अग्निपुराणम्/अध्यायः २५३

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
अग्निपुराणम्
















व्यवहारकथनम्[सम्पाद्यताम्]

अग्निरुवाच
व्यवहारं प्रवक्षअयामि नयानयविवेकदं ।
चतुष्पाच्च चतुःस्थानश्चतुःसाधन उच्यते ।। २५३.१ ।।

चतुर्हितश्चतुर्व्यापी चतुष्कारी चकीत्तर्यते ।
अष्टाह्गोऽष्टादशपदः शतशाखस्तथैव च ।। २५३.२ ।।

त्रियोनिर्द्व्यभियोगश्च द्विद्वारो द्विगतिस्तथा ।
धर्मश्च व्यवहारश्च चरित्रं राजशासनं ।। २५३.३ ।।

चतुष्पाद्व्यवहाराणामुत्तरः पूर्वसाधकः ।
तत्र सत्ये स्थितो धर्मो ब्यवहारस्तु साक्षिषु ।। २५३.४ ।।

चरित्रं सङ्‌ग्रहे पुंसां राजाज्ञायान्तु शासनं ।
सामाभ्युपायसाध्यत्वाच्चतुःसाधन उच्यते ।। २५३.५ ।।

चतुर्णामाश्रमाणाञ्च रक्षणात्स चतुर्हितः ।
कर्त्तारं साक्षइणश्चैव सत्यान्राजानमेव च ।। २५३.६ ।।

व्याप्नोते पादगो यस्माच्चतुर्व्यापी ततः स्मृतः ।
धर्मस्यार्थस्य यशसो लोकपङक्तेस्तथैव च ।। २५३.७ ।।

चतुर्णाङ्करणादेष चतुष्कारी प्रकीर्त्तितः ।
राजा स पुरुषः सभ्याः शास्त्रं गणकलेखकौ ।। २५३.८ ।।

हिरण्यमग्निरुदकमष्टाङ्गः समुदाहृतः ।
कामात् क्रोधाच्च लोभाच्च त्रिभ्यो यस्मात् प्रवर्त्तते ।। २५३.९ ।।

त्रियोनिः कीर्त्यते तेन त्रयमेतद्विवादकृत् ।
द्व्यभियोगस्तु विज्ञेयः शङ्कातत्त्वाभियोगतः ।। २५३.१० ।।

शङ्काषड्‌भिस्तु संसर्गात्तत्त्वषोढ़ादिदर्शणात् ।
पज्ञद्वयाभिसम्बन्धाद्‌द्विद्वारः समुदाहृतः ।। २५३.११ ।।

पूर्ववादस्तयोः पक्षः प्रतिपक्षस्त्वनन्तरः ।
भूतच्छलानुसारित्वाद्‌द्विगतिः समुदाहृता ।। २५३.१२ ।।

ऋणन्देयमदेयञ्च येन यत्र यथा च यत् ।
दानग्रहणघर्मश्च ऋणादानमिति स्मृतम् ।। २५३.१३ ।।

स्वद्रव्यं यत्र विश्रम्भान्निक्षिपत्यविशङ्कितः ।
निक्षएपन्नामतत् प्रोक्तं व्यवहारपदम्बुधैः ।। २५३.१४ ।।

वणिक्प्रभृतयो यत्र कर्म सम्भूय कुर्वते ।
तत्सम्भूयसमुत्थानं व्यवहारपदं विदुः ।। २५३.१५ ।।

दत्त्वा द्रव्यञ्च चसम्यग्यः पुनरादातुमिच्छति ।
दत्त्वाप्रदानिकं नाम तद्विवादपदं स्मृतम् ।। २५३.१६ ।।

अभ्युपेत्य च शुश्रूषां यस्तां न प्रतिपद्यते ।
अशुश्रूषाब्युपेत्यैतद्विवादपदमुच्यते ।। २५३.१७ ।।

भृत्यानां वेतनस्योक्तादानादानविधिक्रिया ।
वेतनस्यानपाकर्म तद्विवादपदं स्मृतम् ।। २५३.१८ ।।

निक्षिप्तं वा परद्रव्यं नष्टं लब्ध्वा प्रहृत्य वा ।
विक्रीयते परोक्षं यत् स ज्ञेयोऽस्वामिविक्रयः ।। २५३.१९ ।।

विक्रीय पण्यं मूल्येन क्रेत्रे यञ्च न दीयते ।
विक्रीयासम्प्रदानन्तद्विवादपदमुच्यते ।। २५३.२० ।।

क्रीत्वा मूल्येन यत्पण्यं क्रेता न बहु मन्यते ।
क्रीत्वा मूल्येन यत् पण्यं दुष्क्रीतं मन्यतेक्रयी ।। २५३.२१ ।।

पाखण्डनैगमादीनां स्थितिः समय उच्यते ।
समयस्यानपाकर्म तद्विवादपदं स्मृतम् ।। २५३.२२ ।।

सेतुकेदारमर्य्यादाविकृष्टाकृष्टनिश्चयाः ।
शेत्राधिकारे यत्र स्युर्विवादः क्षेत्रजस्तु सः ।। २५३.२३ ।।

वैवाहिको विधिः स्त्रीणं यत्र पुंसाञ्च कीर्त्त्यते ।
स्त्रीपुंसंयोगसंज्ञन्तु तद्विवादपदं स्मृतम् ।। २५३.२४ ।।

विभागोर्थस्य पैत्रस्य पुत्रैर्यस्तु प्रकल्प्यते ।
दायभागमिति प्रोक्तं विवादपदमुच्यते ।। २५३.२५ ।।

सहसा क्रियते कर्म्म यत् किञ्चित् बलदर्पितैः ।
तत् साहसमिति प्रोक्तं विवादपदमुच्यते ।। २५३.२६ ।।

देशजातिकुलादीनामाक्रोशत्यङ्गसंयुतम् ।
यद्वचः प्रतिकूलार्थं वाक्पारुष्यं तदुच्यते ।। २५३.२७ ।।

परगात्रेष्वभिद्रोहो हस्तपादायुधादिभिः ।
अग्न्यादिभिश्चोपघातैर्दण्डपारुष्यमुच्यते ।। २५३.२८ ।।

अक्षवर्ज्जशलाकाद्यैर्दैवतं द्यूतभुच्यते ।
पञ्चक्रीड़ावयोभिश्च प्राणिद्यूतसमाह्वयः ।। २५३.२९ ।।

प्रकीर्णकः पुनर्ज्ञेयो व्यवहारो निराश्रयः ।
क्रियाबेदान्मनुष्याणां शतशाखो निगद्यते ।। २५३.३० ।।

व्यवहारोऽष्टादशपदस्तेषां भेदोऽथ वै शतम् ।
क्रियाभेदान्मनुष्याणां शतशाखो निगद्यते ।। २५३.३१ ।।

व्यवहारान्नृपः पश्येज् ज्ञानिविप्रैरकोपनः ।
शत्रुमित्रसमाः सभ्या अलोभाः श्रुतिवेदिनः ।। २५३.३२ ।।

अपश्यता१ कार्य्यवशात् सभ्यैर्विप्रं नियोजयेत् ।
रागाल्लोभाद्‌भयाद्वापि स्मृत्यपेतादिकारिणः ।। २५३.३३ ।।

सभ्याः पृथक् पृथग् दण्ड्या विवादाद्‌द्विगुणो दमः ।
स्मृत्याचारव्यपेतेन मार्गेण धर्षितः परैः ।। २५३.३४ ।।

आवेदयति यद्राज्ञे व्यवहारपदं हि तत्।
प्रत्यर्थिनोऽग्रतो लेख्यं यथा वेदितमर्थिना ।। २५३.३५ ।।

समामासतदर्द्धाहर्नामजात्यादिचिह्नितम् ।
श्रुतार्थस्योत्तरं लेख्यं पूर्वावेदकसन्निधौ ।। २५३.३६ ।।

ततोऽर्थी लेखयेत्सद्यः प्रतिज्ञातार्थसाधनम् ।
तत्सिद्धौ सिद्धिमाप्नोति विपरीतमतोऽन्यथा ।। २५३.३७ ।।

चतुष्पाद्व्यवहारोयं विवादेषूपदर्शितः ।
अभियोगमनिस्तीर्य्यनैनं प्रत्यबियोजयेत् ।। २५३.३८ ।।

अभियुक्तञ्च नान्येन त्यक्तं विप्रकृतिं नयेत् ।
कुर्य्यात् प्रत्यभियोगन्तु कलहे साहसेषु च ।। २५३.३९ ।।

उभयोः प्रतिभूर्ग्राह्यः समर्थः कार्य्यनिर्गये ।
निह्नवे भावितो दद्याद्धनं राज्ञे तु तत्समम् ।। २५३.४० ।।

मिथ्याभियोगाद् द्विगुणमभियोगाद्धनं हरेत् ।
साहसस्तेयपारुष्येष्वभिशापात्यये स्त्रियाः ।। २५३.४१ ।।

विचारयेत्यद्य एव कालोऽन्यत्रेछया स्मृतः ।
देशदेशान्तरं याति सृक्कणी परिलेढि च ।। २५३.४२ ।।

ललाटं स्विद्यते चास्य मुखवैवर्ण्यमेव च ।
स्वभावाद्विकृतं गच्छेन्मनोवाक्‌कायकर्मभिः ।। २५३.४३ ।।

अभियोगेऽथ वा साक्ष्ये वाग्दुष्टं परिकीर्त्तितः ।
सन्दिग्धार्थं स्वतन्त्रो यः साधयेद्यश्च निष्पतेत् ।। २५३.४४ ।।

न चाहूतो वदेत् किञ्चिद्धनी दण्ड्यश्च स स्मृतः ।
साक्षिषूभयतः सत्सु साक्षिणः पूर्ववादिनः ।। २५३.४५ ।।

पूर्वपक्षेऽधरीभूते भवन्त्युत्तरवादिनः ।
सगणश्चेद्विवादः स्यात्तत्र हीनन्तु दापयेत् ।। २५३.४६ ।।

दत्तं पणं वसुञ्चैव धनिनो धनमेव च।
छलन्निरस्य दूतेन व्यवहारान्नयेन्नृपः ।। २५३.४७ ।।

भूतमप्यर्थमप्यस्तं हीयते व्यवहारतः ।
निह्नते निखिलानेकमेकदेशविभावितम् ।। २५३.४८ ।।

दाप्यः सर्वान्नृपेणार्थान्न ग्राह्यस्त्वनिवेदितः ।
स्मृत्योर्विरोधे न्यायस्तु बलवान् व्यवहारतः ।। २५३.४९ ।।

अर्थशास्त्राद्धि बलवद्धर्मशास्त्रमिति स्थितिः२ ।
प्रमाणं लिखितं भुक्तिः साक्षिणश्चेति कीर्त्तितम् ।। २५३.५० ।।

एषामन्यतमाभावे दिव्यान्यतममुच्यते ।
सर्वेष्वेव विवादेषु बलवत्युत्तरा क्रिया ।। २५३.५१ ।।

आधौ प्रतिग्रहे क्रीते यूर्वा तु बलवत्तरा ।
पश्यतो ब्रुवतो भूमेर्हानिर्विंशतिवार्षिकी ।। २५३.५२ ।।

परेण भुज्यमाना या धनस्य दशवार्षिकी ।
आधिसीमोपनिःक्षेपजडवाचलधनैर्विना ।। २५३.५३ ।।

तथोपनिधिराजस्त्रीश्रोत्रियाणां धनैरपि ।
आध्यादीनां विहर्तारं धनिने दापयेद्धनं ।। २५३.५४ ।।

दण्ड्य च तत्समं राज्ञे शक्त्यपेक्ष्यमथापि वा ।
आगमोप्यधिको भुक्तिं विना पूर्वक्रमागतां ।। २५३.५५ ।।

आगमोपि बलन्नैव भुक्तिः स्तोकापि यत्र न ।
आगमेन विशुद्धेन भोगो याति प्रमाणताम् ।। २५३.५६ ।।

अविशुद्धागमो भोगः प्रामाण्यं नाधिगच्छति।
आगमस्तु कृतो येन सोबियुक्तस्तमुद्धरेत् ।। २५३.५७ ।।

न तत्सुतस्तःसुतो वा भुक्तिस्तत्र गरीयसी ।
योभियुक्तः परेतः स्यात् तस्य ऋक्‌थात्तमुद्धरेत् ।। २५३.५८ ।।

न तत्र कारणं भुक्तिरागमेन विनाकृता ।
बलोपाधिविनिर्वृत्तान् व्यवहारान्निवर्त्तयेत् ।। २५३.५९ ।।

स्त्रीनक्तमन्तरागारवहिःशत्रुकृतस्तथा ।
मत्तोन्मत्तार्त्तव्यसनिबालभीतप्रयोजितः ।। २५३.६० ।।

असम्बद्धकृतश्चैव व्यवहारो न सिद्ध्यति ।
प्रनष्टाधिशतं देयं नृपेण धनिने धनं ।। २५३.६१ ।।

विभावयेन्न चेल्लिङ्गैस्तत्समं दातुमर्हति ।
देयञ्चौरहृतं द्रव्यं राज्ञा जनपदाय तु ।। २५३.६२ ।।

अशीतिभागो वृद्धिः स्यान्मासि मासि सबन्धके ।
वर्णक्रमाच्छतं द्वित्रिचतुष्पञ्चकमन्यथा ।। २५३.६३ ।।

सप्ततिस्तु पशुस्त्रीणां रसस्याष्टगुणा परा ।
वस्त्रधान्यहिरण्यानां चतुस्त्रिद्विगुणा तथा ।। २५३.६४ ।।

ग्रामान्तरात्तु दशकं सामुद्रादपि विंशतिं ।
दद्यर्वा स्वकृतां वृद्धिं सर्वे सर्वासु जातिषु ।। २५३.६५ ।।

प्रपन्नं साधयन्नर्थं न वाच्यो नृपतिर्भवेत् ।
साध्यमानो नृपं गच्छेद्दण्ड्यो दाप्यश्च तद्धनं ।। २५३.६६ ।।

इत्यादिमहापुराणे आग्नेये व्यवहारो नाम त्रिपञ्चाशदधिकद्विशततमोऽध्यायः ।।