अग्निपुराणम्/अध्यायः ३२०

विकिस्रोतः तः
Jump to navigation Jump to search
अग्निपुराणम्
















मण्डलानि[सम्पाद्यताम्]

सर्व्वतो भद्रकान्यष्टमण्डलानि वदे गुह ।
शक्तिमासाधयेत् प्राचीमिष्टायां विषुवे सुधीः ।। ३२०.१ ।।

चित्रास्वात्यन्तरेणाथ दृष्टसूत्रेण वा पुनः ।
पूर्व्वापरायतं सूत्रमास्फाल्य मद्यतोऽङ्कयेत् ।। ३२०.२ ।।

कोटचिद्वयन्तु तन्मध्यादङ्‌कयेद्दक्षिणोत्तरम् ।
मध्ये द्वयं प्रकर्त्तव्यं स्फालयेद्दक्षिणोत्तरम् ।। ३२०.३ ।।

शतक्षेत्रार्द्धमानेन कोणसम्पातमादिशेत् ।
एवं सूत्रचतुष्कस्य स्फालनाच्चतुरस्रकम् ।। ३२०.४ ।।

जायते तत्र कर्त्तव्यं भद्रस्वेदकरं शुभम् ।
वसुभक्तेन्दुद्विपदे क्षेत्रे वीथी च भागिका ।। ३२०.५ ।।

द्वारं द्विपदिकं पद्ममानाद्वै सकपोलकम् ।
कोणबन्धविवित्त्रन्तु द्विपदं तत्र वर्त्तयेत् ।। ३२०.६ ।।

शुक्लं पद्मं कर्णिका तु पीता चित्रन्तु केशरम्।
रक्ता वीथी तत्र कल्प्या द्वारं लोकेशरूपकं ।। ३२०.७ ।।

रक्तकोणं विधौ नित्ये नैमित्तिकेऽव्जकं श्रृणु ।
असंसक्तन्तु संसक्तं द्विधाव्जं भुक्तिमुक्तिकृत् ।। ३२०.८ ।।

असंसक्तं सुमुक्षूणां संसक्तं तत्त्रिधा पृथक् ।
बालो युवा च वृद्धश्च नामतः फलसिद्धिदाः ।। ३२०.९ ।।

पद्मक्षेत्रे तु सूत्राणि दिग्विदिशु विनिक्षिपेत् ।
वृत्तानि पञ्चकल्पानि पद्मक्षेत्रसमानि तु ।। ३२०.१० ।।

प्रथमे कर्णिका तत्र पुष्करैर्न्नवभिर्युता ।
केशराणि चतुर्व्विशद्वितीयेऽथ तृतीयके ।। ३२०.११ ।।

दलसन्धिर्गजकुम्भनिभान्तर्यद्दलाग्रकम् ।
पञ्चमे व्योमरूपन्तु संसक्तं कमलं स्मृतं ।। ३२०.१२ ।।

असंसक्ते दलाग्रे तु दिग्भागैर्विस्तराद्भजेत् ।.
भागद्वयपरित्यागाद्वस्वंशैर्वर्त्तयेद्दलम् ।। ३२०.१३ ।।

सन्धिविस्तरसूत्रेण तन्मूलादञ्जयेद्दलम्
सव्यासव्यक्रमेणैव वृद्धमेतद्भवेत्तथा ।। ३२०.१४ ।।

अथ वा सन्धिमध्यात्तु भ्रामयेदर्द्धचन्द्रवत् ।
सन्धिद्वयाग्रसूत्रं वा बालपद्मन्तथा भवेत् ।। ३२०.१५ ।.

सन्धिसूत्रार्द्धमानेन पृष्ठतः परिवर्त्तयेत् ।
तीक्ष्णाग्रन्तु सुवातेन कमलं भुक्तिमुक्तिदम् ।। ३२०.१६ ।।

मुक्तवृद्धौ च वश्यादौ बालं पद्मं समानकं ।
नवनाभंनवहस्तं भागैर्म्मन्त्रात्मकैश्च तत् ।। ३२०.१७ ।।

मध्येऽव्जं पट्टिकावीजं द्वारेणाब्जस्य मानतः ।
कण्ठोपकण्ठमुक्तानि तद्वाह्ये वीथिका मता ।। ३२०.१८ ।।

पञ्चभागान्विता सा तु समन्ताद्दशभागिका ।
दिग्विदिक्ष्वष्ट पद्मानि द्वारपद्मं सवीथिकम् ।। ३२०.१९ ।।

तद्वाह्ये पञ्च पदिका वीथिका यत्र भूषिता ।
पद्मवद्‌द्वारकण्ठन्तु पदिकञ्चौष्ठकण्ठकं ।। ३२०.२० ।।

कपोलं पदिकं कार्य्यं दिक्षु द्वारत्रयं स्फुटम् ।
कोणबन्धं त्रिपट्टन्तु द्विपट्टं वज्रवद्भवेत् ।। ३२०.२१ ।।

मध्यन्तु कमलं शुक्लं पीतं रक्तञ्च नीलकम् ।
पीतशुक्लञ्च धूम्रञ्च रक्तं पीतञ्च मुक्तिदम् ।। ३२०.२२ ।।

पूर्व्वादौ कमलान्यष्ट शिवविष्ण्वादिकंजपेत् .
प्रासादमध्यतोऽभ्यर्च्य शक्रादीन्व्जकादिषु ।। ३२०.२३ ।।

अस्त्राणि वाह्यवीथ्यान्तु विष्ण्वादीनश्वमेधभाक् ।
पवित्रारोहणादौ च महामण्डलमालिखेत् ।। ३२०.२४ ।।

अष्टहस्तं पुरा क्षेत्रं रसपक्षैर्विवर्त्तयेत् ।
द्विपदं कमलं मध्ये वीथिका पदिका ततः ।। ३२०.२५ ।।

दिग्विदिक्षु ततोऽष्ठै च नीलाब्जानि विवर्त्तयेत् ।
मध्यपद्मप्रमाणेन त्रिंशत्पद्मानि तानि तु ।। ३२०.२६ ।.

दलसन्धिविहीनानि नीलेन्दीवरकानि च ।
तत्‌पृष्ठे पदिका वीथी स्वस्तिकानि तदूर्द्धतः ।। ३२०.२७ ।.

द्विपदानि तथा चाष्टौ कृतिभागकृतानि तु .
वर्त्तयेत् स्वस्तिकांश्तत्र वीथिका पूर्व्ववद्वहिः ।। ३२०.२८ ।।

द्वाराणि कमलं यद्वदुपकण्ठयुतानि तु ।
वक्त्तयेत् स्वस्तिकांस्तत्र वीथका पूर्व्ववद्वहिः ।। ३२०.२९ ।।

स्वस्तिकादि विचित्रञ्च सर्व्वकामपदं गुह ।
पञ्चाब्जं पञ्चहस्तं स्यात् समन्ताद्दशभाजितम् ।। ३२०.३० ।।

द्विपदं कमलं वीथी पट्टिका दिक्षु पङ्कजम् ।
चतुष्कं पृष्ठतो वीथी पदिका द्विपदान्यथा ।। ३२०.३१ ।।

कण्ठोपकण्ठयुक्तानि द्वारान्यब्जन्तु मध्यतः ।
पञ्चाब्जमण्डले ह्यस्मिन् सितं पीतञ्च पूर्व्वकम् ।। ३२०.३२ ।।

वैदूर्य्याभं दक्षिणाब्जं कुन्दाभं वारुणं कजम् ।
उत्तराब्जन्तु शङ्गाभमन्यत् सर्व्वं विचित्रकम् ।। ३२०.३३ ।।

सर्व्वकामप्रदं वक्ष्ये दशहस्तन्तु मण्डलम् ।
विकारक्तन्तुर्य्याश्रं द्वारन्तु द्विपदं भवेत् ।। ३२०.३४ ।।

मध्ये पद्मं पूर्व्ववच्च विघ्नध्वंसं वदाम्यथ ।
चतुर्हस्तं पुरं कृत्वा वृतञ्चैव करद्वयम् ।। ३२०.३५ ।।

वीथिका हस्तमात्रन्तु स्वस्तिकैर्वहुभिर्वृता ।
हस्तमात्राणि द्वाराणि दिशु वृत्तं सपद्मकम् ।। ३२०.३६ ।।

पद्मानि पञ्च शुक्लानि मध्ये पूज्यश्च निष्कलः ।
हृदयादीनि पूर्व्वादौ विकदिक्ष्वस्त्राणि वै यजेत् ।। ३२०.३७ ।।

प्राग्‌वच्च पञ्च ब्रह्माणि बुद्ध्याधारमतो वदे .
शतभागो तिथिभागे पद्मं लिङ्गाष्टकं दिशि ।। ३२०.३८ ।।

मे खलाभागसंयुक्तं कण्ठं द्विपदिकं भवेत् ।
आचार्य्यो बुद्धिमाश्रित्य कल्पयेच्च लतादिकम् ।। ३२०.३९ ।।

चतुःपट्‌पञ्चमाष्टादि खाछिशाद्यादि मण्डलम् ।
खाक्षीन्दुसूर्य्यगं सर्वं खाक्षि चैवेन्दुवर्णनात् ।। ३२०.४० ।।

चत्वारिंशदधिकानि चतुर्द्दशसतानि हि ।
मण्डलानि हरेःशम्भोर्देव्याः सूर्य्यस्य सन्ति च ।। ३२०.४१ ।।

दशसप्तविभक्ते तु लतालिङ्गोद्भवं श्रृणु ।
दिक्षु पञ्चत्रयञ्चैकं त्रयं पञ्च च लोमयेत् ।। ३२०.४२ ।।

ऊद्‌र्ध्वगो द्विपदे लिङ्गमन्दिरं पार्श्वकोष्ठयोः ।
मध्येन द्विपदं पद्ममथ चैकञ्च पङ्कजं ।। ३२०.४३ ।।

लिङ्गस्य पार्श्वयोर्भद्रेपदद्वारमलोपनात् ।
तत्पार्श्वशोभाः षड्‌लोप्य लताः शेषास्तथा हरेः ।। ३२०.४४ ।।

ऊद्‌र्ध्वं द्विपदिकं लोप्य हरेर्भद्राष्टकं स्मृतम् .
रश्मिमानसमायुक्तवेदलोपाच्च शोभिकम् ।। ३२०. ४५ ।।

पञ्चविंशतिकं पद्मं ततः पीठमपीठकम् ।
द्वयं द्वयं रक्षयित्वा उपशोभास्तथाष्ट च ।। ३२०.४६ ।।

देव्यादिख्यापकं भद्रं बृहन्मध्ये परं लघु ।
मध्ये नवपदं पद्मं कोणे भद्रचतुष्टयम् ।। ३२०.४७ ।।

त्रयोदशपदं शेषं बुद्ध्याधारन्तु मण्हलं ।
शतपत्रं षष्ट्यधिकं बुद्ध्याधारं हरादिषु ।। ३२०.४८ ।।

इत्यादिमहापुराणे आग्नेये मण्डलानि नाम विंशत्यधिकत्रिशततमोऽध्यायः ।।

हिन्दी अनुवादः