अग्निपुराणम्/अध्यायः १४१

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
अग्निपुराणम्
















षट्त्रिंशत्पदकज्ञानम्

ईश्वर उवाच
षट्त्रिंशत्पदसंस्थानामोषधीनां वदे फलं ।१४१.००१
अमरीकरणं नृणां ब्रह्मरुद्रेन्द्रसेवितं ॥१४१.००१
हरीतक्यक्ष्यधात्राश्च मरीचम्पिप्पलीशिफा ।१४१.००२
वह्निः शुण्ठी पिप्पली च गुडूचीवचनिम्बकाः(१) ॥१४१.००२
वासकः शतमूली च सैन्धवं सिन्धुवारकं ।१४१.००३
कण्टकारी गोक्षुरका विल्वम्पौनर्नवं बला ॥१४१.००३
एरण्डमुण्डी रुचको भृङ्गः क्षारोऽथ पर्पटः ।१४१.००४
धन्याको जीरकश्चैव शतपुष्यी जवानिका ॥१४१.००४
विडङ्गः खदिरश्चैव कृतमालो हरिद्रया ।१४१.००५
वचा सिद्धार्थ एतानि षट्त्रिंशत्पदगानि हि ॥१४१.००५
क्रमादेकादिसञ्ज्ञानि ह्यौपधानि महान्ति हि ।१४१.००६
सर्वरोगहराणि स्युरमरीकरणानि च ॥१४१.००६
बलीपलितभेत्तॄणि(२) सर्वकोष्ठगतानि तु ।१४१.००७
एषां चूर्णञ्च वटिका रसेन परिभाविता ॥१४१.००७
अवलेहः कषायो वा मोदको गुडखण्डकः ।१४१.००८
टिप्पणी
१ चव्यनिम्बका इति ज.. , झ.. च
२ बलीपलितभेदीनीति छ..

मधुतो धृततो वापि घृतन्तैलमथापि वा ॥१४१.००८
सर्वात्मनोपयुक्तं हि मृतसञ्जीवनम्भवेत् ।१४१.००९
कर्षार्धं कर्षमेकं वा पलार्धं पलमेककं ॥१४१.००९
यथेष्टाचारनिरतो(१) जीवेद्वर्षशतत्रयं ।१४१.०१०
मृतसञ्जीवनीकल्पे योगो नास्मात्परोऽस्ति हि ॥१४१.०१०
प्रथमान्नवकाद्योगात्सर्वरोगैः प्रमुच्यते ।१४१.०११
द्वितीयाच्च तृतीयाच्च चतुर्थान्मुच्यते रुजः ॥१४१.०११
एवं षट्काच्च प्रथमाद्द्वितीयाच्च तृतीयतः ।१४१.०१२
चतुर्थात्पञ्चमात्षष्ठात्तथा नवचतुष्कतः ॥१४१.०१२
एकदित्रिचतुःपञ्चषट्सप्ताष्टमतोऽनिलात् ।१४१.०१३
अग्निभास्करषड्विंशसप्तविंशैश्च पित्ततः ॥१४१.०१३
वाणर्तुशैलवसुभिस्तिथिभिर्मुच्यते कफात् ।१४१.०१४
वेदाग्निभिर्बाणगुणैः षद्गुणैः स्याद्वशे धृते ॥१४१.०१४
ग्रहादिग्रहणान्तैश्च सर्वैरेव विमुच्यते ।१४१.०१५
एकद्वित्रिरसैः शैलैर्वसुग्रहशिवैः क्रमात् ॥१४१.०१५
द्वात्रिंशत्तिथिसूर्यैश्च नात्र कार्या विचारणा ।१४१.०१६
षट्त्रिंशत्पदकज्ञानं न देयं यस्य कस्य चित् ॥१४१.०१६

इत्याग्नेये महापुराणे युद्धजयार्णवे षट्त्रिंशत्पदकज्ञानं नाम एकचत्वारिंशदधिकशततमोऽध्यायः ॥

टिप्पणी
१ यथेच्छाचारनिरत इति ज..