अग्निपुराणम्/अध्यायः २५२

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← अध्यायः २५१ अग्निपुराणम्
अध्यायः २५२
वेदव्यासः
अध्यायः २५३ →
अग्निपुराणम्
















धनुर्वेदकथनम्[सम्पाद्यताम्]

अग्निरुवाच
भ्रान्तमुद् भ्रान्तमाविद्धमाप्लुतं विप्लुतं सृतं ।
सम्पातं समुदीशञ्च श्येनपातमथाकुलं ।। २५२.१ ।।

उद्‌धूतमवधूतञ्च सव्यं दक्षिणमेव च ।
अनालक्षितविस्फोटौ करालेन्द्रमहासखौ ।। २५२.२ ।।

विकरालनिपातौ च विभीषणभयानकौ ।
समग्रार्द्धतीयांशपादपादार्द्धवारिजाः ।। २५२.३ ।।

प्रात्यालीढमथालीढं वराहं लुलितन्तथा ।
इति द्वात्रिंशतो ज्ञेयाः खड्गचर्मविधौ रणे ।। २५२.४ ।।

परवृत्तमपावृत्तं गृहीतं लघुसञ्ज्ञितं ।
ऊद्‌र्ध्वात् क्षइप्तमधः क्षिप्तं सन्धारितविधारितं ।। २५२.५ ।।

श्येनपातं गजपानं ग्राहग्राह्यन्तथैव च ।
एवमेकादशविधा ज्ञेयाः पाशविधा रणाः ।। २५२.६ ।।

ऋज्वायतं विशालञ्च तिर्य्यग्‌भ्रामितमेव च ।
पञ्चकर्म विनिर्द्दिष्टं व्यस्ते पाशे महात्मभिः ।। २५२.७ ।।

छेदनं भेदनं पातो भ्रमणं शयनं तथा ।
विकर्त्तनं कर्त्तऩञ्च चक्रकर्मेदमेव च ।। २५२.८ ।।

आस्फोटः क्ष्वेडनं भेदस्त्रासान्दोलितकौ तथा ।
शूलकर्माणि जानीहि षष्ठमाघातसञ्ज्ञितं ।। २५२.९ ।।

दृष्टिघातं भुजाघातं पार्श्वघातं द्विजोत्तम ।
ऋजुपक्षेषुणा पातं तोमरस्य प्रकीर्त्तितं ।। २५२.१० ।।

आहतं विप्र गोमूत्रप्रभूतङ्कमलासनं ।
ततोर्द्धगात्रं नमितं वामदक्षिणमेव च ।। २५२.११ ।।

आवृत्तञ्च चपरावृत्तं पादोद्धतमवप्लुतं ।
हंसमर्द्दं विमर्दञ्च३ गदाकर्म प्रकीर्त्तितं ।। २५२.१२ ।।

करालमवघातञ्च दंशोपप्लुतमेव च ।
क्षिप्तहस्तं स्थितं शून्यं परशोस्तु विनिर्दिशेत् ।। २५२.१३ ।।

ताडनं छेदनं विप्र तथा चूर्णनमेव च ।
मुद्‌गरस्य तु कर्माणि तथा प्लवनघातनं ।। २५२.१४ ।।

सं श्रान्तमथ विश्रान्तं गोविसर्गं सुदुर्द्धरं ।
भिन्दिपालस्य कर्माणि लगुडस्य च तान्यपि ।। २५२.१५ ।।

अन्त्यं मध्यं परावृत्तं निदेशान्तं द्विजोत्तम ।
वज्रस्यैतानि कर्माणि लगुडस्य च तान्यपि ।। २५२.१६ ।।

हरणं छेदनं घातो बलोद्धारणमायतं ।
कृपाणकर्म निर्दिष्टं पातनं स्फोटनं तथा ।। २५२.१७ ।।

त्रासनं रक्षणं घातो बलोद्धरणमायतम् ।
क्षेपणीकर्म निर्दिष्टं यन्त्रकर्मैतदेव तु ।। २५२.१८ ।।

सन्त्यागमवदंशश्च वराहोद्धूतकं तथा ।
हस्तावहस्तमालीनमेकहस्तावहस्तके ।। २५२.१९ ।।

द्विहस्तवाहुपाशे च कटिरेचितकोद्‌गते ।
उरोललाटघाते च भुजाविधमनन्तथा ।। २५२.२० ।

द्विहस्तवाहुपाशे च कटिरेचिककोद्‌गते ।
गात्रसंश्लेषणं शान्तं तथा गात्रविपर्य्ययः ।। २५२.२१ ।।

ऊद्‌र्ध्वप्र्हारं घातञ्च गोमूत्रं सव्यदक्षिणे ।
पारकन्तारकं दण्डं४ करवीरन्धमाकुलं ।। २५२.२२ ।।

तिर्य्यग्बन्धमपामार्गं५ भीमवेगं सुदर्शनं ।
सिंहाक्रान्तं गजाक्रान्तं गर्द्दभाक्रान्तमेव च ।। २५२.२३ ।।

गदाकर्माणि जानीयान्नियुद्धस्याथ कर्म च ।
आकर्षणं विकषञ्च बाहूनां मूलमेव च ।। २५२.२४ ।।

ग्रीवाविपरिवर्त्तञ्च पृष्ठभङ्गं सुदारुणं ।
पर्य्यासनविपर्य्यासौ पशुमारमजाविकं ।। २५२.२५ ।।

पादप्रहारमास्फोटं ककटिरेचितकन्तथा ।
गात्रश्लेषं स्कन्धगतं महीव्याजनमेव च ।। २५२.२६ ।।

उरोललाटघातञ्च विस्पष्टकरणन्तथा ।
उद्‌धूतमवधूतञ्च तिर्य्यङ्मार्गगतं तथा ।। २५२.२७ ।।

गजस्कन्धमवक्षेपमपराङ्‌मुखमेव च ।
देवमार्गमधोमार्गममार्गगमनाकुलं ।। २५२.२८ ।।

यष्टिघातमवक्षेपो वसुधादारणन्तथा ।
जानुबन्धं भुजाबन्धं गात्रबन्धं सुदारुणं ।। २५२.२९ ।।

विपृष्ठं सोदकं शुभ्रं भुजावेष्टितमेव च ।
सन्नद्धैः संयुगे भाव्यं सशस्त्रैस्तैर्गजादिभिः ।। २५२.३० ।।

वराङ्कुशधरौ चोभौ एको ग्रीवागतोऽपरः ।
स्कन्धगौ द्वौ च धानुष्कौ द्वौ च खड्‌गधरौगजे ।। २५२.३१ ।।

रथे रणे गजे चैव तुरङ्गाणां त्रयं भवेत् ।
धानुष्काणान्त्रयं प्रोक्तं रक्षआर्थे तुरगस्य च ।। २५२.३२ ।।

धन्विनो रक्षणार्थाय चर्मिणन्तु६ नियोजयेत् ।
स्वमन्त्रैः शस्त्रमभ्यर्च्य शास्त्रान्त्रैलोक्यमोहनं ।। २५२.३३ ।।

यो युद्धे याति स जयेदरीन् सम्पालयेद्भुवं ।।

इत्यादिमहापुराणे आग्नेये नाम द्विपञ्चाशदधिकद्विशततमोऽध्यायः ।