अग्निपुराणम्/अध्यायः ३१५

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
अग्निपुराणम्
















स्तम्भनादिमन्त्राः[सम्पाद्यताम्]

अग्निरुवाच
स्तम्भनं मोहनं वश्यं विद्वेषोच्चाटनं वदे ।
विचषव्याधिमरोगञ्च मारणं शमनं पुनः ।। ३१५.१ ।।

भूर्ज्जे कूर्म्मं समालिख्य नाड़नेन षडङ्गुलम् ।
मुखपादचतुष्केषु ततो मन्त्रं न्यसेद्‌द्विजः ।। ३१५.२ ।।

चतुष्पादेषु क्रीँकारं ह्रीँकारं मुखमध्यतः ।
गर्भे विद्यां ततो लिख्य साधकं पृष्ठतो लिखेत् ।। ३१५.३ ।।

मालामन्त्रैस्तु संवेट्य इष्टकोपरि सन्न्यसेत् ।
पिधाय कूर्म्मपृष्ठेन करालेनाभिसम्पठेत् ।। ३१५.४ ।।

महाकूर्म्मं पूजयित्वा पादप्रोक्षन्तु निक्षइपेत् ।
ताडयेद्वामपादेन स्मृत्वा शत्रुञ्च सप्तधा ।। ३१५.५ ।।

ततः सञ्जायते शत्रोस्तम्भनं मुखरागतः ।
कृत्वा तु भैरवं रूपं मालामन्त्रं समालिखेत् ।। ३१५.६ ।।

ओं शत्रुमुखस्तम्भनी कामरूपा आलीढक्करी ।।
ह्रीं फें फेत्कारिणी मम शत्रूणां देवदत्तानां मुखं स्तम्भय
मम सर्व्वविद्वेषिणां मुखस्तम्भनं कुरु ओं हूँ फेँ फेत्कारिणि स्वाहा ।
फट् हेतुञ्च समालिख्य तज्जपान्तं महाबलं ।
वामेनैव नगं शूलं संलिखेद्दक्षिणे करे ।। ३१५.७ ।।

लिखेन्मन्त्रमघोरस्य संग्रामे स्तम्भयेदरीन् ।
ओं नमो भगवत्यै भगमालिनि निस्फुर स्पन्द नित्यक्लिन्ने द्रव
हूँ सः क्रीँ काराक्षरे स्वाहा ।।
एतेन रोचनाद्यैस्तु तिलकान्मोहयेज्जगत् ।। ३१५.८ ।।

ओं फेँ हूँ फट् फेत्कारिणि ह्रीँ ज्वल त्रैलोक्यं मोहय गुह्यकालिके स्वाहा ।
अनेन तिलकं कृत्वा राजादीनां वशीकरं ।
गर्द्धभस्य रजो गृह्य कुसुमं सूतकस्य च ।। ३१५.९ ।।

नीरीरजः क्षिपेद्रात्रौ शय्यादौ द्वेषकृद्भवेत् ।
गोखुरञ्च तथा श्रृङ्गमश्वस्य च खुरं तथा ।। ३१५.१० ।।

शिरः सर्पस्य संक्षिप्तं गृहेपूच्चाटनं भवेत् ।
करवीरशिफा पीता ससिद्दार्था च मारणे ।। ३१५.११ ।।

व्यालछुच्छुन्दरीरक्तं करवीरं तदर्थकृत् ।
सरटं षट्‌पदञ्चापि तथा कर्क्कटवृश्चिकम् ।। ३१५.१२ ।।

चुर्णीकृत्य क्षिपेत्तैले तदभ्यङ्गश्च कुष्ठकृत् ।
ओं नवग्रहाय सर्त्र्वशत्रून् मम साधय मारय आं सों मं वुं चुं ओं शं वां कें
ओं स्वाहा ।
अनेनार्क्कशतैरर्च्य श्मशाने तु निधापयेत् ।। ३१५.१३ ।।

भूर्ज्जे वा प्रतिमायां वा मारणाय रिपोर्ग्रहाः ।
ओं कुञ्जरी ब्रह्माणी । ओं मञ्जरी माहेश्वरी ।।
ओं वेताली कौमारी ओं काली वैष्णवी ।
ओं अघोरा वारही । ओं वेताली इन्द्राणी उर्व्वशी । ओं जयानी यक्षिणी ।
नवमातरो हे मम शत्रु गृह्णत ।
भूर्ज्जे नाम रिपोर्लिख्य श्मशाने पूजिते म्रियेत् ।। ३१५.१४ ।।

इत्यादिमहापुराणे आग्नेये स्तम्भनादिमन्त्रा नाम पञ्चदशाधिकत्रिशततमोऽध्यायः ।।