अग्निपुराणम्/अध्यायः २४२

विकिस्रोतः तः
Jump to navigation Jump to search
अग्निपुराणम्
















राजनीतिः[सम्पाद्यताम्]

राम उवाच
षड्विधन्तु बलं व्यूह्य देवान् प्रार्च्य रिपुं व्रजेत् ।२४२.००१
मौलं भूतं श्रोणिसुहृद्द्विषदाटविकं बलं ॥२४२.००१
पूर्वं पूर्वं गरीयस्तु बलानां व्यसनं तथा ।२४२.००२
षडङ्गं मन्त्रकोषाभ्यां पदात्यश्वरथद्विपैः ॥२४२.००२
नद्यद्रवनदुर्गेषु यत्र यत्र भयं भवेत् ।२४२.००३
सेनापतिस्तत्र तत्र गच्छेद्व्यूहीकृतैर्बलैः ॥२४२.००३
नायकः पुरतो यायात्प्रवीरपुरुषावृतः ।२४२.००४
मध्ये कलत्रं स्वामी च कोषः फल्गु च यद्बलं ॥२४२.००४
पार्श्वयोरुभयोरश्वा वाजिनां पार्श्वयो रथाः ।२४२.००५
रथानां पार्श्वयोर्नागा नागानां चाटवीबलं ॥२४२.००५
पश्चात्सेनापतिः सर्वं पुरस्कृत्य कृती स्वयं ।२४२.००६
यायात्सन्नद्धसैन्यौघः खिन्नानाश्वासयञ्च्छनैः ॥२४२.००६
यायाद्व्यूहेन महता मकरेण पुरोभये ।२४२.००७
श्येनेनोद्धृतपक्षेण सूच्या वा वीरवक्त्रया ॥२४२.००७
पश्चाद्भये तु शकटं पार्श्वयोर्वज्रसञ्ज्ञितं(१) ।२४२.००८
सर्वतः सर्वतोभद्रं भये व्यूहं प्रकल्पयेत् ॥२४२.००८
कन्दरे शैलगहने निम्नगावनसङ्कटे ।२४२.००९
दीर्घाध्वनि परिश्रान्तं क्षुत्पिपासाहितक्लमं ॥२४२.००९
व्याधिदुर्भिक्षमरकपीडितं दस्युविद्रुतं ।२४२.०१०
पङ्कांशुजलस्कन्धं व्यस्तं पुञ्जीकृतं पथि ॥२४२.०१०
प्रसुप्तं भोजनव्यग्रमभूमिष्ठमसुस्थितं ।२४२.०११
चौराग्निभयवित्रस्तं वृष्टिवातसमाहतं ॥२४२.०११
इत्यादौ स्वचमूं रक्षेत्प्रसैन्यं च घतयेत् ।२४२.०१२
विशिष्टो देशकालाभ्यां भिन्नविप्रकृतिर्बली ॥२४२.०१२
कुर्यात्प्रकाशयुद्धं हि कूटयुद्धं विपर्यये ।२४२.०१३
तेष्ववस्कन्दकालेषु परं हन्यात्समाकुलं ॥२४२.०१३

टिप्पणी

१ वज्रसङ्कटमिति ख.. , छ.. च

अभूमिष्ठं स्वभूमिष्ठं स्वभूमौ चोपजायतः ।२४२.०१४
प्रकृतिप्रग्रहाकृष्टं पाशैर्वनचरादिभिः ॥२४२.०१४
हन्यात्प्रवीरपुरुषैर्भङ्गदानापकर्षणैः ।२४२.०१५
पुरस्ताद्दर्शनं दत्वा तल्लक्षकृतनिश्चयात् ॥२४२.०१५
हन्यात्पश्चात्प्रवीरेण बलेनोपेत्य वेगिना ।२४२.०१६
पश्चाद्वा सङ्कुलीकृत्य हन्याच्छूरेण पूर्वतः ॥२४२.०१६
आभ्यां पार्श्वाभिघातौ तु व्याख्यातौ कूटयोधने ।२४२.०१७
पुरस्ताद्विषमे देशे पश्चाद्धन्यात्तु वेगवान् ॥२४२.०१७
पुरः पश्चात्तु विषमे एवमेव तु पार्श्वयोः ।२४२.०१८
प्रथमं योधयित्वा तु दूष्यामित्राटवीबलौ ॥२४२.०१८
श्रान्तं मन्दन्निराक्रन्दं हन्यादश्रान्तवाहनं ।२४२.०१९
दूष्यामित्रबलैर्वापि भङ्गन्दत्वा प्रयत्नवान् ॥२४२.०१९
जितमित्येव विश्वस्तं हन्यान्मन्त्रव्यपाश्रयः ।२४२.०२०
स्कन्धावारपुरग्रामशस्यस्वामिप्रजादिषु ॥२४२.०२०
विश्रभ्यन्तं परानीकमप्रमत्तो विनाशयेत् ।२४२.०२१
अथवा गोग्रहाकृष्टं तल्लक्ष्यं मार्गबन्धनात् ॥२४२.०२१
अवस्कन्दभयाद्रात्रिपूजागरकृतश्रमः ।२४२.०२२
दिवासुप्तं समाहन्यान्निद्राव्याकुलसैनिकं ॥२४२.०२२
निशि विश्रब्धसंसुप्तं नागैर्वा खड्गपाणिभिः ।२४२.०२३
प्रयाने पूर्वयायित्वं वनदुर्गप्रवेशनं ॥२४२.०२३
अभिन्नानामनीकानां भेदनं भिन्नसङ्ग्रहः ।२४२.०२४
विभीषकाद्वारघातं कोषरक्षेभकर्म च ॥२४२.०२४
अभिन्नभेदनं मित्रसन्धानं रथकर्म च ।२४२.०२५
वनदिङ्मार्गविचये वीवधासारलक्षणं ॥२४२.०२५
अनुयानापसरणे शीघ्रकार्योपपादनं ।२४२.०२६
दीनानुसरणं घातः कोटीनां जघनस्य च ॥२४२.०२६
अश्वकर्माथ पत्तेश्च सर्वदा शस्त्रधारणं ।२४२.०२७
शिविरस्य च मार्गादेः शोधनं वस्तिकर्म च ॥२४२.०२७
संस्थूलस्थाणुवल्मीकवृक्षगुल्मापकण्टकं ।२४२.०२८
सापसारा पदातीनां भूर्नातिविषमा मता ॥२४२.०२८
स्वल्पवृक्षोपला क्षिप्रलङ्घनीयनगा स्थिरा ।२४२.०२९
निःशर्करा विपङ्का च सापसारा च वाजिभूः ॥२४२.०२९
निस्थाणुवृक्षकेदारा रथभूमिरकर्दमा ।२४२.०३०
मर्दनीयतरुच्छेद्यव्रततीपङ्कवर्जिता ॥२४२.०३०
निर्झरागम्यशैला(१) च विषमा गजमेदिनी ।२४२.०३१
उरस्यादीनि भिन्नानि प्रतिगृह्णन् बलानि हि ॥२४२.०३१
प्रतिग्रह इति ख्यातो राजकार्यान्तरक्षमः ।२४२.०३२
तेन शून्यस्तु यो व्यूहः स भिन्न इव लक्ष्यते ॥२४२.०३२
जयार्थी न च युद्ध्येत मतिमानप्रतिग्रहः ।२४२.०३३
यत्र राजा तत्र कोषः कोषाधीना हि राजता ॥२४२.०३३
योधेभ्यस्तु ततो दद्यात्किञ्चिद्दातुं(२) न युज्यते ।२४२.०३४
द्रव्यलक्षं राजघाते तदर्धं तत्सुतार्दने ॥२४२.०३४
सेनापतिबधे तद्वद्दद्याद्धस्त्यादिमर्दने ।२४२.०३५
अथवा खलु युध्येरन् प्रत्यश्वरथदन्तिनः ॥२४२.०३५

टिप्पणी

१ निःशर्करा गम्यशैलेति ज..

२ किं हि दातुमिति घ.. , ञ.. च

यथा भवेदसंबाधो व्यायामविनिवर्तने ।२४२.०३६
असङ्करेण युद्धेरन् सङ्करः सङ्कुलावहः ॥२४२.०३६
महासङ्कुलयुद्धेषु संश्रयेरन्मतङ्गजं ।२४२.०३७
अश्वस्य प्रतियोद्धारो भवेयुः पुरुषास्त्रयः ॥२४२.०३७
इति कल्प्यास्त्रयश्चाश्वा विधेयाः कुञ्जरस्य तु ।२४२.०३८
पादगोपा भवेयुश्च पुरुषा दश पञ्च च ॥२४२.०३८
विधानमिति नागस्य विहितं स्यन्दनस्य च ।२४२.०३९
अनीकमिति विज्ञेयमिति कल्प्या नव द्विपाः ॥२४२.०३९
तथानीकस्य रन्ध्रन्तु पञ्चधा च प्रचक्षते ।२४२.०४०
इत्यनीकविभगेन स्थापयेद्व्यूहसम्पदः ॥२४२.०४०
उरस्यकक्षपक्षांस्तु कल्प्यानेतान् प्रचक्षते ।२४२.०४१
उरःकक्षौ च पक्षौ च मध्यं पृष्ठं प्रतिग्रहः ॥२४२.०४१
कोटी च व्यूहशास्त्रज्ञैः सप्ताङ्गो व्यूह उच्यते ।२४२.०४२
उरस्यकक्षपक्षास्तु व्यूहोऽयं सप्रतिग्रहः ॥२४२.०४२
गुरोरेष च शुक्रस्य कक्षाभ्यां परिवर्जितः ।२४२.०४३
तिष्ठेयुः सेनापतयः प्रवीरैः पुरुषैर्वृताः ॥२४२.०४३
अभेदेन च युध्येरन् रक्षेयुश्च परस्परं ।२४२.०४४
मध्यव्यूहे फल्गु सैन्यं युद्धवस्तु जघन्यतः ॥२४२.०४४
युद्धं हि नायकप्राणं हन्यते तदनायकं ।२४२.०४५
उरसि स्थापयेन्नागान् प्रचण्डान् कक्षयो रथान् ॥२४२.०४५
हयांश्च पक्षयोर्व्यूहो मध्यभेदी प्रकीर्तितः ।२४२.०४६
मध्यदेशे हयानीकं रथानीकञ्च कक्षयोः ॥२४२.०४६
पक्षयोश्च गजानीकं व्यूहोन्तर्भेद्ययं स्मृतः ।२४२.०४७
रथस्थाने हयान् दद्यात्पदातींश्च हयश्राये ॥२४२.०४७
रथाभावे तु द्विरदान् व्यूहे सर्वत्र दापयेत् ।२४२.०४८
यदि स्याद्दण्डबाहुल्यमाबाधः सम्प्रकीर्तितः ॥२४२.०४८
मण्डलांसंहतो भोगो दण्डास्ते बहुधा शृणु ।२४२.०४९
तिर्यग्वृत्तिस्तु दण्डः स्याद्भोगोऽन्यावृत्तिरेव च ॥२४२.०४९
मण्डलः सर्वतोवृत्तिः पृथग्वृत्तिरसंहतः ।२४२.०५०
प्रदरो दृढकोऽसह्यः चापो वै कुक्षिरेव च ॥२४२.०५०
प्रतिष्ठः सुप्रतिष्ठश्च श्येनो विजयसञ्जयौ ।२४२.०५१
विशालो विजयः शूची स्थूणाकर्णचमूमुखौ ॥२४२.०५१
सर्पास्यो वलयश्चैव दण्ड दण्डभेदाश्च दुर्जयाः ।२४२.०५२
अतिक्रान्तः प्रतिक्रान्तः कक्षाभ्याञ्चैकक्षपक्षतः ॥२४२.०५२
अतिक्रान्तस्तु पक्षाभ्यां त्रयोऽन्ये तद्विपर्यये ।२४२.०५३
पक्षोरस्यैरतिक्रान्तः प्रतिष्ठोऽन्यो विपर्ययः ॥२४२.०५३
स्थूणापक्षो धनुःपक्षो द्विस्थूणो दण्ड ऊर्ध्वगः ।२४२.०५४
द्विगुणोन्तस्त्वतिक्रान्तपक्षोऽन्यस्य विपर्ययः ॥२४२.०५४
द्विचतुर्दण्ड इत्येते ज्ञेया लक्षणतः क्रमात् ।२४२.०५५
गोमूत्रिकाहिसञ्चारीशकटो मकरस्तथा ॥२४२.०५५
भोगभेदाः समाख्यातास्तथा परिप्लवङ्गकः ।२४२.०५६
दण्डपक्षौ युगारस्यः शकटस्तद्विपर्यये ॥२४२.०५६
मकरो व्यतिकीर्णश्च शेषः कुञ्जरराजिभिः ।२४२.०५७
मण्डलव्यूहभेदौ तु सर्वतोभद्रदुर्जयौ ॥२४२.०५७
अष्टानीको द्वितीयस्तु प्रथमः सर्वतोमुखः ।२४२.०५८
अर्धचन्द्रक ऊर्ध्वाङ्गो वज्रभेदास्तु संहतेः ॥२४२.०५८
तथा कर्कटशृङ्गी च काकपादौ च गोधिका ।२४२.०५९
त्रिचतुःसैन्यानां ज्ञेया आकारभेदतः ॥२४२.०५९
दण्डस्य स्युः सप्तदश व्यूहा द्वौ मण्डलस्य च ।२४२.०६०
असङ्घातस्य षट्पञ्च भोगस्यैव तु सङ्गरे ॥२४२.०६०
पक्षादीनामथैकेन हत्वा शेषैः परिक्षिपेत् ।२४२.०६१
उरसा वा समाहत्य कोटिभ्यां परिवेष्टयेत्(१) ॥२४२.०६१
परे कोटी समाक्रम्य पक्षाभ्यामप्रतिग्रहात् ।२४२.०६२
कोटिभ्याञ्जघनं हन्यादुरसा च प्रपीडयेत् ॥२४२.०६२
यतः फल्गु यतो भिन्नं यतश्चान्यैरधिष्ठितं ।२४२.०६३
ततश्चारिबलं हन्यादात्मनश्चोपवृंहयेत् ॥२४२.०६३
सारं द्विगुणसारेण फल्गुसारेण पीडयेत् ।२४२.०६४
संहतञ्च गजानीकैः प्रचण्डैर्दारयेद्बलं ॥२४२.०६४
स्यात्कक्षपक्षोरस्यश्च वर्तमानस्तु दण्डकः ।२४२.०६५
तत्र प्रयोगो डण्डस्य स्थानन्तुर्येण दर्शयेत् ॥२४२.०६५
स्याद्दण्डसमपक्षाभ्यामतिक्रान्तो दृढः स्मृतः ।२४२.०६६
भवेत्स पक्षकक्षाभ्यामतिक्रान्तः प्रदारकः ॥२४२.०६६
कक्षाभ्याञ्च प्रतिक्रान्तव्यूहोऽसह्यः स्मृतो यथा ।२४२.०६७
कक्षपक्षावधः स्थप्योरस्यैः कान्तश्च खातकः ॥२४२.०६७
द्वौ दण्डौ बलयः प्रोक्तो कान्तश्च खातकः ।२४२.०६८
दुर्जयश्चतुर्वलयः शत्रोर्बलविमर्दनः ॥२४२.०६८
कक्षपक्षौरस्यैर्भोगो विषयं परिवर्तयन् ।२४२.०६९

टिप्पणी

१ कोटिभ्यां परिकल्पयेदिति घ.. , ञ.. च

सर्पचारी गोमूत्रिका शर्कटः शकटाकृतिः ॥२४२.०६९
विपर्ययोऽमरः प्रोक्तः सर्वशत्रुविमर्दकः ।२४२.०७०
स्यात्कक्षपक्षोरस्यानामेकीभावस्तु मण्डलः ॥२४२.०७०
चक्रपद्मादयो भेदा मण्डलस्य प्रभेदकाः ।२४२.०७१
एवञ्च सर्वतोभद्रो वज्राक्षवरकाकवत् ॥२४२.०७१
अर्धचन्द्रश्च शृङ्गाटो ह्यचलो नामरूपतः(१) ।२४२.०७२
व्यूहा यथासुखं कर्याः शत्रूणां बलवारणाः ॥२४२.०७२
अग्निरुवाच
रामस्तु रावणं हत्वा अयोध्यां प्राप्तवान् द्विज ।२४२.०७३
रामोक्तनीत्येन्द्रजितं हतवांल्लक्ष्मणः पुरा ॥२४२.०७३

इत्याग्नेये महापुराणे रामोक्तराजनीतिर्नाम एकचत्वारिंशदधिकद्विशततमोऽध्यायः ॥

टिप्पणी


१ अस्मल्लब्धपुस्तकनां मध्ये क.. ज.. चिह्नितपुस्त्रकद्वये दण्डादिकतिपयव्यूहानां बिन्दुविन्यासैस्तत्तन्नामसमीपे आकृतयः प्रदर्शिताः , परन्तु ता अशुद्धा । ता यथा,दण्डव्यूहस्य ??? । प्रदारकस्य ??? । दृढव्यूहस्य ??? । असह्यव्यूहस्य ??? । खातकव्यूहस्य ??? । वलयव्यूहस्य ??? । दुर्जयव्यूहस्य ??? । भोगव्यूहस्य ??? । गोमूत्रिकाव्यूहस्य ??? । शकटव्यूहस्य ??? । अमरव्यूहस्य ??? । सर्वतोभद्रव्यूहस्य ???॥