अग्निपुराणम्/अध्यायः १५७

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ

अथ सप्तपञ्चाशदधिकशततमोऽध्यायः

अग्निपुराणम्
















शावाशौचादिः

पुष्कर उवाच
प्रेतशुद्धिं प्रवक्ष्यामि सूतिकाशुध्हिमेव च ।१५७.००१
दशाहं शावमाशौचं सपिण्देषु विधीयते ॥१५७.००१
जनने च तथा शुद्धिर्ब्राह्मणानां भृगूत्तम ।१५७.००२
द्वादशाहेन राजन्यः पक्षाद्वैश्योऽथ मासतः ॥१५७.००२
शूद्रोऽनुलोमतो दासे स्वामितुल्यन्त्वशौचकं ।१५७.००३
षट्भिस्त्रिभिरथैकेन क्षत्रविट्शूद्रयोनिषु ॥१५७.००३
ब्राह्मणः शुद्धिमाप्नोति क्षत्रियस्तु तथैव च ।१५७.००४
विट्शूद्रयोनेः शुद्धिः स्यात्क्रमात्परशुरामक ॥१५७.००४
षड्रात्रेण त्रिरात्रेण षड्भिः शूद्रे तथा विशः ।१५७.००५
आदन्तजननात्सद्य आचूडान्नैशिकी श्रुतिः(१) ॥१५७.००५
त्रिरात्रमाव्रतादेशाद्दशरात्रमतः परं ।१५७.००६
ऊनत्रैवार्षिके शूद्रे पञ्चाहाच्छुद्धिरिष्यते ॥१५७.००६
द्वादशाहेने शुद्धिः स्यादतीते वत्सरत्रये ।१५७.००७
गतैः संवत्सरैः षड्भिः शुद्धिर्मासेन कीर्तिता ॥१५७.००७
स्त्रीणामकृतचूडानां विशुद्धिर्नैशिकी स्मृता ।१५७.००८
तथा च कृतचुडानां त्र्यहाच्छुद्ध्यन्ति बान्धवाः ॥१५७.००८
विवाहितासु नाशौचं पितृपक्षे विधीयते ।१५७.००९
पितुर्गृहे प्रसूतानां विशुद्धिर्नैशिकी स्मृता ॥१५७.००९
सूतिका दशरात्रेण शुद्धिमाप्नोति नान्यथा ।१५७.०१०
विवाहिता हि चेत्कन्या म्रियते पितृवेश्मनि ॥१५७.०१०
तस्यास्त्रिरात्राच्छुद्ध्यन्ति बान्धवा नात्र संशयः ।१५७.०११
समानं लब्धशौचन्तु प्रथमेन समापयेत् ॥१५७.०११
असमानं द्वितीयेन धर्मराजवचो यथा ।१५७.०१२
देशान्तरस्थः श्रुत्वा तु कुल्याणां मरणोद्भवौ ॥१५७.०१२
यच्छेषं दशरात्रस्य तावदेवशुचिर्भवेत् ।१५७.०१३
अतीते दशरात्रे तु त्रिरात्रमशुचिर्भवेत् ॥१५७.०१३
तथा संवत्सरेऽतीते स्नात एव विशुद्ध्यति ।१५७.०१४
मातामहे तथातीते आचार्ये च तथा मृते ॥१५७.०१४
रात्रिभिर्मासतुल्याभिर्गर्भस्रावे विशोधनं ।१५७.०१५
सपिण्डे ब्राह्मणे वर्णाः सर्व एवाविशेषतः ॥१५७.०१५
टिप्पणी
१ आचडान्नैशिकी तथेति ट..

दशरात्रेण शुद्ध्यन्ति द्वादशाहेन भूमिपः ।१५७.०१६
वैश्याः पञ्चदशाहेन शूद्रा मासेन भार्गव ॥१५७.०१६
उच्छिष्टसन्निधावेकं तथा पिण्डं निवेदयेत् ।१५७.०१७
कीर्तयेच्च तथा तस्य नमगोत्रे समाहितः ॥१५७.०१७
भुक्तवत्सु द्विजेन्द्रेषु पूजितेषु धनेन च(१) ।१५७.०१८
विसृष्टाक्षततोयेषु गोत्रनामानुकीर्तनैः ॥१५७.०१८
चतुरङ्गुलविस्तारं तत्खातन्तावदन्तरं ।१५७.०१९
वितस्तिदीर्घं कर्तव्यं विकर्षूणां तथा त्रयं ॥१५७.०१९
विकर्षूणां समीपे च ज्वालयेज्ज्वलनत्रयं ।१५७.०२०
सोमाय वह्नये राम यमाय च समासतः ॥१५७.०२०
जुहुयादाहुतीः सम्यक्सर्वत्रैव चतुस्त्रयः ।१५७.०२१
पिण्डनिर्वपणं कुर्यात्प्राग्वदेव पृथक्पृथक् ॥१५७.०२१
अन्नेन दध्ना मधुना तथा मांसेन पूरयेत् ।१५७.०२२
मध्ये चेदधिमासः स्यात्कुर्यादभ्यधिकन्तु तत् ॥१५७.०२२
अथवा द्वादशाहेन सर्वमेतत्समापयेत् ।१५७.०२३
संवत्सरस्य मध्ये च यदि स्यादधिमासकः ॥१५७.०२३
तदा द्वादशके श्राद्धे कार्यं तदधिकं भवेत् ।१५७.०२४
संवत्सरे समाप्ते तु श्राद्धं श्राद्धवदाचरेत् ॥१५७.०२४
प्रेताय तत ऊर्धवं च तस्यैव पुरुषत्रये ।१५७.०२५
पिण्डान् विनिर्वपेत्तद्वच्चतुरस्तु समाहितः ॥१५७.०२५
सम्पूज्य दत्वा पृथिवी समाना इति चाप्यथ ।१५७.०२६
टिप्पणी
१ धनेषु चेति क.. , ख.. , घ.. , ङ.. , छ.. , ज.. , ञ.. च

योजयेत्प्रेतपिण्डं तु पिण्डेष्वन्येषु भार्गव ॥१५७.०२६
प्रेतपात्रं च पात्रेषु तथैव विनियोजयेत् ।१५७.०२७
पृथक्पृथक्प्रकर्तव्यं कर्मैतत्कर्मपात्रके ॥१५७.०२७
मन्त्रवर्जमिदं कर्म शूद्रस्य तु विधीयते ।१५७.०२८
सपिण्डीकरणं स्त्रीणां कार्यमेवं तदा भवेत्(१) ॥१५७.०२८
श्राद्धं कुर्याच्च प्रत्यब्दं प्रेते कुम्भान्नमब्दकं ।१५७.०२९
गङ्गायाः सिकता धारा यथा वर्षति वासवे ॥१५७.०२९
शक्या गणयितुं लोके नत्वतीताः पितामहाः ।१५७.०३०
काले सततगे स्थैर्यं नास्ति तस्मात्क्रियां चरेत् ॥१५७.०३०
देवत्वे यातनास्थाने प्रेतः श्राद्धं कृतं लभेत् ।१५७.०३१
नोपकुर्यान्नरः शोचन् प्रेतस्यात्मन एव वा ॥१५७.०३१
भृग्वग्निपाशकाम्भोभिर्मृतानामात्मघातिनां ।१५७.०३२
पतितानां च नाशौचं विद्युच्छस्त्रहताश्च ये ॥१५७.०३२
यतिब्रतिब्रह्मचारिनृपकारुकदीक्षिताः ।१५७.०३३
राजाज्ञाकारिणो(२) ये च स्नायाद्वै प्रेतगाम्यपि ॥१५७.०३३
मैथुने कटधूमे च सद्यः स्नानं विधीयते ।१५७.०३४
द्विजं न निर्हरेत्(३) प्रेतं शूद्रेण तु कथञ्चन ॥१५७.०३४
न च शूद्रं द्विजेनापि तयोर्दोषो हि जायते(४) ।१५७.०३५
अनाथविप्रप्रेतस्य वहनात्स्वरगलोकभाक् ॥१५७.०३५
टिप्पणी
१ कार्यमेव तथा भवेदिति छ.. , ङ.. , ञ.. च । कार्यमेतत्तथा भवेदिति झ..
२ राजाज्ञाकारका इति ट..
३ न निर्दहेदिति ख..
४ तयोर्दोषोऽभिजायते इति ङ..

सङ्ग्रामे जयमाप्नोति प्रेतेऽनाथे च काष्ठदः ।१५७.०३६
सङ्कल्प्य बान्धवं प्रेतमपसव्येन तां चितिं ॥१५७.०३६
परिक्रम्य ततः स्नानं कुर्युः सर्वे सवाससः ।१५७.०३७
प्रेताय च तथा दद्युस्त्रींस्त्रींश्चैवोदकाञ्जलीन् ॥१५७.०३७
द्वार्यश्मनि पदं दत्वा प्रविशेयुस्तथा गृहं ।१५७.०३८
अक्षतान्निक्षिपेद्वह्नौ निम्बपत्रं विदश्य च ॥१५७.०३८
पृथक्शयीरन् भूमौ च क्रीतलब्धाशनो भवेत् ।१५७.०३९
एकः पिण्दो दशाहे तु श्मश्रुकर्मकरः शुचिः ॥१५७.०३९
सिद्धार्थकैस्तिलैर्विद्वान्मज्जेद्वासोपरं दधत्(१) ।१५७.०४०
अजातदन्ते तनये शिशौ गर्भस्रुते तथा ॥१५७.०४०
कार्यो नैवाग्निसंस्कारो नैव चास्योदकक्रिया ।१५७.०४१
चतुर्थे च दिनेकार्यस्तथास्थ्नां चैव सञ्चयः ॥१५७.०४१
अस्थिसञ्चयनादूर्ध्वमङ्गस्पर्शो विधीयते ॥४२॥१५७.०४२
टिप्पणी
१ सिद्धार्थकैस्तिलैर्विप्रान् यजद्वासोऽपरं दधदिति घ.. , ङ.. , ञ.. च । सिद्धार्थस्तिलैर्विद्वान् स्नायाद्वासोऽपरं दधदिति ग.. , ट.. च
इत्याग्नेये महापुराणे शावाशौचं नाम सप्तपञ्चाशदाधिकशततमोऽध्यायः ॥