नाग्रक्षारदारुभिः ।
तैलञ्चतुर्गुणं सिद्धं कटुद्रव्यं जलेन वा ।। २८५.५२ ।।

गणअडमालापहं तैलमभ्यङ्गात् गलगण्डनुत् ।
शटीकुनागबलयक्काथः क्षीरससे युतम् ।। २८५.५३ ।।

पयस्यापिप्पलीवासाकल्कं सिद्धंक्षये हितम् ।
वचाविड़भयाशुण्ठीहिङ्गुकुष्ठाग्निदीप्यकान् ।। २८५.५४ ।।

द्वित्रिषट्‌चतुरेकांशसप्तपञ्चाशिकाः क्रमात् ।
चूर्णं पीतं हन्ति गुल्मं उदरं शूलकासनुत् ।। २८५.५५ ।।

पाठानिकुम्भत्रिकटुत्रिफलाग्निषु साधितम् ।
मूत्रेण चूर्णगुटिका गुल्मप्लीहादिमर्द्दनी ।। २८५.५६ ।।

वासानिम्बपटोलानि त्रिफला वातपित्तनुत् ।
लिह्यात् क्षौद्रेण विड़ङ्गं चूर्णं कृमिविनाशनम् ।। २८५.५७ ।।

विड़ङ्गसैन्धवक्षारमृत्रेनापि हरीतकी ।
शल्लकीवदरीजम्बुपियालाम्रार्जुनत्वचः ।। २८५.५८ ।।

पीताः क्षीरेण मध्वक्ताः पृथक्शोणितवारणाः ।
विल्वाम्रधातकीपाठाशुण्ठीमोचरसाः समाः ।। २८५.५९ ।।

पीता रुन्धन्त्यतीसारं गुड़तक्रेण दुर्जयम् ।
चाङ्गेरीकोलदध्यम्बुनागरक्षारसंयुतम् ।। २८५.६० ।।

घृततयुक्क्काथितं पेयं गुदभ्रंसे रुजापहम् ।
विड़ङ्गातिविषामुस्तं दारुपाठाकलिङ्गकम् ।। २८५.६१ ।।

मरीचेन समायुक्तं शोथातीसारनाशनम् ।
शर्करासिन्धुशुण्ठीभिः कृष्णामधुगुड़ेन वा ।। २८५.६२ ।।

द्वे द्वे खादेद्धरीतक्यौ जीवेद्वर्षशतं सुखी ।
त्रिफला पिप्पलीयुक्ता समध्वाज्या तथैव सा ।। २८५.६३ ।।

चूर्णमामलकं तेन सुरसेन तु भावितम् ।
मध्वाज्यशर्करायुक्तं लिढ्‌वा स्त्रीशः पयः पिवेत् ।। २८५.६४ ।।

मासपिप्पलिशालीनां यवगोधूमयोस्तथा ।
चूर्णभागैः समांशैश्च पचेत् पिप्पलिकां शुभां ।। २८५.६५ ।।

तां भक्षयित्वा च पिवेत् शर्करामधुरं पयः ।
नवश्चटकवज्जम्भेद्‌ दशवारान् स्त्रियं ध्रुवम् ।। २८५.६६ ।।

समङ्गाधातकीपुष्पलोध्रनीलोत्पलानि च ।
एतत् क्षीरेण दातव्यं स्त्रीणां प्रदरनाशनं ।। २८५.६७ ।।

वीजङ्कौरण्टकञ्चापि मधुकं श्वेतचन्दनं ।
पद्मोत्पलस्य मूलानि मधुकं शर्करातिलान् ।। २८५.६८ ।।

द्रवमाणेषु गर्भेषु गर्भस्थापनमुत्तमं ।
देवदारु नभः कुष्ठं नलदं विश्वभेषजं ।। २८५.६९ ।।

लेपः काञ्जिकसम्पिष्टस्तैलयुक्तः शिरोर्त्तिनुत् ।
वस्त्रपूतं क्षिपेत् कोष्णं सिन्धूत्थं कर्णशूलनुत् ।। २८५.७० ।।

लशुनार्द्रकशिग्रूणां कदल्या वा रसः पृथक् ।
बलाशतावरीरास्नामृताः मैरीयकैः पिवेत् ।। २८५.७१ ।।

त्रिफलासहितं सर्पिस्तिमिरघ्नमनुत्तमं ।
त्रिफलाव्योषसिन्धूत्थैर्घृतं सिद्धं पिवेन्नरः ।। २८५.७२ ।।

चाक्षुष्यम्भेदनं हृद्यं दीपनं कफरोगनुत् ।
नीलोत्पलस्य किञ्जल्कं गोशकृद्रससंयुतं ।। २८५.७३ ।।

गुटिकाञ्जनमेतत् स्यात् दिनरात्र्यन्धयोर्हितं ।
यष्टिमधुवचाकृष्णावीजानं गुटजस्य च ।। २८५.७४ ।।
कल्केनालोड्य निम्बस्य कषायो वमनायसः ।
स्निग्धस्विन्नयवन्तोयं प्रदातव्यं विरेचनम् ।। २८५.७५ ।।

अन्य्था योजितं कुर्य्यात् मन्दाग्निं गौरवारुचिं।
पथ्यासैन्धवकृष्णानां चूर्णमुष्णाम्बुना पिवेत् ।। २८५.७६ ।।

विरेकः सर्व्वरोगघनः श्रेष्ठो नाराचसंज्ञकः ।
सिद्धयोगा मुनिभ्यो ये आत्रेयेण प्रदर्शिताः ।। २८५.७७ ।।

सर्वरोगहराः सर्वयोगाग्र्याः सुश्रुतेन हि ।। २८५.७८ ।।
इत्यादिम्हापुराणे आग्नेये मृतसञ्जीवनीकरसिद्धयोगो नाम पञ्चाशीत्यधिकद्विशततमोऽध्यायः ।।