अग्निपुराणम्/अध्यायः १२

विकिस्रोतः तः
Jump to navigation Jump to search
अग्निपुराणम्
















श्रीहरिवंशवर्णनम्[सम्पाद्यताम्]

अग्निरुवाच
हरिवंशम्प्रवक्षयामि विष्णुनाभ्यम्बुजादजः ।
ब्रह्मणोत्रिस्ततः सोमः सोमाज्जातः पुरूरवाः ।। १ ।।

तस्मादायुरभूत्तस्मान्नहुषोऽतो ययातिकः।
यदुञ्च तुर्वसुन्तस्माद्देवयानी व्यजायत ।। २ ।।

द्रुह्यञ्चानुञ्च पूरुञ्च शर्म्मिष्ठा वार्षपर्वणी।
यदोः कुले यादवाश्च वसुदेवस्तदुत्तमः ।। ३ ।।

भूवो भारावतारार्थं देवक्यां वसुदेवतः।
हिरण्यकशिपोः पुत्राः षड्‌गर्भा योगनिद्रया ।। ४ ।।

विष्णुप्रयुक्तया नीता देवकीजठरं पुरा ।
अभूच्च सप्तमो गर्भो देवक्या जठराद् बलः ।। ५ ।।

सङ्‌क्रामितोऽभूद्रोहिण्यां रौहिणेयस्ततो इरिः ।
कृष्णाष्टम्याञ्च नभसि अर्द्धरात्रे चतुर्भुजः ।। ६ ।।

देवक्या वसुदेवेन स्तुतो बालो द्विबाहुकः ।
वसुदेवः कंसभयाद्यसोदाशयनेऽनयत् ।। ७ ।।

यशोदावालिकां गृह्य देवकीशयनेऽनयत् ।
कंसो बालध्वनिं श्रुत्वा ताञ्चिक्षएप शिलातले ।। ८ ।।

वारीतोपि स देवक्या मृत्युर्गर्भोष्टमो मम।
श्रुत्वाऽशरीणीं वाचं मत्तो गर्भास्तु मारिताः ।। ९ ।।

समर्पितास्तु देवक्या विवाहसमयेरिताः।
सा क्षिप्ता बालिका कंसमाकशस्थाब्रवीदिदम् ।। १० ।।

किं मया क्षिप्ताया कंस जातो यस्त्वां वधिष्यति।
सर्वस्वभूतो देवानां भूभारहरणाय सः ।। ११ ।।

इत्युक्त्वा सा च सुम्भादीन् हत्वेन्द्रेण च संस्तुता।
आर्या दुर्गा वेदगर्भा अम्बिका भद्रकाल्यपि ।। १२ ।।

भद्रा क्षोम्या क्षेमकरी नैकबाहुर्नमामि ताम्।
त्रिसन्ध्यं यः पठेन्नाम सर्वान् कामानवाप्नुयात् ।। १३ ।।

कंसोपि पूतनादींश्च प्रैषयद् बालनाशने।
यशोदापतिनन्दाय वसुदेवेन चार्पितौ ।। १४ ।।

रक्षणाय च संसादेर्भीतेनैव हि गोकुले।
रामकृष्णौ चेरतुस्तौ गोभिर्गोपालकैः सह ।। १५ ।।

सर्वस्य जगतः पालौ गोपालौ तौ बभूवतुः।
कृष्णश्चोलूखले बद्धो दाम्ना व्यग्रयशोदया ।। १६ ।।

यमलार्जुनमध्येऽगाद् भग्नौ च यमलार्जुनौ।
परिवृत्तश्च शकटः पादक्षेपात् स्तनार्थिना ।। १७ ।।

पूतना स्तनपानेन सा हता हन्तुमुद्यता।
वृन्दावनगतः कृष्णः कालियं यमुनाह्रदात् ।। १८ ।।

जित्वा निः सार्य चाब्धिस्थञ्चकार बलसंस्तुतः।
क्षेमं तालवनं चक्रे हत्वा धेनुकगर्द्दभम् ।। १९ ।।

अरिष्टवृषभं हत्वा केशिनं हयरूपिणम्।
शक्रोत्सवं परित्यज्य कारितो गोत्रयज्ञकः ।। २० ।।

पर्वतं घारयित्वा च शक्राद् वृप्टिर्निवारिता।
नमस्कृतो महेन्द्रेण गोविन्दोऽथार्जुनोर्पितः ।। २१ ।।

इन्द्रोत्सवस्तु तुष्टेन भूयः कृष्णेन कारितः।
रथस्थो मथुराञ्चागात् कंसोक्ताक्रूरसंस्तुतः ।। २२ ।।

गोपीभिरनुरक्ताबिः क्रीडिताभिर्निरीक्षितः।
रजकं चाप्रयच्छन्तं इत्वा वस्त्राणि चाग्रहीत् ।। २३ ।।

सह रामेण मालाभृन्मालाकारे वरन्ददौ।
दत्तानुलेपनां कुब्जामृजुं चक्रेऽहनद् गजम् ।। २४ ।।

मत्तं कुवलयापीडं द्वारि रङ्गं प्रविश्य च।
कंसादीनां पश्यतां च मञ्चस्थानां नियुद्धकम् ।। २५ ।।

चक्रे चारणूरमल्लेन मुष्टिकेन बलोऽकरोत्।
चाणूरमुष्टिकौ ताभ्यां हतौ मल्लौ तथापरे ।। २६ ।।

जरासन्धस्य ते पुत्रयौ जरासन्धस्तदीरितः।
चक्रेस मथुरारोधं यादवैर्युयुधे च कंसगे ।। २७ ।।

रामकृष्णौ च मथुरां त्यक्त्वा गोमन्तमागतौ।
जरासन्धं विजित्याजौ पौण्ड्रकं वासुदेवकम् ।। २९ ।।

पुरीं च द्वारकां कृत्वा न्यवसद् यादवैर्वृतः।
भौमं तु नाकं हत्वा तेनानीताश्च कन्यकाः ।। ३० ।।

देवगन्धर्वयक्षाणां ता उवाह जनार्द्दनः।
षोडशस्त्रीसहस्त्राणि रुक्मिण्याद्यास्तथाष्ट च ।। ३१ ।।

सत्यभामासमायुक्तो गरुडे नरकार्दनः।
मणिशैलं सन्त्यश्च इन्द्रं जित्वा हरिर्दिवि ।। ३२ ।।

पारिजातं समानीय सत्यभामागृहेऽकरोत्।
सान्दीपनेश्च शश्त्रास्त्रं ज्ञात्वा, तद्बालकं ददौ ।। ३३ ।।

जित्वा पञ्चजनं दैत्यं यमेन च सुपूजितः।
अवधीत् कालयवनं मुचुकुन्देन पूजितः ।। ३४ ।।

वसुदेवं देवकीञ्च भक्तविप्रांश्च सोर्च्चयत्।
रेवत्यां बलभद्राच्च यज्ञाते निशठोन्मुकौ ।। ३५ ।।

कृष्णात् शाम्बो जाम्बवत्यामन्यास्वन्येऽभवन् सुताः ।
प्रद्युम्नोऽभूच्च रुक्मिण्यां षष्ठेऽह्नि स हृतो बलात् ।। ३६ ।।

शम्बरेणाम्बुधौ क्षिप्तोमत्स्योजग्राह धीवरः।
तं मत्स्यं शम्बरायादान्मायावत्यैच शम्बरः ।। ३७ ।।

मायावती मत्स्यमध्ये दृष्ट्वा स्वं पतिमादरात्।
पपोष सा तं चोवाच रतिस्तेऽहं पतिर्मम ।। ३८ ।।

कामस्त्वं शम्भुनानङ्गः कृतोहं शम्बरेण च।
हृता न तस्य पत्नी त्वं मायाज्ञः शम्बरं जहि ।। ३९ ।।

तच्छ्रुत्वा शम्बरं हत्वा प्रद्युम्नः सह भार्यया।
मा यावत्या ययौ कृष्णं कृष्णो हृष्टोऽथ रुक्मिणी ।। ४० ।।

प्रद्युम्नादनिरुद्वोभूदुषापतिरुदारधीः।
बाणो बलिसुतस्तस्य सुतोषा शोणितं पुरम् ।। ४१ ।।

तपसा शिवपुत्रोऽभूद् मायूरध्वजपातितः।
युद्धं प्राप्स्यसि बाण त्वं बाणं तुष्टः शिवोभ्यधात् ।। ४२ ।।

शिवेन क्रीडतीं गौरीं दृष्ट्वोषा सस्पृहा पतौ।
तामाह गौरी भर्त्ता ते निशि सुप्तेति दर्शनात् ।। ४३ ।।

वैशाखमासद्वादश्यां पुंसो भर्त्ता भविष्यति।
गौर्य्युक्त हर्षिता चोषा गृहे सुप्ता ददर्श तम् ।। ४४ ।।

आत्मना सङ्गतं ज्ञात्वा तत्सख्या चित्रलेखया।
लिखिताद्वै चित्रपटादनिस्द्धं समानयत् ।। ४५ ।।

कृष्णणौत्रं द्वारकातो दुहिता बाणमन्त्रिणः।
कुम्भाण्डस्यानिरुद्धोगाद्रराम ह्युषया सह ।। ४६ ।।

बाणध्वजस्य सम्पातै रक्षिभिः स निवेदितः।
अनिरुद्धस्य बाणेन युद्धमासीत्सुदारुणम् ।। ४७ ।।

श्रुत्वा तु नारदात् कृष्णः प्रद्युम्नबलभद्रवान्।
गरुडस्थोथ जित्वाग्नीञ्ज्वरं माहेश्वरन्तथा ।। ४८ ।।

हरिशङ्करयोर्युद्धं बभूवाथ शराशरि।
नन्दिविनायकस्कन्दमुखास्ताक्षर्यादिभिर्जिताः ।। ४९ ।।

जृम्भिते शङ्करे नष्टे जृम्भणास्त्रेण विष्णुना।
छिन्नं सहस्त्रं बाहूनां रुद्रेणाभयमर्थितम् ।। ५० ।।

विष्णुना जीवितो बाणो द्विबाहुः प्राब्रवीच्छिवम्।
त्वया यदभयं दत्तं बाणस्यास्य मया च तत् ।। ५१ ।।

आवयोर्नास्ति भेदो वै भेदी नरकमाप्नुयात्।
शिवाद्यैः पूजितो विष्णुः सोनिरुद्ध उषादियुक् ।। ५२ ।।

द्वारकान्तु गतो रेमे उग्रसेनादियादवैः।
अनिरुद्धात्मजो वज्रो मार्कण्डेयात्तु सर्ववित् ।। ५३ ।।

बलभद्रः प्रलम्बघ्नो यमुनाकर्षणोऽभवत्।
द्विविदस्य कपेर्भेत्ता कौरवोन्मादनाशनः ।। ५४ ।।

हरी रेमेनेकमूर्त्ती रुक्मिण्यादिभिरीश्वरः।
पुत्रानुत्पादयामास त्वसंख्यातान् स यादवान् ।।
हरिवंशं पठेद् यः स प्राप्तकामो हरिं व्रजेत् ।। ५५ ।।

इत्यादिमहापुराणे आग्नेये हरिवंशवर्णनं नाम द्वादशोऽध्यायः ॥