अग्निपुराणम्/अध्यायः १११

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ

प्रयागमाहात्म्यं

अग्निरुवाच
वक्ष्ये प्रयागमाहात्म्यं भुक्तिमुक्तिप्रदं परं[१] ।१११.००१
प्रयागे ब्रह्मविष्ण्वाद्या देव मुनिवराः स्थिताः ॥१११.००१
सरितः सागराः सिद्धा गन्धर्वसराप्सस्तथा ।१११.००२
तत्र त्रीण्यग्निकुण्डानि तेषां मध्ये तु जाह्नवी ॥१११.००२
वेगेन समतिक्रान्ता सर्वतीर्थतिरस्कृता ।१११.००३
तपनस्य सुता तत्र त्रिषु लोकेषु विश्रुता ॥१११.००३
गङ्गायमुनयोर्मध्यं[२] पृथिव्या जघनं स्मृतं ।१११.००४
प्रयागं जघनस्यान्तरुपस्थमृषयो विदुः[३] ॥१११.००४
प्रयागं सप्रतिष्ठानं कम्बलाश्वतरावुभौ ।१११.००५
तीर्थं भोगवती चैव वेदी प्रोक्ता प्रजापतेः ॥१११.००५
तत्र वेदाश्च यज्ञाश्च मूर्तिमन्तः प्रयागके ।१११.००६
स्तवनादस्य[४]तीर्थस्य नामसङ्किर्तनादपि ॥१११.००६
मृत्तिकालम्भनाद्वापि सर्वपापैः प्रमुच्यते ।१११.००७
प्रयागे सङ्गते दानं श्राद्धं जप्यादि चाक्षयं[५] ॥१११.००७
न देववचनाद्विप्र न लोकवचनादपि ।१११.००८
मतिरुत्क्रमणीयान्ते प्रयागे मरणं प्रति ॥१११.००८
दशतीर्थसहस्राणि षष्टिकोट्यस्तथापराः ।१११.००९
तेषां सान्निध्यमत्रैव प्रयागं परमन्ततः ॥१११.००९
वासुकेर्भोगवत्यत्र हंसप्रपतनं परं ।१११.०१०
गवां कोटिप्रदानाद्यत्त्र्यहं स्नानस्य[६]तत्फलं ॥१११.०१०
प्रयागे माघमासे तु एवमाहुर्मनीषिणः ।१११.०११
सर्वत्र सुलभा गङ्गा त्रिषु स्थानेषु दुर्लभा ॥१११.०११
गङाद्वारे प्रयागे च गङ्गासागरसङ्गमे ।१११.०१२
अत्र दानाद्दिवं[७] याति राजेन्द्रो जायतेऽत्र च ॥१११.०१२
वटमूले सङ्गमादौ मृतो विष्णुपुरीं व्रजेत् ।१११.०१३
उर्वशीपुलिनं रम्यं तीर्थं सन्ध्यावतस्तथा ॥१११.०१३
कोटीतीर्थञ्चाश्वमेधं गङ्गायमुनमुत्तमं ।१११.०१४
मानसं रजसा हीनं तीर्थं वासरकं परं[८] ॥१११.०१४
इत्याग्नेये महापुराणे प्रयागमाहात्म्यं नाम एकादशाधिकशततमोऽध्यायः ॥

प्रयागोपरि टिप्पणी

  1. भक्तिमुक्तिफलप्रदमिति ग.. । भुक्तिमुक्तिप्रदायकमिति झ.
  2. गङायमुनयोर्मध्ये इति ख..
  3. सरितः सागरा इत्यादिः, उपस्थमृषयो विदुरित्यन्तः पाठो ग.. पुस्तके नास्ति
  4. श्रवणादस्येति ख.. , ग.. , घ.. , ङ.. , ज.. च
  5. श्राद्धद्रव्यादि चाक्षयमिति घ..
  6. श्राद्धद्रव्यादि चाक्षयमिति घ..
  7. अन्नदानाद्दिवमिति ख.. , ग.. , घ.. , ङ.. , छ.. , ज.. च
  8. तीर्थं वानरकं परमिति ख.. , ग.. , घ.. , ङ.. च