अग्निपुराणम्/अध्यायः १०१

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
अग्निपुराणम्
















प्रासादप्रतिष्ठा

ईश्वर उवाच
प्रासादस्थापनं वक्ष्ये तच्चैतन्यं स्वयोगतः(६) ।१०१.००१
शुकनाशासमाप्तौ तु पूर्ववेद्याश्च मध्यतः ॥१०१.००१
आधारशक्तितः पद्मे विन्यस्ते प्रणवेन च(७) ।१०१.००२
स्वर्णाद्ये कतमोद्द्भतं पञ्चगव्येन संयुतं ॥१०१.००२
मधुक्षीरयुतं कुम्भं न्यस्तरत्रादिपञ्चकं(८) ।१०१.००३
स्रग्वस्त्रं गन्धलिप्तञ्च गन्धवत्पुष्पभूषितं(९) ॥१०१.००३
चूतादिपल्लवानाञ्च कृती कृत्यञ्च विन्यसेत्(१०) ।१०१.००४
टिप्पणी
१ नन्द्यादीन इति ख..
२ कृत्ययुक्तैरिति ज..
३ शक्तितो यथा इति ग..
४ भागत्रयेणेत्यादिः, जुहुयाच्छतमित्यन्तः पाठो झ.. पुस्तके नास्ति । अत्र कतिपयश्लोकाधिकोऽध्यायत्रयात्मकः पाठः पतितोस्ति
५ पूर्ववद्दत्वा इति ग.. , घ च
६ तच्चैतन्यञ्च योगत इति ग.. । तच्चैतन्यस्वयोगत इति छ..
७ विन्यस्ते प्रणवेन तु इति ख.. , छ.. , ज.. , झ.. च । विन्यसेत्प्रणवेन तु इति ग..
८ मधुक्षीरयुतं न्यस्तरत्नादिपञ्चकं तत इति ग..
९ गन्धवत्पुष्पधूपितमिति ग.. , ङ.. , छ.. च
१० वह्निकृत पद्मं विन्यसेदिति ख.. । वह्निकूपं यवं न्यसेदिति ग.. । वह्निकूपेषु च न्यसेदिति ज..

पूरकेण समादाय सकलीकृतविग्रहः ॥१०१.००४
सर्वात्मभिन्नात्मानं स्वाणुना(१) स्वान्तमारुतः ।१०१.००५
आज्ञया बोधयेच्छम्भौ(२) रेचकेन ततो गुरुः ॥१०१.००५
द्वादशान्तात्(३) समादाय स्फुरद्वह्निकणोपमं ।१०१.००६
निक्षिपेत्कुम्भगर्भे च न्यस्ततन्त्रातिवाहिकं(४) ॥१०१.००६
विग्रहन्तद्गुणानाञ्च बोधकञ्च कलादिकं ।१०१.००७
क्षान्तं वागीश्वरं(५) तत्तु ब्रातं तत्र निवेशयेत् ॥१०१.००७
दश नाडीर्दश प्राणानिन्द्रियाणि त्रयोदश ।१०१.००८
तदधिपांश्च संयोज्य प्रणवाद्यैः स्वनामभिः ॥१०१.००८
स्वकार्यकारणत्वेन(६) मायाकाशनियामिकाः(७) ।१०१.००९
विद्येशान् प्रेरकान् शम्भुं व्यापिनञ्च सुसम्वरैः(८) ॥१०१.००९
अङ्गानि च(९) विनिक्षिप्य निरुन्ध्याद्रोधमुद्रा(१०) ।१०१.०१०
सुवर्णाद्युद्भवं यद्वा पुरुषं पुरुषानुगं ॥१०१.०१०
पञ्चगव्यकषायाद्यैः पूर्ववत्संस्कृतन्ततः ।१०१.०११
शय्यायां कुम्भमारोप्य ध्यात्वा रुद्रमुमापतिं ॥१०१.०११
टिप्पणी
१ सर्वात्मभिन्नात्मानं स्वात्मना इति ख.. । सर्वात्माभिन्नमात्मा च स्थाणुनेति ज..
२ बोधयेच्छक्तौ इति ख.. , घ.. च
३ द्वादशान्तमिति ग.. , ज.. च
४ न्यस्य तत्र यथाक्रममिति ग.. । न्यस्य तत्राभिवाहिकमिति छ.. । न्यस्य तत्राभिवादकमिति ज..
५ वामेश्वरमिति ख.. । बाणेश्वरमिति ङ..
६ अकार्यकारणत्वे नेति ख.. , छ.. च
७ प्रयामिका इति ख.. , छ.. च
८ व्यापिनञ्च स्वशक्तित इति झ.. । व्यापिनञ्चास्य संस्रवैरिति ङ..
९ अज्ञाने चेति घ.. , झ.. च । अङ्कादि चेति ङ..

१० निर्मञ्छ्य द्रोणमुद्रया इति ग.. । निरुन्ध्याद्द्रवमुद्रया इति झ..

तस्मिंश्च शिवमन्त्रेण व्यापकत्वेन वियसेत् ।१०१.०१२
सन्निधानाय होमञ्च प्रओक्षणं स्पर्शनं जपं ॥१०१.०१२
सान्निध्याबोधनं(१) सर्वम्भागत्रयविभागतः ।१०१.०१३
विधायैवं(२) प्रकृत्यन्ते(३) कुम्भे तं विनिवेशयेत् ॥१०१.०१३

इत्याग्नेये महापुराणे प्रासादकृत्यप्रतिष्ठा नामैकाधिकशततमोऽध्यायः