अग्निपुराणम्/अध्यायः २१७

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
अग्निपुराणम्
















गायत्रीनिर्वाणं

अग्निरुवाच
लिङ्गमूर्तिं शिवं स्तुत्वा गायत्र्या योगमाप्तवान् ।२१७.००१
निर्वाणं(१) परमं ब्रह्म वसिष्ठोऽन्यश्च शङ्करात्(२) ॥२१७.००१
नमः कनकलिङ्गाय(३) वेदलिङ्गाय वै नमः ।२१७.००२
नमः परमलिङ्गाय(४) व्योमलिङ्गाय वै नमः ॥२१७.००२
नमः सहस्रलिङ्गाय वह्निलिङ्गाय वै नमः ।२१७.००३
नमः पुराणलिङ्गाय श्रुतिलिङ्गाय वै नमः ॥२१७.००३
नमः पाताललिङ्गाय ब्रह्मलिङ्गाय वै नमः ।२१७.००४
नमो रहस्यलिङ्गाय सप्तद्वीपोर्धलिङ्गिने ॥२१७.००४
नमः सर्वात्मलिङ्गाय सर्वलोकाङ्गलिङ्गिने ।२१७.००५
नमस्त्वव्यक्तलिङ्गाय बुद्धिलिङ्गाय वै नमः ॥२१७.००५
नमोऽहङ्कारकिङ्गाय भूतलिङ्गाय वै नमः ।२१७.००६
नम इन्द्रियलिङ्गाय नमस्तन्मात्रलिङ्गिने ॥२१७.००६
नमः पुरुषलिङ्गाय भावलिङ्गाय वै नमः ।२१७.००७
टिप्पणी
१ निर्मलमिति ख..
२ वशिष्तोप्येव शङ्करादिति ख.. , घ.. च
३ कमललिङ्गायेति ट..
४ नमः पवनलिङ्गायेति ख.. , ग.. , घ.. , ङ.. , ट.. च

नमो रजोर्धलिङ्गाय सत्त्वलिङ्गाय(१) वै नमः(२) ॥२१७.००७
नमस्ते भवलिङ्गाय नमस्त्रैगुण्यलिङ्गिने ।२१७.००८
नमोऽनागतलिङ्गाय तेजोलिङ्गाय वै नमः ॥२१७.००८
नमो वायूर्ध्वलिङ्गाय(३) श्रुतिलिङ्गाय वै नमः ।२१७.००९
नमस्तेऽथर्वलिङ्गाय सामलिङ्गाय(४) वै नमः ॥२१७.००९
नमो यज्ञाङ्गलिङ्गाय यज्ञलिङ्गाय वै नमः ।२१७.०१०
नमस्ते तत्त्वलिङ्गाय देवानुगतलिङ्गिने(५) ॥२१७.०१०
दिश नः परमं योगमपत्यं मत्समन्तथा ।२१७.०११
ब्रह्म चैवाक्षयं देव शमञ्चैव परं विभो(६) ॥२१७.०११
अक्षयन्त्वञ्च वंशस्य धर्मे च मतिमक्षयां ।२१७.०१२
अग्निरुवाच
वसिष्ठेन स्तुतः शम्भुस्तुष्टः श्रीपर्वते पुरा ॥२१७.०१२
वसिष्ठाय वरं दत्त्वा तत्रैवान्तरधीयत ॥१३॥२१७.०१३
इत्याग्नेये महापुराणे गायत्रीनिर्वाणं नाम सप्तदशाधिकद्विशततमोऽध्यायः ॥

टिप्पणी
१ तत्त्वलिङ्गायेति ख.. , छ.. च
२ नम इन्द्रियलिङ्गायेत्यादिः सत्त्वलिङ्गाय वै नम इत्यन्तः पाठः ज.. पुस्तके नास्ति
३ नमो वागूर्ध्वलिङ्गायेति घ..
४ नमस्ते सर्वलिङ्गाय नामलिङ्गायेति ख.. , छ.. च
५ नमोऽनागतलिङ्गायेत्यादिः देवानुगतलिङ्गिने इत्यन्तः पाठः ज.. पुस्तके नास्ति
६ परमात्मा परंविभो इति ज..