अग्निपुराणम्/अध्यायः ८७

विकिस्रोतः तः
Jump to navigation Jump to search
अग्निपुराणम्
















शान्तिशोधनकथनम्[सम्पाद्यताम्]

ईश्वर उवाच
सन्दध्यादधुना विद्यां शान्त्या सार्द्धं यथाविधि।
शान्तौ तत्त्वद्वयं लीनं भावेश्वरसदाशिवौ ॥ १ ॥
हकारश्च क्षकारश्च द्वौ वर्णौ परिकीर्त्तितौ।
रुद्राः समाननामानो भुवनैः सह तद्यथा ॥ २ ॥
प्रभवः समयः क्षुद्रो विमलः शिव इत्यपि।
घनौ निरञ्जनाकारौ स्वशिवौ दीप्तिकारणौ ॥ ३ ॥
त्रिदशेश्वरनामा च त्रिदशः कालसञ्ज्ञकः।
सूक्ष्माम्बुजेश्वरश्चेति रुद्राः शान्तौ प्रतिष्ठिताः ॥ ४ ॥
व्योमव्यापिने व्योमव्याप्यरूपायसर्वव्यापिने
शिवाय अनन्ताय अनाथाय अनाश्रिताय ध्रुवाय
शाश्वताय योगपीठसंस्थिताय नित्ययोगिने ध्यानाहारायेति द्वादशपदानि।
पुरुषः कवचौ मन्त्रौ बीजे बिन्दूपकारकौ।
अलम्बुषायसानाड्यौ वायू कृकरकूर्म्मकौ ॥ ५ ॥
इन्द्रिये त्वक्कारावस्या स्पर्शस्तु विषयो मतः।
गुणौ स्पर्शनिनादौ द्वावेकः कारणमीश्वरः ॥ ६ ॥
तुर्य्यावस्थेति शान्तिस्थं सम्भाव्य भुवनादिकं।
विदध्यात्ताडनं भेदं प्रवेशञ्च वियोजनं ॥ ७ ॥
आकृष्य ग्रहणं कुर्य्याच्छान्तेवेदनसूत्रतः।
आत्मन्यारोप्य सङ्‌गृह्य कलां कुण्डे निवेशयेत् ॥ ८ ॥
ईश तवाधिकारेऽस्मिन् मुमुक्षुं दीक्षयाम्यहं।
भव्यं त्वयाऽनुकूलेन कुर्य्यात् विज्ञापनामिति ॥ ९ ॥
आवाहनादिकं पित्रोः शिष्यस्य ताडनादिकं।
विधायादाय चैतन्यं विधिनाऽऽत्मनि योजयेत् ॥ १० ॥
पूर्ववत् पितृसंयोगं भावयित्वोद्भवाख्या।
हृत्सम्पुटात्मवीजेन हेवीगर्भे नियोजयेत् ॥ ११ ॥
देहोत्पत्तौ हृदा पञ्च शिरसा जन्महतवे।
शिखया वाऽधिकाराय भोगाय कवचाणुना ॥ १२ ॥
लयाय शस्त्रमन्त्रेण श्रोतः शुद्धौ शिवेन च।
तत्त्वशुद्धौ हृदा ह्येव गर्ब्भाधानादि पूर्ववत् ॥ १३ ॥
वर्म्मणा पाशशैथिल्यं निष्कृत्यैवं शतं जपेत्।
मलशक्तितिरोधाने शस्त्रेणाहुतिपञ्चकं ॥ १४ ॥
एवं पाशवियोगेऽपि ततः सप्ताश्त्रजप्तया।
छिन्द्यादस्त्रेण कर्त्तर्य्या पाशान्वीजवता यथा ॥ १५ ॥
ओं हौं शान्तिकलापाशाय हः हूं फट्।
विसृज्य वर्त्तुलीकृत्य पाशमस्रेण पूर्ववत्।
घृत पूर्णे श्रुवे दत्वा कलास्त्रेणैव होमयेत् ॥ १६ ॥
अस्त्रेण जुहुयात् पञ्च पाशाङ्कुशनिवृत्तये।
प्रायश्चित्तनिषेधाय दद्यादष्टाहुतीरथ ॥ १७ ॥
ओं हः अस्त्राय हूं फट्।
हृदेश्वरं समावाह्य कृत्वा पूजनतर्पणे।
विदधीत विधानेन तस्मै शुल्कसमर्पणं ॥ १८ ॥
ओं हां ईश्वर बुद्ध्यहङ्कारौ शुल्कं गृहाण स्वाहा।
निः शेषदग्धपाशस्य पशोरस्येश्वर त्वया।
न स्थेयं बन्धकत्वेन शिवाज्ञां श्रावयेदिति ॥ १९ ॥
विसृजेदीश्वरन्देवं रौद्रात्मानं नियोजयेत्।
ईषच्चन्द्रमिवात्मानं विधिनाऽऽत्मनि योजयेत् ॥ २० ॥
सूत्रे संयोजयंदेनं शुद्धयोद्भवमुद्रया।
दद्यात् मूलेन शिष्यस्य शिरस्यमृतविन्दुकं ॥ २१ ॥
विसृज्य पितरौ वह्नेः पूजितौ कुसुमादिभिः।
दद्यात् पूर्णां विधानज्ञो निः शेषविधिपूरणीं ॥ २२ ॥
अस्यामपि विधातव्यं पूर्ववत्ताडनादिकं।
स्ववीजन्तु विशेषः स्चाच्छुद्धिः शान्तेरपीडिता ॥ २३ ॥
इत्यादिमहापुराणे आग्नेये निर्वाणदीक्षायां शान्तिशोधनं नाम सप्ताशीतितमोऽध्यायः।