अग्निपुराणम्/अध्यायः ३३
पवित्रारोहणविधानम्
[सम्पाद्यताम्]अग्निरुवाच
पवित्रारोहणं वक्ष्ये वर्षपूजाफलं हरेः।
आषाढादौ कार्तिकान्ते प्रतिपद्धनदा तिथिः ।। १ ।।
श्रिया गौर्या गणेशस्य सरस्वत्या गुहस्य च।
मार्त्तण्डमातृदुर्गाणां नागर्षिहरिमन्मथैः ।। २ ।।
शिवस्य ब्रह्मणस्तद्वद्द्वितीयादितिथेः क्रमात्।
यस्य देवस्य यो भक्तः पवित्रा तस्य सा तिथिः ।। ३ ।।
आरोहणे तुल्यविधिः पृथक् मन्त्रादिकं यदि।
सौवर्णं राजतं ताम्रं नेत्रकार्प्पासकादिकम् ।। ४ ।।
ब्राह्मण्या कर्त्तितं सूत्रं तदलाभे तु संस्कृतम्।
त्रिगुणं त्रिगुणीकृत्य तेन कुर्य्यात् पवित्रकम् ।। ५ ।।
अष्टोत्तरशतादूर्द्ध्वं तदर्द्धं चोत्तमादिकम्।
क्रियालोपविधानार्थं यत्त्वयाभिहितं प्रभो ।। ६ ।।
मया तत् क्रियते देव यथा यत्र पवित्रकम्।
अविध्नं तु भवेदत्र कुरु नाथ जयाव्यय ।। ७ ।।
प्रार्थ्य तन्मण्डलायादौ गायत्र्या बन्धयेन्नरः।
ओं नारायणाय विद्महे वासुदेवाय धीमहि ।। ८ ।।
तन्नो विष्णुः प्रचोदयात् देवदेवानुरूपतः।
जानूरुनाभिनासान्तं प्रतिमासु पवित्रकम् ।। ९ ।।
पादान्ता वनमाला स्यादष्टोत्तरसहस्रतः ।
मालां तु कल्पसाध्यां वा द्विगुणं षोडशाङ्गुलाम् ।। १० ।।
कर्णिका केशरं पत्रं मन्त्राद्यं मण्डलान्तकम्।
मण्डलाङ्गुलमात्रैकचक्राब्जाद्यौ पवित्रकम् ।। ११ ।।
स्थण्डिलेऽङ्गुलमानेन आत्मनः सप्तविंशतिः।
आचार्य्याणां च सूत्राणि पितृमात्रादिपुस्तके ।। १२ ।।
नाभ्यन्तं द्वादशग्रन्थिं तथा गन्धपवित्रके।
द्व्यङ्गुलात् कल्पनादौ द्विर्माला चाष्टोत्तरं शतम् ।। १३ ।।
अथवार्कचतुर्विंशषट्त्रिंशन्मालिका द्विजः।
अनामामध्यमाङ्गुष्ठैर्मन्दाद्यैः मालिकार्थिभिः ।। १४ ।।
कनिष्ठा दौ द्वादश वा ग्रन्थयः स्युः पवित्रके।
रवेः कुम्भहुताशादेः सम्भवे विष्णुवन्मतम् ।। १५ ।।
पीठस्य पीठमानं स्यान्मेखलान्ते च कुण्डके।
यथाशक्ति सूत्रग्रन्थिः परिचारेथ वैष्णवे ।। १६ ।।
सूत्राणि वा सप्तदश सूत्रेण त्रिविभक्तके ।
रोचनागुरुकर्पूरहरिद्राकुङ्कुमादिभिः ।। १७ ।।
रञ्जयेच्चन्दनाद्यैर्वा स्नानसन्ध्यादिकृन्नरः।
एकादश्यां यागगृहे भगवंतं हरिं यजेत्॥१८॥
समस्तपरिवाराय बलिं पीठे समर्चयेत्।
क्षौं क्षेत्रपालाय द्वारान्ते द्वारोपरि तथा श्रियम् ।। १९ ।।
धात्रे दक्षे विधात्रे च गङ्गाञ्च यमुनां तथा।
शङ्खपद्मनिधी पूज्य मध्ये वास्त्वपसारणम् ।। २० ।।
सारङ्गायेति भूतानां भूतशुद्धिं स्थितश्चरेत् ।। २० ।।
ओं ह्रूं हः फट् ह्रं गन्धतन्मात्रं संहरामि नमः ।।
ओं ह्रूं हः फट् ह्रूं रसतन्मात्रं संहरामि नमः ।
ओं ह्रूं हः फट् ह्रुं रूपतन्मात्रं संहरामि नमः ।।
ओं ह्रूं हः फट् ह्रूं स्पर्शतन्मात्रं संहरामि नमः ।
ओं ह्रूं हः फट् ह्रूं शब्दतन्मात्रं संहरामि नमः ।।
पञ्चोद्घातैर्गन्धतन्मात्ररूपं भूमिमण्डलम्।
चतुरस्रञ्च पीतञ्च कठिनं वज्रलाञ्छितम् ।। २१ ।।
इन्द्राधिदैवतं पादयुग्ममध्यगतं स्मरेत्।
शुद्धञ्च रसतन्मात्रं प्रविलिप्याथ संहरेत् ।।
रसमात्ररूपमात्रे क्रमेणानेन पूजकः ।। २२ ।।
ओं ह्रीं हः फट् ह्रूं रसतन्मात्रं संहरामि नमः ।।
ओं ह्रूं हः फट् रूपतन्मात्रं संहरामि नमः।
ओं ह्रीं हः फट् ह्रूं स्पर्शतन्मात्रं संहरामि नमः ।।
ओं ह्रीं हः फट् ह्रूं शब्दतन्मात्रं संहरामि नमः।
जानुनाभिमध्यगतं श्वेतं वै पद्मलाञ्छितम्।
शुवलवर्णं चार्द्धचन्द्रं ध्यायेद्वरुणदैवतम् ।। २३ ।।
चतुर्भश्च तदुद्घातैः शुद्धं तद्रसमात्रकम्।
संहरेद्रूपतन्मात्रै रूपमात्रे च संहरेन् ।। २४ ।।
ओं ह्रूं हः फट् ह्रूं पूतन्मात्रं संहरामि नमः।
ह्रूं हः फट् ह्रूं स्पर्शतन्मात्रं संहरामि नमः ।.
ओं ह्रूं हः फट् ह्रूं शब्दतन्मात्रं संहरामि नमः ।
इति त्रिभिस्तदुद्घातैस्त्रिकोणं वह्निमण्डलम्।
नाभिकण्ठमध्यगतं रक्तं स्वस्तिकलाञ्छितम् ।। २५ ।।
ध्यात्वानलाधिदैवन्तच्छुद्धं स्पर्शे लयं नयेत्।
ओं ह्रौं हः फट् ह्रूं स्पर्शतन्मात्रं संहरामि नमः।
ओं ह्रौं हः फट् ह्रूं शब्दतन्मात्रं संहरामि नमः ।।
कण्ठनासामध्यगतं वृत्तं वै वायुमण्डलम् ।। २६ ।।
द्विरुद्घातैर्धूम्रवर्णं ध्यायेच्छुद्धेन्दुलाञ्छितम्।
स्पर्शमात्रं शब्दमात्रैः संहरेद्ध्यानयोगतः ।। २७ ।।
ओं ह्रौं हः फट् ह्रूं शब्दतन्मात्रं संहरामि नमः।
एकोद्घातेन चाकाशं शुद्धस्फटिकसन्निभम्।
नासापुटशिखान्तस्थमाकाशामुपसंहरेत् ।। २८ ।।
शोषणाद्यैर्द्देशुद्धिं कुर्यादेवं क्रमात्तः।
शुष्कं कलेवरं ध्यायेत् पादाद्यञ्च शिखान्तकम् ।। २९ ।।
यं बीजेन वं बीजेन ज्वालामालासमायुतम् ।
देहं रमित्यनेनैव ब्रह्मरन्ध्राद्विनिर्गतम् ।। ३० ।।
बिन्दुन्ध्यात्वा चामृतस्य तेन भस्म कलेवरम्।
सम्प्लावयेल्लमित्यस्मात् देहं सम्पाद्य दिव्यकम् ।। ३१ ।।
न्यासं कृत्वा करे देहे मानसं यागमाचरेत्।
विष्णुं साङ्गं हृदि पद्मे मानसैः कुसुमादिभि। ।। ३२ ।।
मूलमन्त्रेण देवेशम्प्रार्च्चयेद्भुक्तिमुक्तिदम्।
स्वागतं देवदेवेश सन्निधौ भव केशव ।। ३३ ।।
गृहाण मानसीं पूजां यथार्थं परिभाविताम्।
आधारशक्तिः कूर्माथ पूज्योनन्तो मही ततः ।। ३४ ।।
मध्येग्न्यादौ च धर्माद्या अधर्मादीन्द्रमुख्यगम् ।
सत्त्वादि मध्ये पद्मञ्च मायाविद्याख्यतत्त्वके ।। ३५ ।।
कालतत्त्वञ्च सूर्यादिमण्डलं पक्षिराजकः।
मध्ये ततश्च वायव्यादीशान्ता गुरुपङ्क्तिकाः ।। ३६ ।।
गणः सरस्वती पूज्या नारदो नलकूबरः।
गुरुर्गरुपादुका च परो गुरुश्च पादुका ।। ३७ ।।
पूर्वसिद्धाः परसिद्धाः केशरेषु च शक्तयः।
लक्ष्मीः सरस्वती प्रीतिः कीर्त्तिः शान्तिश्च कान्तिका ।। ३८ ।।
पुष्टिस्तुष्टिर्म्महेन्द्राद्या मध्ये चावाहितो हरिः ।
धृतिः श्रीरतिकान्त्याद्या मूलेन स्थापितोऽच्युतः ।। ३९ ।।
ओं अभिमुखो भवेत् प्रार्थ्य प्राच्यां सन्निहितो भव।
विन्यस्यार्घ्यादिकं दत्त्वा गन्धाद्यैर्मूलतो यजेत् ।। ४० ।।
ओं भीषय भीषय हृत् शिरस्त्रासय वै पुनः।
मर्द्दय मर्द्दय शिखा अग्न्यादौ शस्त्रतोस्त्रकं ।। ४१ ।।
रक्ष रक्ष प्रध्वंसय प्रध्वंसय कवचाय नमस्ततः।
ओं ह्रूं फट् अस्त्राय नमो मूलबीजेन चाङ्गकम् ।। ४२ ।।
पूर्व्वदक्षाप्यसौम्येषु मूर्त्त्यावरणमर्च्चयेत्।
वासुदेवः सङ्कर्षणः प्रद्युम्नश्चानिरुद्धकः ।। ४३ ।।
अग्न्यादौ श्रीधृतिरतिकान्तयो मूर्त्तयो हरेः।
शङ्खचक्रगदापद्ममग्न्यादौ पूर्व्वकादिकम् ।। ४४ ।।
शार्ङ्गञ्च मुषलं खङ्गं वनमालाञ्च तद्बहिः।
इन्द्राद्याश्च तथानन्तो नैर्ऋत्यां वरुणस्ततः ।। ४५ ।।
ब्रह्नेन्द्रेशानयोर्मध्ये अस्त्रावरणकं बहिः।
ऐरावतस्ततश्छागो महिषो वानरो झषः ।। ४६ ।।
मृगः शशोऽथ वृषभः कूर्म्मो हंसस्ततो बहिः।
पृश्निगर्भः कुमुदाद्या द्वारपाला द्वयं द्वयम् ।। ४७ ।।
पूर्व्वाद्युत्तरद्वारान्तं हरिं नत्वा बलिं बहिः।
विष्णुपार्षदेभ्यो नमो बलिपीठे बलिं ददेत् ।। ४८ ।।
विश्वाय विश्वक्सेनात्मने ईशानके यजेत्।
देवस्य दक्षिणे हस्ते रक्षासूत्रञ्च बन्धयेत् ।। ४९ ।।
संवत्सरकृतार्चायाः सम्पूर्णफलदायिने।
पवित्रारोहणायेदं कौतुकं धारय ओं नमः ।। ५० ।।
उपवासादिनियमं कुर्याद्वै देवसन्निधौ।
उपवासादिनियतो देवं सन्तोषयाम्यहम् ।। ५१ ।।
कामक्रोधादयः सर्वे मा मे तिष्ठन्तु सर्वथा।
अद्यप्रभृति देवेश यावद्वैशेषिकं दिनम् ।। ५२ ।।
यजमानो ह्यशक्तश्चेत् कुर्य्यान्नक्तादिकं व्रती।
हुत्वा विसर्जयेत् स्तुत्वा श्रीकरन्नित्यपूजनम् ।।
ओं ह्रीं श्रीं श्रीधराय त्रैलोक्यमोहनाय नमः ।। ५३ ।।
इत्यादिमहापुराणे आग्नेये पवित्रारोहणे श्रीधरनित्यपूजाकथनं नाम त्रयर्स्त्रिंशोऽध्यायः ।