अग्निपुराणम्/अध्यायः २७

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
अग्निपुराणम्
















दीक्षाविघिकथनम् ।

नारद उवाच
वक्ष्ये दीक्षां सर्वदाञ्च मण्डलेब्जे हरिं यजेत् ।२७.००१
दशम्यामुपसंहृत्य यागद्रव्यं समस्तकं ॥२७.००१
विन्यस्य नारसिंहेन सम्मन्त्र्य शतवारकं ।२७.००२
सर्षपांस्तु फडन्तेन(१)[१] रक्षोघ्नान् सर्वतः क्षिपेत् ॥२७.००२
शक्तिं सर्वात्मकां तत्र न्यसेत्प्रासादरूपिणीं ।२७.००३
सर्वौषधिं समाहृत्य विकिरानभिमन्त्रयेत् ॥२७.००३
शतवारं शुभे पात्रे वासुदेवेन साधकः ।२७.००४
संसाध्य पण्जगव्यन्तु पञ्चभिर्मूलमूर्तिभिः ॥२७.००४
नारायणान्तैः सम्प्रोक्ष्य कुशाग्रैस्तेन तां भुवं(३)[२]।२७.००५
विकिरान्वासुदेवेन क्षिपेदुत्तानपाणिना ॥२७.००५
त्रिधा पूर्वमुखस्तिष्ठन् ध्यायेत्विष्णुं तथा हृदि ।२७.००६
वर्धन्या सहिते कुम्भे साङ्गं विष्णुं प्रपूजयेत् ॥२७.००६
शतवारं मन्त्रयित्वा त्वस्त्रेणैव च वर्धनीं ।२७.००७
अच्छिन्नधारया सिञ्चनीशानान्तं नयेच्च तं ॥२७.००७
कलसं पृष्ठतो नीत्वा स्थापयेद्विकिरोपरि ।२७.००८
संहृत्य विकिरान् दर्भैः कुम्भेशं कर्करीं यजेत् ॥२७.००८
सवस्त्रं पञ्चरत्नाढ्यं खण्डिले पूजयेद्धरिं ।२७.००९
अग्नावपि समभ्यर्च्य मन्त्रान् सञ्जप्य पूर्ववत् ॥२७.००९
प्रक्षाल्य पुण्डरीकेन विलिप्यान्तः सुगन्धिना ।२७.०१०
उखामाज्येन(१)[३] संपूर्य गोक्षीरेण तु साधकः ॥२७.०१०
आलोक्य वासुदेवेन(२)[४] ततः सङ्कर्षणेन च ।२७.०११
तण्डुलानाज्यसंसृष्टान् क्षिपेत्क्षीरे सुसंस्कृते ॥२७.०११
प्रद्युम्नेन स्मालोड्य दर्व्या सङ्घट्टयेच्छनैः ।२७.०१२
पक्वमुत्तारयेत्पश्चादनिरुद्धेन देशिकः ॥२७.०१२
प्रक्षाल्यालिप्य तत्कुर्यादूर्ध्वपुण्ड्रं तु भस्मना ।२७.०१३
नारायणेन पार्श्वेषु चरुमेवं सुसंस्कृतं ॥२७.०१३
भागमेकं तु देवाय कलशाय द्वितीयकं ।२७.०१४
तृतीयेन तु भागेन प्रदद्यादाहुतित्रयं ॥२७.०१४
शिष्यैः सह चतुर्थं तु गुरुरद्याद्विशुद्धये(३)[५] ।२७.०१५
नारायणेन सम्मन्त्र्य सप्तधा क्षीरवृक्षजम् ॥२७.०१५
दन्तकाष्ठं भक्षयित्वा त्यक्त्वा ज्ञात्वास्वपातकं ।२७.०१६
ऐन्द्राग्न्युत्तरकेशानीमुखं पतितमुत्तमं ॥२७.०१६
शुभं सिंहशतं हुत्वा(४)[६] आचम्याथ प्रविश्य च ।२७.०१७
पूजागारं न्यसेन्मन्त्री प्राच्यां विष्णुं प्रदक्षिणं ॥२७.०१७
संसारार्णवमग्नानां पशूनां पाशमुक्तये ।२७.०१८
त्वमेव शरणं देव सदा त्वं भक्तवत्सल ॥२७.०१८
देवदेवानुजानीहि प्राकृतैः पाशबन्धनैः ।२७.०१९
पाशितान्मोचयिष्यामि त्वत्प्रसादात्पशूनिमान् ॥२७.०१९
इति विज्ञाप्य देवेशं सम्प्रविश्य पशूंस्ततः ।२७.०२०
धारणाभिस्तु संशोध्य पूर्वज्ज्वलनादिना ॥२७.०२०
संस्कृत्य मूर्त्या संयोज्य(१)[७] नेत्रे बद्ध्वा प्रदर्शयेत् ।२७.०२१
पुष्पपूर्णाञ्जलींस्तत्र क्षिपेत्तन्नाम योजयेत् ॥२७.०२१
अमन्त्रमर्चनं तत्र पूर्ववत्कारयेत्क्रमात् ।२७.०२२
यस्यां मूर्तौ पतेत्पुष्पं तस्य तन्नाम निर्दिशेत् ॥२७.०२२
शिखान्तसम्मितं सूत्रं पादाङ्गुष्ठादि षड्गुणं ।२७.०२३
कन्यासु कर्तितं रक्तं(२)[८] पुनस्तत्त्रिगुणीकृतम् ॥२७.०२३
यस्यां संलीयते विश्वं यतो विश्वं प्रसूयते ।२७.०२४
प्रकृतिं प्रक्रियाभेदैः संस्थितां तत्र चिन्तयेत् ॥२७.०२४
तेन प्राकृतिकान् पाशान् ग्रथित्वा तत्त्वसङ्ख्यया(३)[९] ।२७.०२५
कृत्वा शरावे तत्सूत्रं कुण्डपार्श्वे निधाय तु(४)[१०] ॥२७.०२५
ततस्तत्त्वानि सर्वाणि ध्यात्वा शिष्यतनौ न्यसेत् ।२७.०२६
सृष्टिक्रमात्प्रकृत्यादिपृथिव्यन्तानि देशिकः ॥२७.०२६
तत्रैकधा पण्चधा स्याद्दशद्वादशधापि वा(४)[११] ।२७.०२७
ज्ञातव्यः सर्वभेदेन ग्रथितस्तत्त्वचिन्तकैः ॥२७.०२७
अङ्गैः पञ्चभिरध्वानं निखिलं विकृतिक्रमात् ।२७.०२८
तन्मात्रात्मनि संहृत्य मायासूत्रे पशोस्तनौ(१)[१२] ॥२७.०२८
प्रकृतिर्लिङ्गशक्तिश्च कर्ता बुद्धिस्तथा मनः ।२७.०२९
पञ्चतन्मात्रबुद्ध्याख्यं कर्माख्यं भूतपञ्चकं ॥२७.०२९
ध्यायेच्च द्वादशात्मानं सूत्रे देहे तथेच्छया ।२७.०३०
हुत्वा सम्पातविधिना सृष्टेः सृष्टिक्रमेण तु ॥२७.०३०
एकैकं शतहोमेन दत्त्वा पूर्णाहुतिं ततः ।२७.०३१
शरावे सम्पुटीकृत्य कुम्भेशाय निवेदयेत् ॥२७.०३१
अधिवास्य यथा न्यायं भक्तं शिष्यं तु दीक्षयेत् ।२७.०३२
करणीं कर्तरीं वापि(२)[१३] रजांसि खटिकामपि ॥२७.०३२
अन्यदप्युपयोगि स्यात्सर्वं तद्वायुगोचरे ।२७.०३३
संस्थाप्य मूलमन्त्रेण परामृश्याधिवाधिवासयेत् ॥२७.०३३
नमो भूतेभ्यश्च बलिः कुशे शेते स्मरन् हरिं ।२७.०३४
मण्डपं भूषयित्वाथ वितानघटलड्डुकैः(३)[१४] ॥२७.०३४
मण्डलेथ यजेद्विष्णुं ततः सन्तर्प्य पावकं ।२७.०३५
आहूय दीक्षयेच्छिष्यान् बद्धपद्मासनस्थितान् ॥२७.०३५
सम्मोक्ष्य विष्णुं हस्तेन मूर्धानं स्पृश्य वै क्रमात् ।२७.०३६
प्रकृत्यादिविकृत्यन्तां साधिभूताधिदैवतां ॥२७.०३६
सृष्टिमाध्यात्मिकीं कृत्वा हृदि तां संहरेत्क्रमात् ।२७.०३७
तन्मात्रभूतां सकलां जीवेन समतां गतां ॥२७.०३७
ततः सम्प्रार्थ्य कम्भेशं सूत्रं संहृत्य देशिकः ।२७.०३८
अग्नेः समीपमागत्य पार्श्वे तं सन्निवेश्य तु ॥२७.०३८
मूलमन्त्रेण सृष्टीशमाहुतीनां शतेन तं ।२७.०३९
उदासीनमथासाद्य पूर्णाहुत्या च देशिकः ॥२७.०३९
शुक्लं रजः समादाय मूलेन शतमन्त्रितं ।२७.०४०
सन्ताड्य हृदयन्तेन हुंफट्कारान्तसंयुतैः ॥२७.०४०
वियोगपदसंयुक्तैर्वीजैः पदादिभिः क्रमात् ।२७.०४१
पृथिव्यादीनि तत्त्वानि विश्लिष्य जुहुयात्ततः ॥२७.०४१
वह्नावखिलतत्त्वानामालये व्याहृते हरौ ।२७.०४२
नीयमानं क्रमात्सर्वं तत्राध्वानं स्मरेद्बुधः ॥२७.०४२
ताडनेन वियोज्यैवं(१)[१५] आदायापाद्य शाम्यतां ।२७.०४३
प्रकृत्याहृत्य जुहुयाद्यथोक्ते जातवेदसि ॥२७.०४३
गर्भाधानं जातकर्म भोगञ्चैव लयन्तथा ।२७.०४४
शुद्धं तत्त्वं समुद्धृत्य पूर्णाहुत्या तु देशिकः ।२७.०४५
सन्नयेद्द्विपरे तत्त्वे यावदव्याहृतं क्रमात् ॥२७.०४५
तत्परं ज्ञानयोगेन विलाप्य परमात्मनि ।२७.०४६
विमुक्तबन्धनं जीवं परस्मिन्नव्यये पदे ॥२७.०४६
निवृत्तं परमानन्दे शुद्धे बुद्धे स्मरेद्बुधः ।२७.०४७
दद्यात्पूर्णाहुतिं पश्चादेवं दीक्षा समाप्यते ॥२७.०४७
प्रयोगमन्त्रान् वक्ष्यामि यैर्दीक्षा होमसंलयः ।२७.०४८
ओं यं भूतानि विशुद्धं हुं फट्
अनेन ताडनं कुर्याद्वियोजनमिह द्वयं ॥२७.०४८
ओं यं भूतान्यापातयेहं
आदानं कृत्वा चानेन प्रकृत्या योजनं शृणु ।२७.०४९
ओं यं भूतानि पुंश्चाहो
होममन्त्रं प्रवक्ष्यामि ततः पूर्णाहुतेर्मनुं ॥२७.०४९
ओं भूतानि संहर स्वाहा । ओं अं ओं नमो भगवते वासुदेवाय वौषट्
पूर्णाहुत्यनन्तरे तु तद्वै शिष्यन्तु साधयेत्(१)[१६] ।२७.०५०
एवं तत्त्वानि सर्वाणि क्रमात्संशोधयेद्बुधः ॥२७.०५०
नमोन्तेन स्वबीजेन ताडनादिपुरःसरम् ।२७.०५१
ओं वां वर्मेन्द्रियाणि । ओं दें बुद्धीन्द्रियाणि
यं बीजेन समानन्तु ताडनादिप्रयोगकम् ॥२७.०५१
ओं सुंगन्धतन्मात्रे वियुङ्क्ष्व हुं फट् । ओं सम्पाहिं हा(२)[१७] ॥ ओं खं खं क्ष प्रकृत्या(३)[१८] । ओं सुं हुं गन्धतन्मात्रे संहर स्वाहा
ततः पूर्णाहुतिश्चैवमुत्तरेषु प्रयुज्यते ।२७.०५२
ओं रां रसतन्मात्रे । ओं भें रूपतन्मात्रे । ओं रं स्पर्शतन्मात्रे । ओं एं शब्दतन्मात्रे । ओं भं नमः । ओं सों अहङ्कारः । ओं नं बुद्धे । ओं ओं प्रकृते
एकमूर्तावयं प्रोक्तो दीक्षायोगः समासतः ।२७.०५२
एवमेव प्रयोगस्तु नवव्यूहादिके स्मृतः ॥२७.०५२
दग्धापरस्मिन् सन्दध्यान्निर्वाणे प्रकृतिन्नरः ।२७.०५३
अविकारे समादध्यादीश्वरे प्रकृतिन्नरः ॥२७.०५३
शोधयित्वाथ भुतानि कर्माङ्गानि(४)[१९] विशोधयेत् ।२७.०५४
बुद्ध्याख्यान्यथ तन्मात्रमनोज्ञानमहङ्कृतिं ॥२७.०५४
लिङ्गात्मानं विशोध्यान्ते प्रकृतिं शोधायेत्पुनः ।२७.०५५
पुरुषं प्राकृतं शुद्धमीश्वरे धाम्नि संस्थितं ॥२७.०५५
स्वगोचरीकृताशेषभोगमुक्तौ कृतास्पदं ।२७.०५६
ध्यायन् पूर्णाहुतिं दद्याद्दीक्षेयं त्वधिकारिणी ॥२७.०५६
अङ्गैराराध्य मन्त्रस्य नीत्वा तत्त्वगणं समं ।२७.०५७
क्रमादेवं विशोध्यान्ते सर्वसिद्धिसमन्वितं ॥२७.०५७
ध्यायन् पूर्णाहितिं दद्यात्दीक्षेयं साधके स्मृता ।२७.०५८
द्रव्यस्य वा न सम्पत्तिरशक्तिर्वात्मनो यदि ॥२७.०५८
इष्ट्वा देवं यथा पूर्वं सर्वोपकरणान्वितं ।२७.०५९
सद्योधिवास्य द्वादश्यां दीक्षयेद्देशिकोत्तमः ॥२७.०५९
भक्तो विनीतः शारीरैर्गुणैः सर्वैः समन्वितः ।२७.०६०
शिष्यो नातिधनी यस्तु स्थण्डिलेभ्यर्च्य दीक्षयेत् ॥२७.०६०
अध्वानं निखिलं दैवं(२)[२०] भौतं वाध्यात्मिकी कृतं ।२७.०६१
सृष्टिक्रमेण शिष्यस्य देहे ध्यात्वा तु देशिकः ॥२७.०६१
अष्टाष्टाहुतिभिः पूर्वं क्रमात्सन्तर्प्य सृष्टिमान् ।२७.०६२
स्वमन्त्रैर्वासुदेवादीन् जननादीन् विसर्जयेत्(२)[२१] ॥२७.०६२
होमेन शोधयेत्पश्चात्संहारक्रमयोगतः ।२७.०६३
योनिसूत्राणि बद्धानि मुक्त्वा कर्माणि देशिकः ॥२७.०६३
शिष्यदेहात्समाहृत्य क्रमात्तत्त्वानि शोधयेत् ।२७.०६४
अग्नौ प्राकृतिके विष्णौ लयं नीत्वाधिदैवके ॥२७.०६४
शुद्धं तत्त्वमशुद्धेन पूर्णाहुत्या तु साधयेत्(३)[२२] ।२७.०६५
शिष्ये प्रकृतिमापन्ने दग्ध्वा प्राकृतिकान् गुणान् ॥२७.०६५
मौचयेदधिकारे वा नियुञ्ज्याद्देशिकः शिशून्(१)[२३] ।२७.०६६
अथान्यान् शक्तिदीक्षां वा कुर्यात्भावे स्थितो गुरुः ॥२७.०६६
भक्त्या सम्प्रातिपन्नानां यतीनां निर्धनस्य च ।२७.०६७
सम्पूज्य स्थण्डिले विष्णुं पार्श्वस्थं स्थाप्य पुत्रकं ॥२७.०६७
देवताभिमुखः शिष्यस्तिर्यगास्यः स्वयं स्थितः ।२७.०६८
अध्वानं निखिलं ध्यात्वा पर्वभिः स्वैर्विकल्पितं ॥२७.०६८
शिष्यदेहे तथा देवमाधिदैविकयाचनं ।२७.०६९
ध्यानयोगेन सञ्चिन्त्य पूर्ववत्ताडनादिना ॥२७.०६९
क्रमात्तत्त्वानि सर्वाणि शोधयेत्स्थण्डिले हरौ ।२७.०७०
ताडनेन वियोज्याथ गृहीत्वात्मनि तत्परः(२)[२४] ॥२७.०७०
देवे संयोज्य संशोध्य गृहीत्वा तत्स्वभावतः ।२७.०७१
आनीय शुद्धभावेन सन्धयित्वा क्रमेण तु ॥२७.०७१
शोधयेद्ध्यानयोगेन सर्वतो ज्ञानमुद्रया ।२७.०७२
शुद्धेषु सर्वतत्त्वेषु प्रधाने चेश्वरे स्थिते ॥२७.०७२
दग्ध्वा निर्वापयेच्छिष्यान् पदे चैशे नियोजयेत् ।२७.०७३
निनयेत्सिद्धिमार्गे वा साधकं देशिकोत्तमः ॥२७.०७३
एवमेवाधिकारस्थो गृही कर्मण्यतन्द्रितः ।२७.०७४
आत्मानं शोधयंस्तिष्ठेद्यावद्रागक्षयो भवेत् ॥२७.०७४
क्षीणरागमथात्मानं ज्ञात्वा संशुद्धिकिल्विषः ।२७.०७५
आरोप्य पुत्रे शिष्ये वा ह्यधिकारन्तु संयमी ॥२७.०७५
दग्ध्वा मायामयं पाशं प्रव्रज्य स्वात्मनि स्थितः ।२७.०७६
शरीरपातमाकाङ्क्षन्नासीताव्यक्तलिङ्गवान् ॥२७.०७६

इत्यादिमहापुराणे आग्नेये सर्वदीक्षाकथनं नाम सप्तविंशोध्यायः

  1. सर्षपांस्तद्वदस्त्रेण इति ङ, चिह्नितपुस्तकपाठः
  2. कुशाग्रेणैव तां भुवमिति ङ, चिह्नितपुस्तकपाट्ःः
  3. उत्थायाज्येनेति ख, चिह्नितपुस्तकपाठः
  4. आलोड्य वासुदेवेन इति ख, चिह्नितपुस्तकपाठः
  5. विवृद्धये इति ङ, चिह्नितपुस्तकपाठः
  6. शुभं सिद्धमिति ज्ञात्वा ङ, चिह्नितपुस्तकपाठः
  7. मूर्त्या सम्प्रोक्ष्य इति ङ, चिह्नितपुस्तकपाठः
  8. सूत्रमिति ङ, चिह्नितपुस्तकपाठः
  9. तत्र सङ्ख्यया इति ख, ग, घ, चिह्नितपुस्तकत्रयपाठः
  10. निधीयते इति घ, ङ, चिह्नितपुस्तकद्वयपाठः
  11. तत्रार्चा पञ्चधा निधीयते इति घ, ङ, चिह्नितपुस्तकद्वयपाठःया स्यादङ्गैर्द्वादशधापि वेति ख, चिह्नितपुस्तकपाठः । तत्रात्मा पञ्चधा वा स्यात्दशद्वदशधापिवेति घ, ङ, चिह्नितपुस्तकद्वयपाठः
  12. मायासूत्रे सुशोभने इति ङ, चिह्नितपुस्तकपाठः
  13. करालं कर्तरीञ्चापि इति ख, ग, चिह्नितपुस्तकद्वयपाठः
  14. वितानभवगन्धकैरिति ख, चिह्नितपुस्तकपाठः । वितानपटकेन्द्रियैरिति ग, घ, चिह्नितपुस्तकद्वयपाठः
    पृष्ठ ७४
  15. ताडनेन विमोक्ष्यैवमिति ख, चिह्नितपुस्तकपाठः
  16. तद्वै शिष्यन्तुसन्नयेदिति ख, घ, ङ, चिह्नितपुस्तकत्रयपाठः
  17. ओं सुं आयाहि हामिति ख,चिह्नितपुस्तकपाठः ओं सं पाहि स्वाहा इति ग, ङ, चिह्नितपुस्तकद्वयपाठः
  18. अं दुं स्त्व प्रकृत्या इति ओं खं खं स्त्व प्रकृत्या इति च ख, चिह्नितपुस्तकपाठः
  19. कर्माख्यानि च शोधयेदिति घ, ङ, चिह्नितपुस्तकद्वयपाठः
  20. लिखितं दैवमिति ख, चिह्नितपुस्तकपाठः
  21. पूजां कृत्वा विसर्जयेदिति घ, चिह्नितपुस्तकपाठः विमलादीन् विसर्जयेदिति ङ, चिह्नितपुस्तकपाठः
  22. पूर्णाहुत्या तु सन्नयेदिति ख, घ, चिह्नितपुस्तकद्वयपाठः
  23. पशूनिति घ, चिह्नितपुस्तकपाठः
  24. तत्पुनरिति ख, ग, घ, ङ, चिह्नितपुस्तकचतुष्टयपाठः