अग्निपुराणम्/अध्यायः २००

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← अध्यायः १९९ अग्निपुराणम्
अध्यायः २००
वेदव्यासः
अध्यायः २०१ →
अग्निपुराणम्

















अग्निरुवाच
दीपदानव्रतं वक्ष्ये भुक्तिमुक्तिप्रदायकं ।२००.००१
देवद्विजातिकगृहे दीपदोऽब्दं स सर्वभाक् ॥२००.००१
चतुर्मासं विष्णुलोकी कार्त्तिके स्वर्गलोक्यपि ।२००.००२
दीपदानात्परं नास्ति न भूतं न भविष्यति ॥२००.००२
दीपेनायुष्यचक्षुष्मान्दीपाल्लक्ष्मीसुतादिकं ।२००.००३
सौभाग्यं दीपदः प्राप्य स्वर्गलोके महीयते ॥२००.००३
विदर्भराजदुहिता ललिता दीपदात्मभाक् ।२००.००४
चारुधर्मक्ष्मापपत्नी शतभार्याधिकाभवत् ॥२००.००४
ददौ दीपसहस्रं सा विष्णोरायतने सती ।२००.००५
पृष्टा सा दीपमाहात्म्यं सपत्नीभ्य उवाच ह ॥२००.००५
ललितोवाच
सौवीरराजस्य पुरा मैत्रेयोऽभूत्पुरोहितः ।२००.००६
तेन चायतनं विष्णोः कारितं देविकातटे ॥२००.००६
कार्त्तिके दीपकस्तेन दत्तः सम्प्रेरितो मया ।२००.००७
वक्त्रप्रान्तेन नश्यन्त्या मार्जारस्य तदा भयात् ॥२००.००७
निर्वाणवान् प्रदीप्तोऽभूद्वर्त्या मूषिकया तदा ।२००.००८
मृता राजात्मजा जाता राजपत्नी शताधिका ॥२००.००८
असङ्कल्पितमप्यस्य प्रेरणं यत्कृतं मया ।२००.००९
विष्ण्वायतनदीपस्य तस्येदं भुज्यते फलं ॥२००.००९
जातिस्मरा ह्यतो दीपान् प्रयच्छामि त्वहर्निशं ।२००.०१०
एकदश्यां दीपदो वै विमाने दिवि मोदते ॥२००.०१०
जायते दीपहर्ता तु मूको वा जड एव च ।२००.०११
अन्धे तमसि दुष्पारे नरके पतते किल ॥२००.०११
विक्रोशमानांश्च नरान् यमकिङ्कराहतान् ।२००.०१२
विलापैरलमत्रापि किं वो विलपिते फलं ॥२००.०१२
यदा प्रमादिभिः पूर्वमत्यन्तसमुपेक्षितः ।२००.०१३
जन्तुर्जन्मसहस्रेभ्यो ह्येकस्मिन्मानुषो यदि ॥२००.०१३
तत्राप्यतिविमूढात्मा किं भोगानभिधावति ।२००.०१४
स्वहितं(१) विषयास्वादैः क्रन्दनं तदिहागतं ॥२००.०१४॥
१ हर्षितमिति ख.. , ग.. , घ.. च । दूषितमिति ङ.
भुज्यते च कृतं पूर्वमेतत्किं वो न चिन्तितं ।२००.०१५
परस्त्रीषु कुचाभ्यङ्गं प्रीतये दुःखदं हि वः ॥२००.०१५
मुहूर्तविषयास्वादोऽनेककोट्यब्ददुःखदः ।२००.०१६
परस्त्रीहारि यद्गीतं हा मातः किं विलप्यते ॥२००.०१६
कोऽतिभारो हरेर्नाम्नि जिह्वया परिकीर्तने ।२००.०१७
वर्तितैलेऽल्पमूल्येऽपि यदग्निर्लभ्यते सदा ॥२००.०१७
दानाशक्तैर्हरेर्दीपो हृतस्तद्वोऽस्ति दुःखदं ।२००.०१८
इदानीं किं विलापेन सहध्वं यदुपागतं ॥२००.०१८
अग्निरुवाच
ललितोक्तञ्च ताः श्रुत्वा दीपदानाद्दिवं ययुः ।२००.०१९
तस्माद्दीपप्रदानेन व्रतानामधिकं फलं ॥२००.०१९

इत्याग्नेये महापुराणे दीपदानव्रतं नाम द्विशततमोऽध्यायः ॥