अग्निपुराणम्/अध्यायः १६६

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
अग्निपुराणम्
















अथ षट्षष्ट्यधिकशततमोऽध्यायः

वर्णधर्मादिकथनं

पुष्कर उवाच
वेदस्मार्तं प्रवक्ष्यामि धर्मं वै पञ्चधा स्मृतं(१) ।१६६.००१
वर्णत्वमेकमाश्रित्य योऽधिकारः प्रवर्तते ॥१६६.००१
टिप्पणी
१ धर्मं वै परमामृतमिति ख.. , छ.. च

वर्णधर्मः स विज्ञेयो यथोपनयनन्त्रिषु ।१६६.००२
यस्त्वाश्रमं समाश्रित्य पदार्थः संविधीयते ॥१६६.००२
उक्त आश्रमधर्मस्तु भिन्नपिण्डादिको यथा ।१६६.००३
उभयेन निमित्तेन यो विधिः सम्प्रवर्तते ॥१६६.००३
नैमित्तिकः स विज्ञेयः प्रायश्चित्तविधिर्यथा ।१६६.००४
ब्रह्मचारी गृही चापि वानप्रस्थो यतिर्नृप ॥१६६.००४
उक्त आश्रमधर्मस्तु धर्मः स्यात्पञ्चधा परः(१) ।१६६.००५
षाड्गुण्यस्याभिधाने यो दृष्टार्थः स उदाहृतः ॥१६६.००५
स त्रेधा मन्त्रयागाद्यदृष्टार्थ इति मानवाः ।१६६.००६
उभयार्थो व्यवहारस्तु दण्डधारणमेव च ॥१६६.००६
तुल्यार्थानां विकल्पः स्याद्यागमूलः प्रकीर्तितः ।१६६.००७
वेदे तु विहितो धर्मः स्मृतौ तादृश एव च ॥१६६.००७
अनुवादं स्मृतिः सूते(२) कार्यार्थमिति मानवाः ।१६६.००८
गुणार्थः परिसङ्ख्यार्थो वानुवादो विशेषतः(३) ॥१६६.००८
विशेषदृष्ट एवासौ फलार्थ इति मानवाः ।१६६.००९
स्यादष्टचत्वारिंशद्भिः संस्कारैर्ब्रह्मलोकगः ॥१६६.००९
गर्भाधानं पुंसवनं सीमन्तोन्नयनः ततः ।१६६.०१०
जातकर्म नामकृतिरन्नप्राशनचूडकं ॥१६६.०१०
संस्कारश्चोपनयनं वेदव्रतचतुष्टयं ।१६६.०११
स्नानं स्वधर्मचारिण्या योगः स्याद्यज्ञपञ्चकं ॥१६६.०११
टिप्पणी
१ धर्म एष सनातन इति ङ..
२ अर्थवादं स्मृतिः सूत इति ख.. , छ.. च
३ वार्थवादो विशेषत इति ख.. , छ.. च

देवयज्ञः पितृयज्ञो मनुष्यभूतयज्ञकौ ।१६६.०१२
ब्रह्मयज्ञः सप्तपाकयज्ञसंस्थाः पुरोऽष्टकाः ॥१६६.०१२
पार्वणश्राद्धं श्रावण्याग्रहायणी च चैत्र्यपि ।१६६.०१३
आश्वयुजी सप्तहविर्यज्ञसंस्थास्ततः स्मृताः ॥१६६.०१३
अग्न्याधेयमग्निहोत्रं(१) दर्शः स्यात्पशुबन्धकः ।१६६.०१४
चातुर्मास्याग्रहायेष्टिर्निरूढः पशुबन्धकः ॥१६६.०१४
सौत्रामणिसप्तसोमसंस्थाग्निष्टोम आदितः ।१६६.०१५
अत्यग्निष्टोम उक्थश्च षोडशी वाजपेयकः ॥१६६.०१५
अतिरात्रास्तथा स्तोम अष्टौ चात्मगुणास्ततः ।१६६.०१६
दया क्षमानसूया च अनायासोऽथ मङ्गलं ॥१६६.०१६
अकार्पण्यास्पृहाशौचं यस्यैते स परं व्रजेत् ।१६६.०१७
प्रचारे मैथुने चैव प्रस्रावे दन्तधावने ॥१६६.०१७
स्नानभोजनकाले च पट्सु मौनं समाचरेत् ।१६६.०१८
पुनर्दानं पृथक्पानमाज्येन यपसा निशि ॥१६६.०१८
दन्तच्छेदनमुष्णं च सप्त शक्तुषु वर्जयेत् ।१६६.०१९
स्नात्वा पुष्पं न गृह्णीयाद्देवायोग्यन्तदीरितं ॥१६६.०१९
अन्यगोत्रोप्यसम्बद्धः(२) प्रेतस्याग्निन्ददाति यः ।१६६.०२०
पिण्डञ्चोदकदानञ्च स दशाहं समापयेत् ॥१६६.०२०
उदकञ्च तृणं भस्म द्वारम्पन्थास्तथैव च ।१६६.०२१
टिप्पणी
१ अग्न्याधानमग्निहोत्रमिति ख.. , छ.. च
२ अन्यगोत्रोऽन्यसम्बन्ध इति ख.. , घ.. , ञ.. च

एभिरन्तरितं कृत्वा पङ्क्तिदोषो न विद्यते ॥१६६.०२१
पञ्च प्राणाहुतीर्दद्यादनामाङ्गुष्ठयोगतः ॥२२॥१६६.०२२
इत्याग्नेये महापुराणे वर्णधर्मादिर्नाम षट्षष्ट्यधिकशततमोऽध्यायः ॥