अग्निपुराणम्/अध्यायः २०८

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
अग्निपुराणम्
















व्रतदानादिसमुच्चयः

अग्निरुवाच
व्रतदानानि सामान्यं प्रवदामि समासतः ।२०८.००१
तिथौ प्रतिपदादौ च सूर्यादौ कृत्तिकासु च ॥२०८.००१
विष्कम्भादौ च मेषादौ काले च ग्रहणादिके ।२०८.००२
यत्काले यद्व्रतं दानं यद्द्रव्यं नियमादि यत् ॥२०८.००२
तद्द्रव्याख्यञ्च कालाख्यं सर्वं वै विष्णुदैवतं ।२०८.००३
रवीशब्रह्मलक्ष्म्याद्याः(२) सर्वे विष्णोर्विभूतयः ॥२०८.००३
तमुद्दिश्य व्रतं दानं पूजादि स्यात्तु सर्वदं ।२०८.००४
जगत्पते समागच्छ आसनं पाद्यमर्घ्यकं ॥२०८.००४
मधुपर्कं तथाचामं स्नानं वस्तञ्च गन्धकं ।२०८.००५
टिप्पणी
१ भोजनानि इति ग.. , ज.. च
२ रवीशब्रह्मलोकेशा इति ज..

पुष्पं धूपश्च दीपश्च नैवेद्यादि नमोऽस्तु ते ॥२०८.००५
इति पूजाव्रते दाने दानवाक्यं समं शृणु ।२०८.००६
अद्यामुकसगोत्राय विप्रायामुकशर्मणे ॥२०८.००६
एतद्द्रव्यं विष्णुदैवं सर्वपापोपशान्तय्२०८.००७
आयुरारोग्यवृद्ध्यर्थं सौभाग्यादिविवृद्धये(१) ॥२०८.००७
गोत्रसन्ततिवृद्ध्यर्थं विजयाय धनाय च ।२०८.००८
धर्मायैश्वर्यकामाय तत्पापशमनाय च ॥२०८.००८
संसारमुक्तये दानन्तुभ्यं सम्प्रददे ह्यहं ।२०८.००९
एतद्दानप्रतिष्ठार्थं तुभ्यमेतद्ददाम्यहं ॥२०८.००९
एतेन प्रीयतां नित्यं सर्वलोकपतिः प्रभुः ।२०८.०१०
यज्ञदानव्रतपते विद्याकीर्त्यादि देहि मे ॥२०८.०१०
धर्मकामार्थमोक्षांश्च देहि मे मनसेप्सितं ।२०८.०११
यः पठेच्छृणुयान्नित्यं व्रतदानसमुच्चयं ॥२०८.०११
स प्राप्तकामो विमलो भुक्तिमुक्तिमवाप्नुयात् ।२०८.०१२
तिथिवारर्क्षसङ्क्रान्तियोगमन्वादिकं व्रतं ॥२०८.०१२
नैकधा वासुदेवादेर्नियमात्पूजनाद्भवेत् ।२०८.०१३

इत्यागेन्ये महापुराणे व्रतदानसमुच्चयो नाम अष्टाधिकद्विशततमोऽध्यायः ॥
टिप्पणी
१ सौभाग्याय सुष्टद्वये इति क.. , छ.. , ट, च । सौभाग्याय सुबुद्धये इति घ.. , ज.. , ञ.. च