अग्निपुराणम्/अध्यायः ६६

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
अग्निपुराणम्
















अथ षट्षष्टितमोऽध्यायः

साधारणप्रतिष्ठाविधानं
भगवानुवाच
समुदायप्रतिष्ठाञ्च वक्ष्ये सा वासुदेववत् ।६६.००१
आदित्या वसवो रुद्राः साध्या विश्वेऽश्विनौ तथा ॥६६.००१
ऋषयश्च तथा सर्वे वक्ष्ये तेषां विशेषकं ।६६.००२
यस्य देवस्य यन्नाम तस्याद्यं गृह्य चाक्षरं ॥६६.००२
मात्राभिर्भेदयित्वा तु दीर्घाण्यङ्गानि भेदयेत्(१) ।६६.००३
प्रथमं कल्पयेद्वीजं सविन्दुं प्रणवं नतिं(२) ॥६६.००३
सर्वेषां मूलमन्त्रेण पूजनं स्थापनं तथा ।६६.००४
नियमव्रतकृच्छ्राणां मठसङ्क्रमवेश्मनां ॥६६.००४
मासोपवासं द्वादश्यां इत्यादिस्थापनं वदे ।६६.००५
शिलां पूर्णघटं कांस्यं सम्भारं स्थापयेत्ततः ॥६६.००५
ब्रह्मकूर्चं समाहृत्य श्रपेद्यवमयं चरुं ।६६.००६
क्षीरेण कपिलायास्तु तद्विष्णोरिति साधकः ॥६६.००६
प्रणवेनाभिघार्यैव दर्व्या सङ्घट्टयेत्ततः ।६६.००७
साधयित्वावतार्याथ विष्णुमभ्यर्च्य होमयेत् ॥६६.००७
व्याहृता चैव गायत्र्या तद्विप्रासेति होमयेत् ।६६.००८
विश्वतश्चक्षुर्वेद्यैर्भूरग्नये तथैव च ॥६६.००८
सूर्याय प्रजापतये अन्तरिक्षाय होमयेत् ।६६.००९
द्यौः स्वाहा ब्रह्मणे स्वाहा पृथिवी महाराजकः ॥६६.००९
तस्मै सोमञ्च राजानं इन्द्राद्यैर्होममाचरेत् ।६६.०१०
टिप्पणी
१ अङ्गानि कल्पयेदिति ख, ङ, चिह्नितपुस्तकद्वयपाठः
२ प्रणवं गतिमिति ख, चिह्नितपुस्तकपाठः
एवं हुत्वा(१) चरोर्भागान् दद्याद्दिग्बलिमादरात् ॥६६.०१०
समिधोऽष्टशतं हुत्वा पालाशांश्चाज्यहोमकं ।६६.०११
कुर्यात्पुरुषसूक्तेन इरावती तिलाष्टकं ॥६६.०११
हुत्वा तु ब्रह्मविष्ण्वीशदेवानामनुयायिनां ।६६.०१२
ग्रहाणामाहुतीर्हुत्वा लोकेशानामथो पुनः ॥६६.०१२
पर्वतानां नदीनाञ्च समुद्राणां तथाऽऽहुतीः ।६६.०१३
हुत्वा च व्याहृतीर्दद्द्यात्स्रुवपूर्णाहुतित्रयं ॥६६.०१३
वौषडन्तेन मन्त्रेण वैष्णवेन पितामह ।६६.०१४
पञ्चगव्यं चरुं प्राश्य दत्वाचार्याय दक्षिणां ॥६६.०१४
तिलपात्रं हेमयुक्तं सवस्त्रं गामलङ्कृतां ।६६.०१५
प्रीयतां भगवान् विष्णुरित्युत्सृजेद्व्रतं बुधः ॥६६.०१५
मासोपवासादेरन्यां प्रतिष्ठां वच्मि पूर्णतः ।६६.०१६
यज्ञेनातोष्य देवेशं श्रपयेद्वैष्णवं चरुं ॥६६.०१६
तिलतण्डुलनीवारैः श्यामाकैरथवा यवैः ।६६.०१७
आज्येनाधार्य चोत्तार्य होमयेन्मूर्तिमन्त्रकैः ॥६६.०१७
विष्ण्वादीनां मासपानां तदन्ते होमयेत्पुनः ।६६.०१८
ओं विष्णवे स्वाहा । ओं विष्णवे(२) निभूयपाय स्वाहा । ओं विष्णवे शिपिविष्टाय स्वाहा । ओं नरसिंहाय स्वाहा । ओं पुरुषोत्तमाय स्वाहा
द्वादशाश्वत्थसमिधो होमयेद्घृतसम्प्लुताः ॥६६.०१८
विष्णो रराटमन्त्रेण ततो द्वादश चाहुतीः ।६६.०१९
टिप्पणी
१ एवं दत्वा इति ख, ङ, चिह्नितपुस्तकपाठः । एतान् दत्वा इति घ, चिह्नितपुस्तकपाठः
२ ओं विष्णवे प्रवृषाय स्वाहा इति घ, चिह्नितपुस्तकपाठः
इदं विष्णुरिरावती चरोर्द्वादश आहुतीः ॥६६.०१९
हुत्वा चाज्याहुतीस्तद्वत्तद्विप्रासेति होमयेत् ।६६.०२०
शेषहोमं ततः कृत्वा दद्यात्पूर्णाहुतित्रयं ॥६६.०२०
युञ्जतेत्यनुवाकन्तु(१) जप्त्वा प्राशीत वै चरुं ।६६.०२१
प्रणवेन स्वशब्दान्ते कृत्वा पात्रे तु पैप्पले ॥६६.०२१
ततो मासाधिपानान्तु विप्रान् द्वादश भोजयेत् ।६६.०२२
त्रयोदश गुरुस्तत्र तेभ्यो दद्यात्त्रयोदश ॥६६.०२२
कुम्भान् स्वाद्वम्बुसंयुक्तान्(२) सच्छत्रोपानहान्वितान् ।६६.०२३
गावः प्रीतिं समायान्तु प्रचरन्तु प्रहर्षिताः ।६६.०२४
इति गोपथमुत्सृज्य यूपं तत्र निवेशयेत् ॥६६.०२४
दशहस्तं प्रपाऽऽराममठसङ्क्रमणादिषु ।६६.०२५
गृहे च होममेवन्तु कृत्वा सर्वं यथाविधि ॥६६.०२५
पूर्वोक्तेन विधानेन प्रविशेच्च गृहं गृही ।६६.०२६
अनिवारितमन्नाद्यं सर्वेष्वेतेषु कारयेत् ॥६६.०२६
द्विजेभ्यो दक्षिणा देया यथाशक्त्या विचक्षणैः ।६६.०२७
आरामं कारयेद्यस्तु नन्दने स चिरं वसेत् ॥६६.०२७
मठप्रदानात्स्वर्लोके शक्रलोके वसेत्ततः ।६६.०२८
प्रपादानाद्वारुणेन सङ्क्रमेण वसेद्दिवि ॥६६.०२८
इष्टकासेतुकारी च गोलोके मार्गकृद्गवां ।६६.०२९
नियमव्रतकृद्विष्णुः कृच्छ्रकृत्सर्वपापहा ॥६६.०२९
गृहं दत्वा वसेत्स्वर्गे यावदाभूतसम्प्लवं ।६६.०३०
टिप्पणी
१ अञ्जतेत्यनुवाकस्तु इति ग, ङ, चिह्नितपुस्तकपाठः
२ स्वाद्वन्नसंयुक्तानिति ख, ग, घ, ङ, चिह्नितपुस्तकचतुष्टयपाठः
समुदायप्रतिष्ठेष्टा शिवादीनां गृहात्मनां ॥६६.०३०

इत्यादिमहापुराणे आग्नेये समुदायप्रतिष्ठाकथनं नाम षट्षष्टितमोऽध्यायः ॥