अग्निपुराणम्/अध्यायः ११३

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ

नर्मदादिमाहात्म्यम्

अग्निरुवाच
नर्मदादिकमाहात्म्यं वक्ष्येहं नर्मदां परां(१) ।११३.००१
सद्यः पुनाति गाङ्गेयं दर्शनाद्वारि नार्मदं ॥११३.००१
विस्तराद्योजनशतं योजनद्वयमायता ।११३.००२
षष्टिस्तीर्थसहस्राणि षष्टिकोट्यस्तथापराः ॥११३.००२
पर्वतस्य समन्तात्तु तिष्ठन्त्यमरकण्टके(२) ।११३.००३
कावेरीसङ्गमं पुण्यं श्रीपर्वतमतः शृणु ॥११३.००३
गौरी श्रीरूपिणी तेपे तपस्तामब्रवीद्धरिः(३) ।११३.००४
अवाप्स्यसि त्वमध्यात्म्यं नाम्ना श्रीपर्वतस्तव ॥११३.००४
समन्ताद्योजनशतं महापुण्यं भविष्यति ।११३.००५
अत्र दानन्तपो जप्यं(४) श्राद्धं सर्वमथाक्षयं(५) ॥११३.००५
टिप्पणी
१ नर्मदापरमिति झ..
२ निर्यान्त्यमरकण्टके इति झ..
३ तपस्तामब्रवीद्धर इति ग..
४ अत्र दानं तथा जप्यमिति झ..
५ सर्वमथाक्षरमिति ख.. , छ.. च

मरणं शिवलोकाय सर्वदं तीर्थमुत्तमं ।११३.००६
हरोऽत्र क्रीडते देव्या हिरण्यकशिपुस्तथा ॥११३.००६
तपस्तप्त्वा बली चाभून्मुनयः सिद्धिमाप्नुवन्(१) ।११३.००७

इत्याग्नेये महापुराणे नर्मदाश्रीपर्वतादिमाहात्म्यं नाम त्रयोदशाधिकशततमोऽध्यायः ॥