अग्निपुराणम्/अध्यायः ३४०

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
अग्निपुराणम्
















रीतिनिरूपणम्[सम्पाद्यताम्]

अग्निरुवाच
वाग्विद्यासम्प्रतिज्ञने रीतिः सापि चतुर्विधा ।
पाञ्चली गौड़देशीया वैदर्भी लाटजा तथा ।। ३४०.१ ।।

उपचारयुता मृद्वी पाञ्चाली ह्रस्वविग्रहा ।
अनवस्थितसन्दर्भा गौडीया दीर्घविग्रहा ।। ३४०.२ ।।

उपचारैर्न्न बहुभिरुपचारैर्विवर्ज्जिता ।
नातिकोमलसन्दर्भा वैदर्भी मुक्तविंग्रहा ।। ३४०.३ ।।

लाजीया स्फुजसन्दर्भा नातिविस्फुरविग्राहा ।
परित्यक्तापि भूयोभिरुपचारैरुदाहृता ।। ३४०.४ ।।

क्रियास्वविषमा वृत्तिर्भारत्यारभटी तथा ।
कौशिकी सात्वती चैति सा चतुर्द्धा प्रतिष्ठिता ।। ३४०.५ ।।

वाक्‌प्रधाना नरप्राया स्त्रीयुक्ता प्राकृतोक्तिता ।
भरतेन प्रणीतत्वात् भारती रीतिरुच्यते ।। ३४०.६ ।।

चत्वार्य्यङ्गानि भारत्या वीथी प्रहसनन्तथा ।
प्रस्तावना नाटकादेर्व्वीथ्यङ्गाश्च त्रयोदश ।। ३४०.७ ।।

उद्‌घातकं तथैव स्याल्लपितं स्याद्‌द्वितीयकम् ।
असत्प्रलापो वाक्‌श्रेणी नांनिका विपणन्तथा ।। ३४०.८ ।।

व्याहारस्रिमतञ्चैव छलावस्कन्दिते तथा ।
गण्डोऽथ मृदवश्चैव त्रयोदशमथाचितम् ।। ३४०.९ ।।

तापसादेः प्रहसनं परिहासपरं वचः ।
मायेन्द्रजालयुद्धादिबहुलारभटी स्मृता ।। ३४०.१० ।।

सङ्‌क्षिप्तकारपातौ च वस्तूत्थापनमेव च ।। ३४०.११ ।।

इत्यादिमहापुराणे आग्नेये रीतिनिरूपणं नाम चत्वारिंशदधिकत्रिशततमोऽध्यायः ।।