अग्निपुराणम्/अध्यायः २४८

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← अध्यायः २४७ अग्निपुराणम्
अध्यायः २४८
वेदव्यासः
अध्यायः २४९ →
अग्निपुराणम्
















पुष्पादिपूजाफलम्[सम्पाद्यताम्]

अग्निरुवाच
पुष्पैस्तु पूजनाद्विष्णुः सर्वकार्य्येषु सिद्धिदः ।
मालती मल्लिका यूथी पाटला करवीरकं ।। २४८.१ ।।

पावन्तिरतिमुक्तश्च१ कर्णिकारः कुरण्टकः ।
कुब्जकस्तगरो नीपो वाणो वर्वपमल्लिका ।। २४८.२ ।।

अशोकस्तिलकः कुन्दः पूजायै स्यात्तमालजं ।
विल्वपत्रं शमीपत्रं पत्रं भृङ्गरजस्य तु ।। २४८.३ ।।

तुलसीकालतुलसीपत्रं वासकमर्च्चने ।
केतकीपत्रपुष्पं च पद्मं रक्तोत्पलादिकं ।। २४८.४ ।।

नार्क्कन्नोन्मत्तकङ्गाञ्ची पूजने गिरिमल्लिका ।
कौटजं शाल्मलीपुष्पं कण्टकारीभवन्नहि ।। २४८.५ ।।

घृतप्रस्थेन विष्णोश्च स्नानङ्गो कोटिसत्‌फलं ।
आढकेन तु राजा स्यात् घृतक्षीरैर्द्दिवं व्रजेत् ।। २४८.६ ।।

इत्यादिमहापुराणे आग्नेये पुष्पादिपूजाफलं नाम अष्टचत्वारिंशदधिकद्विशततमोऽध्यायः ।।