अग्निपुराणम्/अध्यायः १२०
भुवनकोषः
अग्निरुवाच
विस्तारस्तु स्मृतो भूमेः सहस्राणि च सप्ततिः ।१२०.००१
उच्छ्रायो दशसाहस्रं पातालञ्चैकमेककं ॥१२०.००१
अतलं वितलञ्चैव नितलञ्च गभस्तिमत् ।१२०.००२
महाख्यं सुतलञ्चाग्र्यं पातालञ्चापि सप्तमं ॥१२०.००२
कृष्णपीतारुणाः शुक्लशर्कराशैलकाञ्चनाः ।१२०.००३
भूमयस्तेषु रम्येषु सन्ति दैत्यादयः सुखं ॥१२०.००३
पातालानामधश्चास्ते शेषो विष्णुश्च तामसः ।१२०.००४
गुणानन्त्यात्स चानन्ततः शिरसा धारयन्महीं ॥१२०.००४
भुवोऽधो नरका नैके न पतेत्तत्र वैष्णवः ।१२०.००५
रविणा भासिता पृथ्वी यावत्तायन्नभो मतं ॥१२०.००५
भूमेर्योजनलक्षन्तु विशिष्ठरविमण्डलं ।१२०.००६
रवेर्लक्षेण चन्द्रश्च लक्षान्नाक्षत्रमिन्दुतः ॥१२०.००६
द्विलक्षाद्भाद्बुधश्चास्ते बुधाच्छुक्रो द्विलक्षतः ।१२०.००७
द्विलक्षेण कुजः शुक्राद्भौमाद्द्विलक्षतो गुरुः ॥१२०.००७
गुरोर्द्विलक्षतः सौरित्ल्लक्षात्सप्तर्षयः शनेः ।१२०.००८
लक्षाद्ध्रुवो ह्यृषिभ्यस्तु त्रैलोक्यञ्चोच्छ्रयेण च ॥१२०.००८
ध्रुवात्कोट्या महर्लोको यत्र ते कल्पवासिनः ।१२०.००९
जनो द्विकोटितस्तस्माद्यत्रासन्[१] सनकादयः ॥१२०.००९
जनात्तपश्चाष्तकोट्या वैराजा यत्र देवताः ।१२०.०१०
षणवत्या तु कोटीनान्तपसः सत्यलोककः ॥१२०.०१०
अपुनर्मारका यत्र ब्रह्मलोको हि स स्मृतः ।१२०.०११
पादगम्यस्तु भूल्लोको भुवः सूर्यान्तरः स्मृतः ॥१२०.०११
स्वर्गलोको ध्रुवान्तस्तु नियुतानि[२] चतुर्दश ।१२०.०१२
एतदण्डकटाहेन वृतो ब्रह्माण्डविस्तरः ॥१२०.०१२
वारिवह्न्यनिलाकाशैस्ततो भूतादिना वहिः ।१२०.०१३
वृतं दशगुणैरण्डं भूतादिर्महता तथा ॥१२०.०१३
दशोत्तराणि शेषाणि एकैकस्मान्मामुने ।१२०.०१४
महान्तञ्च समावृत्य प्रधानं समवस्थितं ॥१२०.०१४
अनन्तस्य न तस्यान्तः सङ्ख्यानं नापि विद्यते[३] ।१२०.०१५
हेतुभूतमशेषस्य प्रकृतिः सा परा मुने ॥१२०.०१५
असङ्ख्यातानि शाण्डानि तत्र जातानि चेदृशां ।१२०.०१६
दारुण्यग्निर्यथा तैलं तिले तद्वत्पुमानिति[४] ॥१२०.०१६
प्रधाने च स्थितो[५] व्यापी चेतनात्मात्मवेदनः ।१२०.०१७
प्रधानञ्च पुमांश्चैव सर्वभूतात्मभृतया[६] ॥१२०.०१७
विष्णुशक्त्या महाप्राज्ञ वृतौ संश्रयधर्मिणौ ।१२०.०१८
तयोः[७] सैव पृथग्भावे कारणं संश्रयस्य च ॥१२०.०१८
क्षोभकारणभूतश्च सर्गकाले महामुने ।१२०.०१९
यथा शैत्यं जले वातो विभर्ति कणिकागतं ॥१२०.०१९
जगच्छक्तिस्तथा विष्णोः प्रधानप्रतिपादिकां ।१२०.०२०
विष्णुशक्तिं समासाद्य देवाद्याः सम्भवन्ति हि ॥१२०.०२०
स च विष्णुः स्वयं ब्रह्म यतः सर्वमिदं जगत् ।१२०.०२१
योजनानां सहस्राणि भास्करस्य रथो नव ॥१२०.०२१
ईशादण्डस्तथैवास्य द्विगुणो मुनिसत्तम ।१२०.०२२
सार्धकोटिस्तथा सप्तनियुतान्यधिकानि वै ॥१२०.०२२
योजनानान्तु तस्याक्षस्तत्र चक्रं प्रतिष्ठितं ।१२०.०२३
त्रिनाभिमतिपञ्चारं षण्णेमि द्व्ययनात्मकं ॥१२०.०२३
संवत्सरमयं कृत्स्नं कालचक्रं प्रतिष्ठितं ।१२०.०२४
चत्वारिंशत्सहस्राणि द्वितीयाक्षो विवस्वतः ॥१२०.०२४
पञ्चान्यानि तु सार्धानि स्यन्दनस्य महामते ।१२०.०२५
अक्षप्रमाणमुभयोः प्रमाणन्तदद्युगार्धयोः ॥१२०.०२५
ह्रस्वोऽक्षस्तद्युगार्धञ्च ध्रुवाधारं रथस्य वै ।१२०.०२६
हयाश्च सप्त छन्दांसि गायत्र्यादीनि सुव्रत ॥१२०.०२६
उदयास्तमनं ज्ञेयं दर्शनादर्शनं रवेः ।१२०.०२७
यावन्मात्रप्रदेशे तु वशिष्ठोऽवस्थितो ध्रुवः ॥१२०.०२७
स्वयमायाति तावत्तु भूमेराभूतसम्प्लवे[८] ।१२०.०२८
ऊर्ध्वोत्तरमृषिभ्यस्तु ध्रुवो यत्र व्यवस्थितः ॥१२०.०२८
एतद्विष्णुपदं दिव्यं तृतीयं व्योम्नि भास्वरं ।१२०.०२९
निर्धूतदोषपङ्कानां यतीनां स्थानमुत्तमं ॥१२०.०२९
ततो गङ्गा प्रभवति स्मरणात्पाशनाशनी[९] ।१२०.०३०
दिवि रूपं हरेर्ज्ञेयं शिशुमाराकृति प्रभो ॥१२०.०३०
स्थितः पुच्छे ध्रुवस्तत्र भ्रमन् भ्रामयति ग्रहान् ।१२०.०३१
स रथोऽधिष्ठिता देवैरादित्यैर्ऋषिभिर्वरैः[१०] ॥१२०.०३१
गन्धर्वैरप्सरोभिश्च ग्रामणीसर्पराक्षसैः[११] ।१२०.०३२
हिमोष्णवारिवर्षाणां कारणं भगवान् रविः ॥१२०.०३२
ऋग्वेदादिमयो विष्णुः स शुभाशुभकारणं ।१२०.०३३
रथस्त्रिचक्रः सोमस्य कुन्दाभास्तस्य वाजिनः[१२] ॥१२०.०३३
वामदक्षिणतो युक्ता दश तेन चरत्यसौ ।१२०.०३४
त्रयस्त्रिंशत्सहस्राणि त्रयस्त्रिंशच्छतानि च ॥१२०.०३४
त्रयस्त्रिंशत्तथा देवाः पिबन्ति क्षणदाकरं[१३] ।१२०.०३५
एकां कलाञ्च पितर एकामारश्मिसंस्थिताः ॥१२०.०३५
वाय्वग्निद्रव्यसम्भूतो रथश्चन्द्रसुतस्य च ।१२०.०३६
अष्टाभिस्तुरगैर्युक्तो बुधस्तेन चरत्यपि ॥१२०.०३६
शुक्रस्यापि रथोऽष्टाश्वो भौमस्यापि रथस्तथा ।१२०.०३७
बृहस्पते रथोऽष्टाश्वः शनेरष्टाश्वको रथः ॥१२०.०३७
स्वर्भानोश्च रथोऽष्टाश्वः केतोश्चाष्टाश्वको रथः ।१२०.०३८
यदद्य वैष्णवः कायस्ततो विप्र वसुन्धरा ॥१२०.०३८
पद्माकरा समुद्भूता पर्वताद्यादिसंयुता ।१२०.०३९
ज्योतिर्भुवननद्यद्रिसमुद्रवनकं हरिः ॥१२०.०३९
यदस्ति नास्ति तद्विष्णुर्विष्णुज्ञानविजृम्भितं(१) ।१२०.०४०
न विज्ञानमृते किञ्चिज्ज्ञानं विष्णुः परम्पदं ॥१२०.०४०
तत्कुर्याद्येन विष्णुः स्यात्सत्यं ज्ञानमनन्तकं ।१२०.०४१
पठेद्भुवनकोषं हि यः सोऽवाप्तसुखात्मभाक् ॥१२०.०४१
ज्योतिःशास्त्रादिविध्याश्च शुभाशुभाधिपो हरिः(२) ॥२४॥१२०.०४२
इत्याग्नेये महापुराणे भुवनकोषो नाम विंशत्यधिकशततमोऽध्यायः ॥
- ↑ यत्र वै इति ङ..
- ↑ अयुतानि इति ज..
- ↑ सङ्ख्यानं नैव विद्यते इति घ.. , झ.. च । सङ्ख्यानं न च विद्यते इति ग.
- ↑ पुमानपि इति घ.. , झ.. च
- ↑ ५ प्रधानेऽवस्थितं इति ख.. , ग.. , ङ.. च
- ↑ सर्वभूतानुभूतया इति ङ..
- ↑ द्वयोरिति झ..
- ↑ भूमेराहूतसम्प्लवे इति घ.. , ज.. च
- ↑ सर्वपापप्रणाशिनीति ज..
- ↑ ऋषभो रवेरिति ग.. , घ.. , ङ.. , ज.. च
- ↑ सरथ इत्यादिः, राक्षसैरित्यन्तः पाठः झ.. पुस्तके नास्ति
- ↑ कुन्दाभास्तत्र वाजिन इति क.. , घ.. , ङ.. च
- ↑ क्षणदाचरमिति झ..