अग्निपुराणम्/अध्यायः ११६

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ

गयायात्राविधिः

अग्निरुवाच
गायत्र्यैव महानद्यां स्नातः(१) सन्ध्यां समाचरेत् ।११६.००१
गायत्र्या अग्रतः प्रातः श्राद्धं पिण्डमथाक्षयं ॥११६.००१
मध्याह्ने चोद्यति(२) स्नात्वा गीतवाद्यैर्ह्युपास्य च ।११६.००२
सावित्रीपुरतः सन्ध्यां पिण्डदानञ्च तत्पदे ॥११६.००२
अगस्त्यस्य पदे कुर्याद्योनिद्वारं प्रविश्य च ।११६.००३
निर्गतो न पुनर्योनिं प्रविशेन्मुच्यते भवात्(३) ॥११६.००३
टिप्पणी
१ प्रात इति क..
२ मध्याह्ने सरसीति ग..
३ मुच्यते भयादिति छ.. , झ.. च

बलिं काकशिलायाञ्च कुमारञ्च नमेत्ततः(१) ।११६.००४
स्वर्गद्वार्यां सोमकुण्डे वायुतीर्थेऽथ पिण्डदः ॥११६.००४
भवेदाकशगङ्गायां कपिलायाञ्च पिण्डदः ।११६.००५
कपिलेशं शिवं नत्वा रुक्मिकुण्डे च पिण्डदः ॥११६.००५
कोटीतीर्थे च कोटीशं नत्वामोघपदे नरः(२) ।११६.००६
गदालोले वानरके गोप्रचारे च पिण्डदः(३) ॥११६.००६
नत्वा गावं वैतरण्यामेकविंशकुलोद्धृतिः ।११६.००७
श्राद्धपिण्डप्रदाता(४) स्यात्क्रौञ्चपदे च पिण्डदः(५) ॥११६.००७
तृतीयायां विशालायां निश्चिरायाञ्च पिण्डदः ।११६.००८
ऋणमोक्षे पापमोक्षे भस्मकुण्डेऽथ भस्मना ॥११६.००८
स्नानकृन्मुच्यते पापान्नमेद्देवं जनार्दनम् ।११६.००९
एष पिण्डो मया दत्तस्तव हस्ते जनार्दन ॥११६.००९
परलोकगते मह्यमक्ष्यय्यमुपतिष्ठतां ।११६.०१०
गयायां पितृरूपेण स्वयमेव जनार्दनः ॥११६.०१०
तं दृष्ट्वा पुण्डरीकाक्षं मुच्यते वै ऋणत्रयात् ।११६.०११
मार्कण्डेयेश्वरं नत्वा नमेद्गृध्रेश्वरं नरः(६) ॥११६.०११
मूलक्षेत्रे महेशस्य धारायां पिण्डदो भवेत् ।११६.०१२
टिप्पणी
१ नमेन्नर इति ख.. , ग.. , घ.. , ङ.. , छ.. च
२ मासपदेऽन्नद इति ख.. , घ.. च
३ कपिलेशमित्यादिः, गोप्रचारे च पिण्डद इत्यन्तः पाठो ग.. पुस्तके नास्ति
४ श्राद्धे पिण्डप्रदतेति ख..
५ भवेदाकाशगङ्गायामैत्यादिः, क्रौञ्चपादे च पिण्डद इत्यन्तः पाठः छ.. पुस्तके नास्ति
६ नमेद्भूतेश्वरं नर इति घ..

(१)गृध्रकूटे गृध्रवटे धौतपादे च पिण्डदः ॥११६.०१२
पुष्करिण्यां कर्दमाले रामतीर्थे च पिण्डदः ।११६.०१३
प्रभासेशन्नमेत्प्रेतशिलायां पिण्डदो भवेत् ॥११६.०१३
दिव्यान्तरीक्षभूमिष्ठाः पितरो बान्धवादयः ।११६.०१४
प्रेतादिरूपा मुक्ताः(२) स्युः पिण्डैर्दत्तैर्मयाखिलाः ॥११६.०१४
स्थानत्रये प्रेतशिला गयाशिरसि पावनी ।११६.०१५
प्रभासे प्रेतकुण्डे च पिण्डदस्तारयेत्कुलम् ॥११६.०१५
वसिष्ठेशन्नमस्कृत्य तदग्रे पिण्डदो भवेत् ।११६.०१६
गयानाभौ सुषुम्णायां महाकोष्ट्याञ्च पिण्डदः ॥११६.०१६
गदाधराग्रतो मुण्डपृष्ठे देव्याश्च सन्निधौ ।११६.०१७
मुण्दपृष्ठं नमेदादौ क्षेत्रपालादिसंयुतम् ॥११६.०१७
पूजयित्वा भयं न स्याद्विषरोगादिनाशनम् ।११६.०१८
ब्रह्माणञ्च नमस्कृत्य ब्रह्मलोकं नयेत्कुलम् ॥११६.०१८
सुभद्रां बलभद्रञ्च प्रपूज्य पुरुषोत्तमम् ।११६.०१९
सर्वकामसमायुक्तः कुलमुद्धृत्य नाकभाक्(३) ॥११६.०१९
हृषीकेशं नमस्कृत्य तदग्रे पिण्डदो भवेत् ।११६.०२०
माधवं पूजयित्वा च देवो वैमानिको(४) भवेत् ॥११६.०२०
महालक्ष्मीं प्रार्च्य गौरीं मङ्गलाञ्च सरस्वतीम् ।११६.०२१
पितॄनुद्धृत्य स्वर्गस्थो भुक्तभोगोऽत्र शास्त्रधीः ॥११६.०२१
टिप्पणी
१ सर्वकामसमायुक्तः कुलमुद्धृत्य लोकभागिति पाठोत्र झ.. पुस्तकेऽधिकोऽस्ति
२ प्रेतादिरूपमुक्ता इति ख.. , ग.. , घ.. , ङ.. , ज.. च
३ कुलमुद्धृत्य लोकभागिति ग.. , ज.. च । वशिष्ठेशमित्यादिः, कुलमुद्धृत्य नाकभागित्यन्तः पाठो झ.. पुस्तके नास्ति
४ देवैर्वैमानिक इति छ..

द्वादशादित्यमभ्यर्य वह्निं रेवन्तमिन्द्रकम् ।११६.०२२
रोगादिमुक्तः स्वर्गी स्याच्छ्रीकपर्दिविनायकम् ॥११६.०२२
प्रपूज्य कार्त्तिकेयञ्च निर्विघ्नः सिद्धिमाप्नुयात् ।११६.०२३
सोमनाथञ्च कालेशङ्केदारं प्रपितामहम् ॥११६.०२३
सिद्धेश्वरञ्च रुद्रेशं रामेशं ब्रह्मकेश्वरम् ।११६.०२४
अष्टलिङ्गानि गुह्यानि पूजयित्वा तु(१) सर्वभाक् ॥११६.०२४
नारायणं वराहञ्च नारसिंहं नमेच्छ्रिये ।११६.०२५
ब्रह्मविष्णुमहेशाख्यं त्रिपुरघ्नमशेषदम् ॥११६.०२५
सीतां रामञ्च गरुडं वामनं सम्प्रपूज्य च ।११६.०२६
सर्वकामानवाप्नोति ब्रह्मलोकं नयेत्पितॄन् ॥११६.०२६
देवैः सार्धं सम्प्रपूज्य देवमादिगदाधरम् ।११६.०२७
ऋणत्रयविनिर्मुक्तस्तारयेत्सकलं कुलम् ॥११६.०२७
देवरूपा शिला पुण्या तस्माद्देवमयी शिला ।११६.०२८
गयायां नहि तत्स्थानं यत्र तीर्थं न विद्यते ॥११६.०२८
यन्नाम्ना पातयेत्पिण्डं तन्नयेद्ब्रह्म शाश्वतम् ।११६.०२९
फल्ग्वीशं फल्गुचण्डीं च प्रणम्याङ्गारकेश्वरम् ॥११६.०२९
मतङ्गस्य पदे श्राद्धी भरताश्रमके भवेत् ।११६.०३०
हंसतीर्थे कोटितीर्थे यत्र पाण्डुशिलान्नदः ॥११६.०३०
तत्र स्यादग्निधारायां मधुस्रवसि पिण्डदः ।११६.०३१
रुद्रेशं किलिकिलेशं नमेद्वृद्धिविनायकम्(२) ॥११६.०३१
पिण्डदो धेनुकारण्ये पदे धेनोर्नमेच्च गाम् ।११६.०३२
टिप्पणी
१ पूजयित्वाथेति क.. , घ.. , ङ.. , ज.. च
२ नमेद्बुद्धिविनायकमिति ख.. , ग.. , छ.. च । नमेद्वृद्धविनायकमिति घ..

सर्वान् पितॄंस्तारयेच्च सरस्वत्याञ्च पिण्डदः ॥११६.०३२
सन्ध्यामुपास्य सायाह्ने नमेद्देवीं सरस्वतीम् ।११६.०३३
त्रिसन्ध्याकृद्भवेद्विप्रो वेदवेदाङ्गपारगः ॥११६.०३३
गयां प्रदक्षिणीकृत्य गयाविप्रान् प्रपूज्य च ।११६.०३४
अन्नदानादिकं सर्वं कृतन्तत्राक्षयं भवेत् ॥११६.०३४
स्तुत्वा सम्प्रार्थयेदेवमादिदेवं गदाधरम् ।११६.०३५
गदाधरं गयावासं पित्रादीनां गतिप्रदम् ॥११६.०३५
धर्मार्थकाममोक्षार्थं योगदं प्रणमाम्यहम् ।११६.०३६
देहेन्द्रियमनोबुद्धिप्राणाहङ्कारवर्जितम् ॥११६.०३६
नित्यशुद्धं बुद्धियुक्तं(१) सत्यं ब्रह्म नमाम्यहम् ।११६.०३७
आनन्दमद्वयं देवं देवदानववन्दितम् ॥११६.०३७
देवदेवीवृन्दयुक्तं सर्वदा प्रणमाम्यहम् ।११६.०३८
कलिकल्मषकालार्तिदमनं(२) वनमालिनम् ॥११६.०३८
पालिताखिललोकेशं(३) कुलोद्धरणमानसम् ।११६.०३९
व्यक्ताव्यक्तविभक्तात्माविभक्तात्मानमात्मनि ॥११६.०३९
स्थितं स्थिरतरं(४) सारं वन्दे घोराघमर्दनम्(५) ।११६.०४०
आगतोऽस्मि गयां देव पितृकार्ये गदाधरः ॥११६.०४०
त्वं मे साक्षी भवाद्येह अनृणोऽहमृणत्रयात् ।११६.०४१
टिप्पणी
१ नित्यशुद्धबुद्धियुक्तमिति घ.. , छ.. च
२ कालार्तिनाशनमिति घ.. । कालार्तिदलनमिति ग.. , ङ.. , घ.. , ज.. च
३ पालिताखिलदेवेशमिति घ..
४ स्थिततरमिति ग.. , घ.. , ङ.. च
५ वन्देहमरिमर्दनमिति ङ.. । वन्दे संसारमर्दनमिति ज..

साक्षिणः सन्तु मे देवा ब्रह्मेशानादयस्तथा ॥११६.०४१
मया गयां समासाद्य पितॄणां निष्कृतिः कृता ।११६.०४२
गयामाहात्म्यपठनाच्छ्राद्धादौ ब्रह्मलोकभाक् ॥११६.०४२
पितॄणामक्षयं श्राद्धमक्षयं ब्रह्मलोकदम् ॥४३॥११६.०४३

इत्याग्नेये महापुराणे गयामाहात्म्ये गयायात्रा नाम षोडशाधिकशततमोऽध्यायः ॥