अग्निपुराणम्/अध्यायः ११८

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ

भारतवर्षं

अग्निरुवाच
उत्तरं यत्समुद्रस्य हिमाद्रेश्चैव दक्षिणं ।११८.००१
वर्षं तद्भारतं नाम नवसाहस्रविस्तृतं ॥११८.००१
कर्मभूमिरियं स्वर्गमपवर्गं च गच्छतां ।११८.००२
टिप्पणी
१ यस्तु लभेच्छ्राद्धकृतं फलमिति ख.. , छ.. , ज.. च
२ वाराणसी इति ख.. , ङ.. , छ.. , ज.. च

महेन्द्रो मलयः सह्यः शुक्तिमान् हेमपर्वतः(१) ॥११८.००२
विन्ध्यश्च पारिपात्रश्च सप्तात्र कुलपर्वताः ।११८.००३
इन्द्रद्वीपः कसेरुश्च ताम्रवर्णो गभस्तिमान् ॥११८.००३
नागद्वीपस्तथा सौम्यो गान्धर्वस्त्वथ वारुणः ।११८.००४
अयं तु नवमस्तेषु द्वीपः सागरसंवृतः ॥११८.००४
योजनानां सहस्राणि द्वीपोयं दक्षिणोत्तरात् ।११८.००५
नव भेदा भारतस्य(२) मध्यभेदेऽथ पूर्वतः ॥११८.००५
किराता यवनाश्चापि ब्राह्मणाद्याश्च मध्यतः ।११८.००६
वेदस्मृतिमुखा नद्यः पारिपात्रोद्भवास्तथा ॥११८.००६
विन्ध्याच्च नर्मदाद्याः स्युः सह्यात्तापी पयोष्णिका ।११८.००७
गोदावरीभीमरथीकृष्णवेणादिकास्तथा ॥११८.००७
मलयात्कृतमालाद्यास्त्रिसामाद्या महेन्द्रजाः ।११८.००८
कुमाराद्याः शुक्तिमतो(३) हिमाद्रेश्चन्द्रभागका ॥११८.००८
पश्चिमे कुरुपाञ्चालमध्यदेशादयःस्थिताः ॥९॥११८.००९
इत्याग्नेये महापुराणे भारतवर्षं नामाष्टादशाधिकशततमोऽध्यायः ॥
टिप्पणी
१ शक्तिमानृक्षपर्वत इति घ.. , छ.. च । शुक्तिमानृक्षपर्वत इति ज..
२ नव भेदा भवन्त्यस्येति झ..
३ शक्तिमत इति ख.. , ग.. , घ.. , झ.. च