अग्निपुराणम्/अध्यायः ५९

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
अग्निपुराणम्
















अधिवासकथनम्[सम्पाद्यताम्]

भगवानुवाच
हरेः सान्निध्यकरणमधिवासनमुच्यते।
सर्व्वज्ञं सर्वगं ध्यात्वा आत्मानं पुरुषोत्तमम् ।। १ ।।

ओंकारेण समायोज्य चिच्छक्तिमभिमानिनीम् ।
निः सार्य्यात्मैकतां कृत्वास्वस्मिन् सर्वगते विभौ ।। २ ।।

योजयेः मरुता पृथ्वीं वह्निबीजेन पीपयेत्।
संहरेद्वायुना चाग्निं वायुमाकाशतो नयेत् ।। ३ ।।

अधिभूतादिदेवैस्तु साध्याख्यैविभवैः।
सह। तन्मात्रपात्रकान् कृत्वा संहरेत्तत् क्रमाद् बुधः ।। ४ ।।

आकाशं मनसाह्त्य मनोहङ्करणे कुरु ।
अहङ्कारञ्च महति तञ्चाप्यव्याकृते नयेत् ।। ५ ।।

अव्याकृतं ज्ञानरूपे वासुदेवः स ईरितः।
स तामव्याकृति मायामवष्टब्य सिसृक्षया ।। ६ ।।

सङ्कर्षणं स शव्दात्मा स्पर्शाख्यमसृजत् प्रभुः।
क्षोभ्य मायां स प्रद्युम्नं तेजोरुपं स चासृजत् ।। ७ ।।

अनिरुद्धं रसमात्रं ब्रह्माणं गन्धरूपकम्।
अनिरुद्धः स च ब्रह्मा अप आदौ ससर्ज चह ।। ८ ।।

तस्मिन् हिरण्मयञ्चाण्डं सोऽसृजत् पञ्चभूतवद्।
तस्मिन् सङ्क्रामिते जीव शक्तिरात्मोपसंहृता ।। ९ ।।

प्राणो जीवेन संयुक्तो वृत्तिमानिति शब्द्यते।
जीवो व्याहृतिसञ्ज्ञस्तु प्राणेष्वाध्यात्मिकः स्मृतः ।। १० ।।

प्राणैर्युक्ता ततो बुद्धिः सञ्जाता चाष्टमूर्त्तिका ।
अहङ्कारस्ततो जज्ञे मनस्तस्मादजायत ।। ११ ।।

अर्थाः प्रजज्ञिरे पञ्च सङ्कल्पादियुतास्ततः।
शब्दः स्पर्शश्च रूपञ्च रसो गन्ध इति स्मृताः ।। १२ ।।

ज्ञानशक्तियुतान्येतैरारब्धानीन्द्रियाणि तु।
त्वक्‌श्रोत्रघ्राणचक्षूंषि जिह्वाबुद्धीन्द्रियाणि तु ।। १३ ।।

पादौ पायुस्तथा पाणी वागुपस्थश्च पञ्चमः।
कर्म्मेन्द्रियाणि चैतानि पञ्चभूतान्यतः श्रृणु ।। १४ ।।

आकाशवायुतेजांसि सलिलं पृथिवी तथा।
स्थूलमेभिः शरीरन्तु सर्वाधारं प्रजायते ।। १५ ।।

प्राणतत्त्वं भकारन्तु जीवोपाधिगतं न्यसेत्।
हृदयस्थं बकारन्तु बुद्धितत्त्वं न्यसेद् बुधः ।। १६ ।।

फकारमपि तत्रैव अहङ्कारमयं न्यसेत्।
मनस्तत्त्वं पकारन्तु न्यसेत्सङ्कल्पसम्भवम् ।। १८ ।।

शब्दतन्मात्रतत्त्वन्तु नकारं मस्तके न्यसेत्।
स्पर्शात्मकं धकारन्तु वक्त्रदेशे तु विन्यसेत् ।। १९ ।।

दकारं रूपतत्त्वन्तु हृद्देशे विनिवेशयेत् ।
थकारं वस्तिदेशे तु रसतन्मात्रकं न्यसेत् ।। २० ।।

तकारं गन्धतन्मात्रं जङ्घयोर्व्विनिवेशयेत्।
णकारं श्रोत्रयोर्न्न्यस्य ढकारं विन्यसेत्त्वचि ।। २१ ।।

डकारं नेत्रयुग्मे तु रसनायां ठकारकम्।
टकारं नासिकायान्तु ञकारं वाचि विन्यसेत् ।। २२ ।।

झकारं करयोर्न्न्यस्य पाणितत्त्वं विचक्षणः।
जकारं पदयोर्न्न्यस्य छं पायौ चमुपस्थके ।। २३ ।।

विन्यसेत् पृथिवीतत्त्वं ङकारं पादयुग्मके।
वस्तौ घकारं गं तत्त्वं तैजसं हृदि विन्यसेत् ।। २४ ।।

खकारं वायुतत्त्वञ्च नासिकायां निवेशयेत्।
ककारं विन्यसेन्नित्यं खतत्त्वं मस्तके बुधः ।। २५ ।।

हृत्‌पुण्डरीके विन्यस्य यकारं सूर्य्यदैवतम्।
द्वासप्ततिसहस्त्राणि हृदयादभिनिः सृताः ।। २६ ।।

कलाषोडशसंयुक्त मकारं तत्र विन्यसेत्।
तन्मध्ये चिन्तयेन्मन्त्री बिन्दुं वह्नेस्तु मण्डलम् ।। २७ ।।

हकारं विन्यसेत्तत्र प्रणवेन सुरोत्तमः।
ओं आं परमेष्ठ्यात्मने आं नमः पुरुषात्मने ।। २८ ।।

ओं वां मनोनिवृत्त्यात्मने नाञ्च विश्वात्मने नमः।
ओं वा नमः सर्वात्मने इत्युक्ताः पञ्च शक्तयः ।। २९ ।।

स्थाने तु प्रथमा योज्या द्वितीया आसने मता।
तृतीया शयने तद्वच्चतुर्थी पानकर्म्मणि ।। ३० ।।

ग्रत्यर्च्चायां पञ्चमी स्यात्पञ्चोपनिषदः स्मृताः।
हुङ्कारं विन्यसेन्मध्ये ध्यात्वा मन्त्रमयं हरिम् ।। ३१ ।।

यां मूर्ति स्थापयेत्तस्मात् मूलमन्त्रं न्यसेत्ततः।
ओं नमों भगवते वासुदेवाय मूलकम् ।। ३२ ।।

शिरोघ्राणललाटेषु मुखकण्ठहृदि क्रमात्।
भुजयोर्जङ्घयोरङ्घ्र्योः केशवं शिरसि न्यसेत् ।। ३३ ।।

नारायणं न्यसेद्वक्त्रे ग्रीवायां माधवं न्यसेत्।
गोविन्दं भुजयोर्न्यस्य विष्णु च हृदेये न्यसेत् ।। ३४ ।।

मधुसूदनकं पृष्ठे वामनं जठरे न्यसेत्।
कट्यान्त्रिविक्रमं न्यस्य जङ्घायां श्रीधरं न्यसेत् ।। ३५ ।।

हृषीकेशं दक्षिणायां पद्मनाभं तु गुल्फके।
दामोदरं पादयोश्च हृदयादिषडङ्गकम् ।। ३६ ।।

एतत् साधारणं प्रोक्तमादिमूर्त्तेस्तु सत्तम।
अथवा यस्य देवस्य प्रारब्धं स्थापनं भवेत् ।। ३७ ।।

तस्यैव मूलमन्त्रेण सजीवकरणं भवेत्।
यस्या मूर्त्तेस्तु यन्नाम तस्याद्यं चाक्षरं च यत् ।। ३८ ।।

तत् स्वरैर्द्वादशैर्भेद्यं ह्यङ्गानि परिकल्पयेत्।
हृदयादीनि देवेश मूलञ्च दशमाक्षरम् ।। ३९ ।

यथा देवे तथा देहे तत्त्वानि विनियोजयेत्।
चक्राव्जमण्डले विष्णुं यजेद्गन्धादिना तथा ।। ४० ।।

पूर्व्ववच्चासनं ध्यायेत्सगात्रं सपरिच्छदम्।
शुभञ्चक्रं द्वादशारं ह्यपरिष्टाद्विचिन्तयेत् ।। ४१ ।।

त्रिनाभिचक्रं द्विनेमि खरैस्तच्च समन्वितम्।
पृष्ठदेशे ततः प्राज्ञः प्रकृत्यादीन्निवेशयेत् ।। ४२ ।।

पूजयेदारकाग्रेषु सूर्य्यं द्वादशधा पुनः।
कलाषोडशसंयुक्तं सोमन्तत्र विचिन्तयेत् ।। ४३ ।।

सबलं त्रितयं नाभौ चिन्तयेद्देशिकोत्तमः।
पद्माञ्च द्वादशदलं पद्ममध्ये विचिन्तयेत् ।। ४४ ।।

तन्मध्ये पौरुषीं शक्ति ध्यात्वाभ्यर्च्य च देशिकः ।
प्रतिमायां हरि न्यस्य तत्र तं पूजयेत् सुरान् ।। ४५ ।।

गन्धपुष्पादिभिः सम्यक् साङ्गं सावरणं क्रमात्।
द्वादशाक्षरवीजैस्तु केशवादीन् समर्च्चयेत् ।। ४६ ।।

द्वादशारे मण्डले तु लोकपालादिकं क्रमात्।
प्रतिमामर्च्चयेत् पश्चाद्‌गन्धपुष्पादिभिर्द्विजः ।। ४७ ।।

पौरुषेण तु सूक्तेन श्रिया सूक्तेन पिण्डिकाम्।
जननादिक्रमात् पञ्चाज्जनयेद्वैष्णवानलम् ।। ४८ ।।

हुत्वाग्निं वैष्णवैर्म्मन्त्रैः कुर्य्याच्छान्त्युदकं बुधः।
तत् सिक्त्वा प्रतिमामूद्‌र्ध्नि वह्निप्रणयनं चरेत् ।। ४९ ।।

दक्षिणेग्निं हुतमिति कुण्डेग्निं प्रणयेद् बुधः।
अग्निमग्नीति पूर्वे तु कुण्डेग्निं प्रणयेद्बुधः ।। ५० ।।

उत्तरे प्रणयेदग्निमग्निमग्नी हवामहे।
अग्निप्रणयने मन्त्रस्त्वमग्ने ह्यग्रिरुच्यते ।। ५१ ।।

पलाशसमिधानान्तु अष्टोत्तरसहस्रकम्।
कुण्डे कुण्डे होमयेच्च व्रीहीन् वेदादिकैस्तथा ।। ५२ ।।

साज्यांस्तिलान् व्याहृतिभिर्मूलमन्त्रेण वै घृतम्।
कुर्य्यात्ततः शान्तिहोमं मधुरत्रितयेन च ।। ५३ ।।

द्वादशार्णैः स्पृशेत् पादौ नाभिं हृन्मस्तकं ततः।
घृतं दधि पयो हुत्वा स्पृशेन्मूर्द्धन्यथो ततः ।। ५४ ।।

स्पृष्ट्वा शिरोनाभिपादांश्चतस्रः स्थापयेन्नदीः ।
गङ्गा च यमुना गोदा क्रमान्नाम्ना सरस्वती ।। ५५ ।।

दहेत्तु विष्णुगायत्र्या गायत्रया श्रपयेच्चरुम्।
होमयेच्च बलिं दद्यादुत्तरे भोजयेद् द्विजान् ।। ५६ ।।

सामाधिपानां तुष्ट्यर्थं हेम गां गुरवे ददेत्।
दिकपतिभ्यो बलिं दत्त्वा रात्रौ कुर्य्याच्च जागरम् ।। ५७ ।।

ब्रह्मगीतादिशब्देन सर्वभागधिवासनात् ।। ५८ ।।

इत्यादिमहापुराणे आग्नेये अधिवासनं नाम ऊनषष्टितमोऽध्यायः।