अग्निपुराणम्/अध्यायः १०८

विकिस्रोतः तः

भुवनकोषः

अग्निरुवाच
जम्बूप्लक्षाह्वयौ द्वीपौ शाल्मलिश्चापरो महान् ।१०८.००१
कुशः क्रौञ्चस्तथा शाकः पुष्करश्चेति सप्तमः ॥१०८.००१
टिप्पणी
१ योगप्रस्तारे इति ग.. , ज.. , झ.. च
२ इन्द्रद्युम्नोभ्यजायतेति ख.. , छ.. च
३ प्रतीहारादित्यादिः, प्रस्तारतः सुत इत्यन्तः पाठो झ.. पुस्तके नास्ति
४ दुष्टादुष्टश्च विरजा इति ख..

एते द्वीपाः समुद्रैस्तु सप्त सप्तभिरावृताः ।१०८.००२
लवणेक्षुसुरासर्पिर्दधिदुग्धजलैः समं(१) ॥१०८.००२
जम्बूद्वीपो द्वीपमध्ये(२) तन्मध्ये मेरुरुच्छ्रितः(३) ।१०८.००३
चतुरशीतिसाहस्रो भूयिष्ठः(४) षोडशाद्विराट् ॥१०८.००३
द्वात्रिंशन्मूर्ध्नि विस्तरात्षोडशाधः(५) सहस्रवान् ।१०८.००४
भूयस्तस्यास्य(६) शैलोऽसौ कर्णिकाकारसंस्थितः ॥१०८.००४
हिमवान् हेमकूटश्च निषधश्चास्य दक्षिणे ।१०८.००५
नीलः श्वेतश्च शृङ्गो च उत्तरे वर्षपर्वताः ॥१०८.००५
लक्षप्रमाणौ द्वौ मध्ये दशहीनास्तथापरे ।१०८.००६
सहस्रद्वितयोछ्रायास्तावद्विस्तारिणश्च ते ॥१०८.००६
भारतं प्रथमं वर्षन्ततः किम्पुरुषं स्मृतं ।१०८.००७
हरिवर्सन्तथैवान्यन्मेरोर्दक्षिणतो द्विज ॥१०८.००७
रम्यकं चोत्तरे वर्षं तथैवान्यद्धिरण्मयं(७) ।१०८.००८
उत्तराः कुरवश्चैव यथा वै भारतं तथा ॥१०८.००८
नवसाहस्रमेकैकमेतेषां मुनिसत्तम ।१०८.००९
इलावृतञ्च तन्मध्ये सौवर्णा मेरुरुछ्रितः ॥१०८.००९
मेरोश्चतुर्दिशन्तत्र नवसाहस्रविस्तृतं(८) ।१०८.०१०
टिप्पणी
१ दधिदुग्धजलान्तका इति ख.. , छ.. च
२ जम्बूद्वीपस्तस्य मध्ये इति ज..
३ मेरुरुत्थित इति झ..
४ भूमिष्ठ इति घ.. , ज.. च । भुविस्थ इति ङ..
५ षोडशांश इति झ..
६ भूपाद्मस्यास्य इति ख.. , ग.. , छ.. च
७ तथैवात्र हिरण्मयमिति ग.. । तथैवाथ हिरण्मयमिति ज..
८ इलावृतश्चेत्यादिः, नवसाहस्रविस्तृतमित्यन्तः पाठो छ.. पुस्तके नास्ति

इलावृतं महाभाग चत्वारश्चात्र पर्वताः ॥१०८.०१०
विष्कम्भा रचिता मेरोर्योजनायुतविस्तृताः(१) ।१०८.०११
पूर्वेण मन्दरो नाम दक्षिणे गन्धमादनः ॥१०८.०११
विपुलः पश्चिमे पार्श्वे सुपार्श्वश्चोत्तरे स्मृतः(२) ।१०८.०१२
कदम्बस्तेषु जम्बुश्च पिप्पलो बट एव च ॥१०८.०१२
एकादशशतायामाः पादपा गिरिकेतवः ।१०८.०१३
जम्बूद्वीपेति सञ्ज्ञा स्यात्फलं जम्बा गजोपमं ॥१०८.०१३
जम्बूनदीरसेनास्यास्त्विदं जाम्बूनदं(३) परं ।१०८.०१४
सुपार्श्वः पूर्वतो मेरोः केतुमालस्तु पश्चिमे ॥१०८.०१४
वनं चैत्ररथं पूर्वे दक्षिणे गन्धमादनः ।१०८.०१५
वैभ्राजं पश्चिमे सौम्ये नन्दनञ्च सरांस्यथ ॥१०८.०१५
अरुणोदं महाभद्रं संशितोदं(५) समानसं ।१०८.०१६
शिताभश्चक्रमुञ्जाद्याः पूर्वतः केशराचलाः(५) ॥१०८.०१६
दक्षिणेन्द्रेस्त्रिकूटाद्याः शिशिवासमुखा जले(६) ।१०८.०१७
शङ्खकूटादयः सौम्ये मेरौ च ब्रह्मणः पुरी ॥१०८.०१७
चतुर्दशसहस्राणि योजनानाञ्च दिक्षु च ।१०८.०१८
इन्द्रादिलोकपालानां समन्तात्ब्रह्मणः पुरः ॥१०८.०१८
विष्णुपादात्प्लावयित्वा चन्द्रं स्वर्गात्पतन्त्यपि ।१०८.०१९
पूर्वेण शीता भद्राश्वाच्छैलाच्छैलाद्गतार्णवं ॥१०८.०१९
तथैवालकनन्दापि दक्षिणेनैव भारतं(७) ।१०८.०२०
टिप्पणी
१ योजनायुतमुच्छ्रिता इति घ..
२ सुपार्श्वश्चोत्तरे स्थित इति घ..
३ रसनास्माद्धेमजाम्बुनदमिति ख.. , ग.. , घ.. , ङ.. , छ.. च
४ असितोदमिति ज..
५ पूर्वतः शिशिराचला इति ख.. , ग.. , घ.. , ज.. च
६ शशिवाममुखा जले इति ख.. , घ.. , ङ.. , छ.. च
७ दक्षिणेन च भारतमिति ख.. । दक्षिणेनैति भारतमिति ग..

प्रयाति सागरं कृत्वा सप्तभेदाथ पश्चिमं ॥१०८.०२०
अब्धिञ्च चक्षुःसौम्याब्धिं भद्रोत्तरकुरूनपि(१) ।१०८.०२१
आनीलनिषधायामौ(२) माल्यवद्गन्धमादनौ ॥१०८.०२१
तयोर्मध्यगतो मेरुः कर्णिकाकारसंस्थितः ।१०८.०२२
भारताः केतुमालाश्च भद्राश्वाः कुरवस्तथा ॥१०८.०२२
पत्राणि लोकपद्मस्य मर्यादाशैलवाह्यतः ।१०८.०२३
जठरो देवकूटश्च मर्यादापर्वतावुभौ(३) ॥१०८.०२३
तौ दक्षिणोत्तरायामावानीलनिषधायतौ ।१०८.०२४
गन्धमादनकैलासौ पूर्ववचायतावुभौ(४) ॥१०८.०२४
अशीतियोजनायामावर्णवान्तर्व्यवस्थितौ ।१०८.०२५
निषधः पारिपात्रश्च मर्यादापर्वतावुभौ ॥१०८.०२५
मेरोः पश्चिमदिग्भागे यथा पूर्वे तथा स्थितौ ।१०८.०२६
त्रिशृङ्गो रुधिरश्चैव उत्तरौ वर्षपर्वतौ ॥१०८.०२६
पूर्वपञ्चायतावेतावर्णवान्तर्व्यवस्थितौ ।१०८.०२७
जाठराद्याश्च मर्यादाशैला मेरोश्चतुर्दिशं ॥१०८.०२७
केशरादिषु या द्रोण्यस्तासु सन्ति पुराणि हि ।१०८.०२८
लक्ष्मीविष्ण्वग्निसूर्यादिदेवानां मुनिसत्तम ॥१०८.०२८
भौमानां स्वर्गधर्माणां न पापास्तत्र यान्ति च(५) ।१०८.०२९
टिप्पणी
१ भद्रोद्भवकुरूनपि इति ख..
२ अलीननिषधायामा इति ख.. , छ.. च
३ रम्यकमित्यादिः, मर्यादापर्वतावुभावित्यन्न्तः पाठो झ.. पुस्तके नास्ति
४ पूर्वपश्चायतावुभौ इति घ.. , ङ.. , ज.. च
५ भुमाः स्वर्गा धर्मिणान्ते न पापास्तत्र यान्ति च इति छ.. , ङ.. च । मौमानां स्वर्गधर्माणां तनया ह्यत्र यान्ति चेति ग.. , घ.. च । भोगिनां स्वर्गधर्माणां तनयास्तत्र यान्ति चेति ज..

भद्राश्वेऽस्ति हयग्रीवो वराहः केतुमालके ॥१०८.०२९
भारते कूर्मरूपी च मत्स्यरूपः कुरुष्वपि ।१०८.०३०
विश्वरूपेण सर्वत्र पूज्यते भगवान् हरिः ॥१०८.०३०
किम्पुरुषाद्यष्टसु क्षुद्भीतिशोकादिकं न च ।१०८.०३१
चत्तुर्विंशतिसाहस्रं प्रजा जीवन्त्यनामयाः ॥१०८.०३१
कृतादिकल्पना नास्ति भौमान्यम्भांसि नाम्बुदाः ।१०८.०३२
सर्वेष्वेतेषु वर्षेषु सप्त सप्त कुलाचलाः ॥१०८.०३२
नद्यश्च शतशस्तेभ्यस्तीर्थभूताः प्रजज्ञिरे ।१०८.०३३
भारते यानि नीर्थानि तानि तीर्थानि वच्मि ते ॥१०८.०३३