अग्निपुराणम्/अध्यायः २

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← अध्यायः १ अग्निपुराणम्
अध्यायः ००२
वेदव्यासः
अध्यायः ३ →
अग्निपुराणम्
















मत्स्यावतारवर्णनम्[सम्पाद्यताम्]

वसिष्ठ उवाच
मत्स्यादिरूपिणं विष्णुं ब्रूहि सर्गादिकारणम् ।
पुराणं ब्रह्म चाग्नेयं यथा विष्णोः पुरा श्रुतम् ।। १ ।।

अग्निरुवाच
मत्स्यावतारं वक्ष्येऽहं वसिष्ठ श्रृणु वै हरेः ।
अवतारक्रिया दुष्टनष्ट्यै सत्पालनाय हि ।। २ ।।

आसीदतीतकल्पान्ते ब्राह्मो नैमित्तिको लयः ।
समुद्रोपप्लुतास्तत्र लोका भूरादिका मुने ।। ३ ।।

मनुर्वैवस्वतस्तेपे तपो वै भुक्तिमुक्तये।
एकदा कृतमालायां कुर्वतो जलतर्पणम् ।। ४ ।।

तस्याञ्चल्युदके मत्स्यः स्वल्प एकोऽभ्यपद्यत।
क्षेप्तुकामं जले प्राह न मां क्षिप नरोत्तम ।। ५ ।।

ग्राहादिभ्यो भयं मेऽद्यतच्छ्रुत्वा कलशेऽक्षिपत्।
स तु वृद्धः पुनर्मत्स्यः प्राह तं देहि मे बृहत् ।। ६ ।।

स्थानमेतद्वचः श्रुत्वा राजाऽथोदञ्चनेऽक्षिपत्।
तत्र वृद्धोऽब्रवीद् भूपं पृथु देहि पदं मनो ।। ७ ।।

सरोवरे पुनः क्षिप्तो ववृधे तत्प्रमाणवान् ।
ऊचे देहि बृहत् स्थानप्राक्षिपच्चाम्बुधौ ततः।। ८ ।।

लक्षयोजनविस्तीर्णः क्षणमात्रेण सोऽभवत्।
मत्स्यं तमद्‌भुतं दृष्ट्वा विस्मितः प्राव्रवीन्‌ मनुः ।। ९ ।।

को भवान्ननु वै विष्णुः नारायण नमोऽस्तुते।
मायया मोहयसि मां किमर्थं त्वं जनार्दन ।। १० ।।

मनुनोक्तोऽब्रवीन्मत्स्यो मनुं वै पालने रतम्।
अवतीर्णो भवायास्य जगतो दुष्टनष्टये।। ११ ।।

सप्तमे दिवसे त्वव्धिः प्लावयिप्यति वै जगत् ।
उपस्थितायां नावि त्वं बीजादीनि विधाय च ।। १२ ।।

सप्तर्षिभिः परिवृतो निशां ब्राह्मीं चरिष्यसि।
उपस्थितस्य मे श्रृङ्गे निबध्नीहि महाहिना ।। १३ ।।

इत्युक्त्वान्तर्दृधे मत्स्यो मनुः कालप्रतीक्षकः ।
स्थितः समुद्र उद्वेले नावमारुरुहे तदा ।। १४ ।।

एकश्रृङ्गधरो मत्स्यो हैमो नियुतयोजनः।
नालम्बबन्ध तच्छृङ्गे मत्स्याख्यं च पुराणकम् ।। १५ ।।

शुश्राव मत्स्यात्पापघ्नं संस्तुवन् स्तुतिभिश्च तम् ।
ब्रह्मवेदप्रहर्त्तारं हयग्रीवञ्च दानवम् ।। १६ ।।


अवधीद् वेदमन्त्नाद्यान् पालयामास केशवः।
प्राप्ते कल्पेऽथ बाराहे कूर्म्मरूपोऽभवद्धरिः ।। १७ ।।

इत्यादिमहापुराणे आग्नेये मत्स्यावतारो नाम द्वितीयोऽध्यायः ।।