अग्निपुराणम्/अध्यायः १५८

विकिस्रोतः तः
Jump to navigation Jump to search
अग्निपुराणम्
















अथाष्टपञ्चाशदधिकशततमोऽध्यायः

स्रावाद्याशौचं

पुष्कर उवाच
स्रावाशौचं प्रवक्ष्यामि मन्वादिमुनिसम्मतं ।१५८.००१
रात्रिभिर्मासतुल्याभिर्गर्भस्रावे त्र्यहेण या ॥१५८.००१
चातुर्मासिकपातान्ते दशाहं पञ्चमासतः ।१५८.००२
राजन्ये च चतूरात्रं वैश्ये पञ्चाहमेव च ॥१५८.००२
अष्टाहेन तु शूद्रस्य द्वादशाहादतः परं ।१५८.००३
स्त्रीणां विशुद्धिरुदिता(१) स्नानमात्रेण वै पितुः ॥१५८.००३
न स्नानं हि सपिण्डे स्यात्त्रिरात्रं सप्तमाष्टयोः ।१५८.००४
सद्यः शौचं सपिण्डानामादन्तजननात्तथा ॥१५८.००४
आचूडादेकरात्रं स्यादाव्रताच्च त्रिरात्रकं ।१५८.००५
दशरात्रं भवेदस्मान्मातापित्रोस्त्रिरात्रकं ॥१५८.००५
अजातदन्ते तु मृते कृतचूडेऽर्भके तथा ।१५८.००६
प्रेते न्यूने त्रिभिर्वर्षैर्मृते शुद्धिस्तु नैशिल्की ॥१५८.००६
द्व्यहेण क्षत्रिये शुद्धिस्त्रिभिर्वैश्ये मृते तथा ।१५८.००७
शुद्धिः शूद्रे पञ्चभिः स्यात्प्राग्विवाहद्द्विषट्त्वहः(२) ॥१५८.००७
यत्र त्रिरात्रं विप्राणामशौचं सम्प्रदृश्यते ।१५८.००८
तत्र शूद्रे द्वादशाहः षण्णव क्षत्रवैशय्योः ॥१५८.००८
द्व्यब्दे नैवाग्निसंस्कारो मृते तन्निखनेद्भुवि ।१५८.००९
न चोदकक्रिया तस्य नाम्नि चापि कृते सति ॥१५८.००९
जातदन्तस्य वा कार्या स्यादुपनयनाद्दश ।१५८.०१०
एकाहाच्छुद्ध्यते विप्रो योऽग्निवेदसमन्वितः ॥१५८.०१०
हीने हीनतरे चैव त्र्यहश्चतुरहस्तथा ।१५८.०११
पञ्चाहेनाग्निहीनस्तु दशाहाद्ब्राह्मणव्रुवः ॥१५८.०११
टिप्पणी
१ विशुद्धिः कथितेति घ.. , ङ.. , ञ.. च
२ द्विषट्ककमिति ट..

क्षत्रियो नवसप्ताहच्छुद्ध्येद्विप्रो गुणैर्युतः ।१५८.०१२
दशाहात्सगुणो वैश्यो विंशाहाच्छूद्र एव च ॥१५८.०१२
दशाहाच्छुद्ध्यते विप्रो द्वादशाहेन भूमिपः ।१५८.०१३
वैश्यः पञ्चदशाहेन शूद्रो मासेन शुद्ध्यति ॥१५८.०१३
गुणोत्कर्षे दशाहाप्तौ त्र्यहमेकाहकं त्र्यहे ।१५८.०१४
एकाहाप्तौ सद्यः शौचं सर्वत्रैवं समूहयेत् ॥१५८.०१४
दासान्तेवासिभृतकाः शिष्याश्चैवात्र वासिनः ।१५८.०१५
स्वामितुल्यमशौचं स्यान्मृते पृथक्पृथग्भवेत् ॥१५८.०१५
मरणादेव कर्तव्यं संयोगो यस्य नाग्निभिः ।१५८.०१६
दाहादूर्ध्वमशौचं स्याद्यस्य वैतानिको विधिः ॥१५८.०१६
सर्वेषामेव वर्णानान्त्रिभागात्स्पर्शनम्भवेत् ।१५८.०१७
त्रिचतुःपञ्चदशभिः स्पृश्यवर्णाः क्रमेण तु ॥१५८.०१७
चतुर्थे पञ्चमे चैव सप्तमे नवमे तथा ।१५८.०१८
अस्थिसञ्चयनं कार्यं वर्णानामनुपूर्वशः ॥१५८.०१८
अहस्त्वदत्तकन्यासु प्रदत्तासु त्र्यहं भवेत् ।१५८.०१९
पक्षिणी संस्कृतास्वेव स्वस्रादिषु विधीयते ॥१५८.०१९
पितृगोत्रं कुमारीणां व्यूढानां भर्तृगोत्रता ।१५८.०२०
जलप्रदानं पित्रे च उद्वाहे चोभयत्र तु ॥१५८.०२०
दशाहोपरि पित्रोश्च दुहितुर्मरणे त्र्यहं ।१५८.०२१
सद्यः शौचं सपिण्डानां पूर्वं चूडाकृतेर्द्विज ॥१५८.०२१
एकाहतो ह्याविविहादूर्ध्वं हस्तोदकात्त्र्यहं ।१५८.०२२
पक्षिणी भ्रातृपुत्रस्य सपिण्डानां च सद्यतः ॥१५८.०२२
दशाहाच्छुद्ध्यते विप्रो जन्महानौ स्वयोनिषु ।१५८.०२३
षद्भिस्त्रिभिरहैकेन क्षत्रविट्शूद्रयोनिषु ॥१५८.०२३
एतज्ज्ञेयं सपिण्डानां वक्ष्ये चानौरसादिषु ।१५८.०२४
अनौरसेषु पुत्रेषु भार्यास्वन्यगतासु च ॥१५८.०२४
परपूर्वासु च स्त्रीषु त्रिरात्राच्छुद्धिरिष्यते ।१५८.०२५
वृथासङ्करजातानां प्रव्रज्यासु च तिष्ठतां ॥१५८.०२५
आत्मनस्त्यागिनाञ्चैव निवर्तेतोदकक्रिया ।१५८.०२६
मात्रैकया द्विपितरौ भ्रतरावन्यगामिनौ ॥१५८.०२६
एकाहः सूतके तत्र मृतके तु द्व्यहो भवेत्(१) ।१५८.०२७
सपिण्डानामशौचं हि समानोदकतां वदे ॥१५८.०२७
बाले देशान्तरस्थे च पृथक्पिण्डे च संस्थिते ।१५८.०२८
सवासा जलमाप्लुत्य सद्य एव विशुद्ध्यति ॥१५८.०२८
दशाहेन सपिण्डास्तु शुद्ध्यन्ति प्रेतसूतके ।१५८.०२९
त्रिरात्रेण सुकुल्यास्तु स्नानात्(२) शुद्ध्यन्ति गोत्रिणः ॥१५८.०२९
सपिण्डता तु पुरुषे सप्तमे विनिवर्तते ।१५८.०३०
समानोदकभावस्तु निवर्तेताचतुर्दशात् ॥१५८.०३०
जन्मनामस्मृते वैतत्तत्परं गोत्रमुच्यते ।१५८.०३१
विगतन्तु विदेशस्थं शृणुयाद्यो ह्यनिर्दशं ॥१५८.०३१
यच्छेषं दशरात्रस्य तावदेवाशुचिर्भवेत् ।१५८.०३२
अतिक्रान्ते दशाहे तु त्रिरात्रमशुचिर्भवेत् ॥१५८.०३२
संवत्सरे व्यतीते तु स्पृष्ट्वैवापो विशुद्ध्यति ।१५८.०३३
टिप्पणी
१ मृतके तु त्र्यहो भवेदिति घ.. , ङ.. , ञ.. च । मतके तु तथा भवेदिति झ..
२ स्नाता इति ख.. , ग.. , घ.. , ङ.. , छ.. , ज.. च

मातुले पक्षिणो रात्रिः शिष्यत्विग्बान्धवेषु च ॥१५८.०३३
मृटे जामातरि प्रेते दैहित्रे भगिनीसुते(१) ।१५८.०३४
श्यालके तत्सुते चैव स्नानमात्रं विधीयते ॥१५८.०३४
मातामह्यां तथाचार्ये मृते मातामहे त्र्यहं ।१५८.०३५
दुर्भिक्षे राष्ट्रसम्पाते आगतायां तथापदि ॥१५८.०३५
उपसर्गमृतानाञ्च दाहे ब्रह्मविदान्तथा ।१५८.०३६
सत्रिव्रति(२) ब्रह्मत्तारिसङ्ग्रामे देशविप्लवे ॥१५८.०३६
दाने यज्ञे विवाहे च सद्यः शौचं विधीयते ।१५८.०३७
विप्रगोनृपहन्तॄणामनुक्तं चात्मघातिनां ॥१५८.०३७
असाध्यव्याधियुक्तस्य स्वाध्याये चाक्षमस्य च ।१५८.०३८
प्रायश्चित्तमनुज्ञातमग्नितोयप्रवेशनं ॥१५८.०३८
अपमानात्तथा(३) क्रोधात्स्नेहात्परिभवाद्भयात् ।१५८.०३९
उद्बध्य म्रियते नारी पुरुषो वा कथञ्चन ॥१५८.०३९
आत्मघाती चैकलक्षं वसेत्स नरके शुचौ ।१५८.०४०
वृद्धः श्रौतस्मृतेर्लुप्तः परित्यजति यस्त्वसून् ॥१५८.०४०
त्रिरात्रं तत्र शाशौचं द्वितीये चास्थिसञ्चयं ।१५८.०४१
तृतीये तूदकं कार्यं चतुर्थे श्राद्धमाचरेत् ॥१५८.०४१
विद्युदग्निहतानाञ्च त्र्यहं शुद्धिः सपिण्डिके(४) ।१५८.०४२
पाषण्डाश्रिता भर्तृघ्न्यो नाशौचोदकगाः स्त्रियः ॥१५८.०४२
पितृमात्रादिपाते तु आर्द्रवासा ह्युपोषितः ।१५८.०४३
टिप्पणी
१ प्रेते, भगिनीसुत इत्यपि इति ट..
२ यतिव्रतीति ज..
३ अपमानादथेति ख.. , ग.. , घ.. , ङ.. , छ.. , ज.. च
४ विद्युदादिहतानाञ्च त्र्यहाच्छुद्धिर्विधीयते इति ट..

अतीतेब्दे प्रकुर्वीत प्रेतकार्यं यथाविधि ॥१५८.०४३
यः कश्चित्तु हरेत्प्रेतमसपिण्डं कथञ्चन ।१५८.०४४
स्नात्वा स्चेलः स्पृष्ट्वाग्निं घृतं प्राश्य विशुद्ध्यति ॥१५८.०४४
यद्यन्नमत्ति तेषान्तु दशाहेनैव शुद्ध्यति ।१५८.०४५
अनदन्नन्नमह्न्येव न वै तस्मिन् गृहे वसेत् ॥१५८.०४५
अनाथं व्राह्मणं प्रेतं ये वहन्ति द्विजातयः ।१५८.०४६
पदे पदे यज्ञफलं शुद्धिः स्यात्स्नानमात्रतः ॥१५८.०४६
प्रेतीभूतं द्विजः शूद्रमनुगच्छंस्त्र्यहाच्छुचिः ।१५८.०४७
मृतस्य बान्धवैः सार्धं कृत्वा च परिदेवनं ॥१५८.०४७
वर्जयेत्तदहोरात्रं दानश्राद्धादि कामतः(१) ।१५८.०४८
शूद्रायाः प्रसवो गेहे शूद्रस्य मरणं तथा ॥१५८.०४८
भाण्डानि तु परित्यज्य त्र्यहाद्भूलेपतः शुचिः ।१५८.०४९
न विप्रं स्वेषु तिष्ठत्सु मृतं शूद्रेण नाययेत् ॥१५८.०४९
नयेत्प्रेतं स्नापितञ्च पूजितं कुसुमैर्दहेत् ।१५८.०५०
नग्नदेहं दहेन्नैव किञ्चिद्देहं परित्यजेत् ॥१५८.०५०
गोत्रजस्तु गृहीत्वा तु चितां चारोपयेत्तदा ।१५८.०५१
आहिताग्निर्यथान्यायं दग्धव्यस्तिभिरग्निभिः ॥१५८.०५१
अनाहिताग्निरेकेन लौकिकेनापरस्तथा ।१५८.०५२
अस्मात्त्वमभिजातोऽसि त्वदयं जायतां पुनः ॥१५८.०५२
असौ स्वर्गाय लोकाय सुखाग्निं प्रददेत्सुतः ।१५८.०५३
सकृत्प्रसिञ्चन्त्युदकं नामगोत्रेण बान्धवाः ॥१५८.०५३
टिप्पणी
१ दानश्राद्धादिकर्म चेति झ..

एवं मातामहाचार्यप्रेतानाञ्चोदकक्रिया ।१५८.०५४
काम्योदकं सखिप्रेतस्वस्रीयश्वश्रुरर्त्विजां ॥१५८.०५४
अपो नः शोशुचिदयं दशाहञ्च सुतोऽर्पयेत् ।१५८.०५५
ब्राह्मणे दशपिण्डाः स्युः क्षत्रिये द्वादश स्मृताः ॥१५८.०५५
वैश्ये पञ्चदश प्रोक्ताः शूद्रे त्रिंशत्प्रकीर्तिता ।१५८.०५६
पुत्रो वा पुत्रिकान्यो वा पिण्डं दद्याच्च पुत्रवत् ॥१५८.०५६
विदिश्य निम्बपत्राणि नियतो द्वारि वेश्मनः ।१५८.०५७
आचम्य चाग्निमुदकं गोमयं गौरसर्षपान् ॥१५८.०५७
प्रविशेयुः समालभ्य कृत्वाश्मनि पदं शनैः ।१५८.०५८
अक्षरलवणान्नः स्युर्निर्मांसा भूमिशायिनः ॥१५८.०५८
क्रीतलब्धाशनाः स्नाता आदिकर्ता दशाहकृत् ।१५८.०५९
अभावे ब्रह्मचारी तु कुर्यात्पिण्डोदकादिकं ॥१५८.०५९
यथेदं शावमाशौचं सपिण्डेषु विधीयते ।१५८.०६०
जननेप्येवं स्यान्निपुणां शुद्धिमिच्छतां ॥१५८.०६०
सर्वेषां शावमाशौचं मातापित्रोश्च सूतकं ।१५८.०६१
सूतकं मातुरेव स्यादुपस्पृश्य पिता शुचिः ॥१५८.०६१
पुत्रजन्मदिने श्राद्धं कर्तव्यमिति निश्चितं ।१५८.०६२
तदहस्तत्प्रदानार्थं गोहिरण्यादिवाससां ॥१५८.०६२
मरणं मरणेनैव सूतकं सूतकेन तु ।१५८.०६३
उभयोरपि यत्पूर्वं तेनाशौचेन शुद्ध्यति ॥१५८.०६३
सूतके मृतकं चेत्स्यान्मृतके त्वथ सूतकं ।१५८.०६४
तत्राधिकृत्य मृतकं शौचं कुर्यान्न सूतकं ॥१५८.०६४
समानं लघ्वशौचन्तु प्रथमेन समापयेत् ।१५८.०६५
असमानं द्वितीयेन धर्मराजवचो यथा ॥१५८.०६५
शावान्तः शाव आयाते(१) पूर्वाशौचेन शुद्ध्यति ।१५८.०६६
गुरुणा लघु बाध्येत लघुना नैव तद्गुरु ॥१५८.०६६
मृतके सूतके वापि रात्रिमध्येऽन्यदापतेत् ।१५८.०६७
तच्छेषेणैव सुद्ध्येरन् रात्रिशेषे द्व्यहाधिकात् ॥१५८.०६७
प्रभाते यद्यशौचं स्याच्छुद्धेरंश्च त्रिभिर्दिनैः ।१५८.०६८
उभयत्र दशाहानि कुलस्यान्नं न भुज्यते ॥१५८.०६८
दानादि निनिवर्तेत कुलस्यान्नं न भुज्यते ।१५८.०६९
अज्ञाते पातकं नाद्ये भोक्तुरेकमहोऽन्यथा(२) ॥१५८.०६९

इत्याग्नेये महापुराणे स्रावाद्याशौचं नाम अष्टपञ्चाशदधिकशततमोऽध्यायः ॥