सामग्री पर जाएँ

पद्मपुराणम्/खण्डः ३ (स्वर्गखण्डः)/अध्यायः ४५

विकिस्रोतः तः
स्वर्गखण्डः

अध्यायः १

अध्यायः २

अध्यायः ३

अध्यायः ४

अध्यायः ५

अध्यायः ६

अध्यायः ७

अध्यायः ८

अध्यायः ९

अध्यायः १०

अध्यायः ११

अध्यायः १२

अध्यायः १३

अध्यायः १४

अध्यायः १५

अध्यायः १६

अध्यायः १७

अध्यायः १८

अध्यायः १९

अध्यायः २०

अध्यायः २१

अध्यायः २२

अध्यायः २३

अध्यायः २४

अध्यायः २५

अध्यायः २६

अध्यायः २७

अध्यायः २८

अध्यायः २९

अध्यायः ३०

अध्यायः ३१

अध्यायः ३२

अध्यायः ३३

अध्यायः ३४

अध्यायः ३५

अध्यायः ३६

अध्यायः ३७

अध्यायः ३८

अध्यायः ३९

अध्यायः ४०

अध्यायः ४१

अध्यायः ४२

अध्यायः ४३

अध्यायः ४४

अध्यायः ४५

अध्यायः ४६

अध्यायः ४७

अध्यायः ४८

अध्यायः ४९

अध्यायः ५०

अध्यायः ५१

अध्यायः ५२

अध्यायः ५३

अध्यायः ५४

अध्यायः ५५

अध्यायः ५६

अध्यायः ५७

अध्यायः ५८

अध्यायः ५९

अध्यायः ६०

अध्यायः ६१

अध्यायः ६२

युधिष्ठिर उवाच-
एतच्छ्रुत्वा प्रयागस्य यत्त्वया कीर्तनं कृतम् ।
विशुद्धमेतद्धृदयं प्रयागस्य च कीर्तनात् ।
अनाशकफलं ब्रूहि भगवंस्तत्र कीदृशम् १।
मार्कंडेय उवाच-
शृणु राजन्प्रयागे तु अनाशकफलं विभो ।
प्राप्नोति पुरुषो धीमान्श्रद्दधानश्च यादृशम् २।
अहीनांगो विरोगश्च पंचेंद्रियसमन्वितः ।
अश्वमेधफलं तस्य गच्छतस्तु पदे पदे ३।
कुलानि तारयेद्राजन्दशपूर्वान्दशापरान् ।
मुच्यते सर्वपापेभ्यो गच्छेत परमं पदम् ४।
युधिष्ठिर उवाच-
महाभागोसि धर्मज्ञ दानं वदसि मे प्रभो ।
अल्पेनैव प्रधानेन बहून्धर्मानवाप्नुयात् ५।
अश्वमेधस्तु बहुभिः सुकृतैः प्राप्यते इह ।
एतन्मे संशयं ब्रूहि परं कौतूहलं हि मे ६।
मार्कंडेय उवाच-
शृणु राजन्महावीर युदुक्तं पद्मयोनिना ।
ऋषीणां सन्निधौ पूर्वं कथ्यमानं मया श्रुतम् ७।
पंचयोजनविस्तीर्णं प्रयागस्य तु मंडलम् ।
प्रविशंस्तस्य तद्भूमावश्वमेधं पदे पदे ८।
व्यतीतान्पुरुषान्सप्त भविष्यांश्च चतुर्दश ।
नरस्तारयते सर्वान्यस्तु प्राणान्परित्यजेत् ९।
एवं ज्ञात्वा तु राजेंद्र सदा श्रद्धापरो भवेत् ।
अश्रद्दधानाः पुरुषाः पापोपहतचेतसः ।
न प्राप्नुवंति तत्स्थानं प्रयागं देवनिर्मितम् १०।
युधिष्ठिर उवाच-
स्नेहाद्वा द्रव्यलोभाद्वा ये तु कामवशं गताः ।
कथं तीर्थफलं तेषां कथं पुण्यमवाप्नुयुः ११।
विक्रयं सर्वभांडानां कार्याकार्यमजानतः ।
प्रयागे का गतिस्तस्य एवं ब्रूहि महामुने १२।
मार्कंडेय उवाच-
शृणु राजन्महागुह्यं सर्वपापप्रणाशनम् ।
मासं वसंस्तु राजेंद्र प्रयागे नियतेंद्रियः १३।
मुच्यते सर्वपापेभ्यः यथादिष्टं स्वयंभुवा ।
शुचिस्तु प्रयतो भूत्वाऽहिंसकः श्रद्धयान्वितः १४।
मुच्यते सर्वपापेभ्यः स गच्छेत्परमं पदम् ।
विश्रंभघातकानां तु प्रयागे शृणु तत्फलम् १५।
त्रिकालमेव स्नायीत आहारं भैक्ष्यमाचरेत् ।
त्रिभिर्मासैः प्रमुच्येत प्रयागात्तु न संशयः १६।
प्रज्ञानेन तु यस्येह तीर्थयात्रादिकं भवेत् ।
सर्वकामसमृद्धस्तु स्वर्गलोके महीयते १७।
स्थानं स लभते नित्यं धनधान्यसमाकुलम् ।
एवं ज्ञानेन संपूर्णः सदा भवति भोगवान् १८।
तारिताः पितरस्तेन नरकात्प्रपितामहाः ।
धर्मानुसारे तत्त्वज्ञ पृच्छतस्ते पुनः पुनः ।
त्वत्प्रियार्थं समाख्यातं गुह्यमेतत्सनातनम् १९।
युधिष्ठिर उवाच-
अद्य मे सफलं जन्म अद्य मे सफलं कुलम् ।
प्रीतोऽस्म्यनुगृहीतोऽस्मि दर्शनादेव तेऽद्य वै ।
त्वद्दर्शनात्तु धर्मात्मन्मुक्तोऽहं सर्वपातकैः २०।
मार्कंडेय उवाच-
दिष्ट्या ते सफलं जन्म दिष्ट्या ते तारितं कुलम् ।
कीर्तनाद्वर्द्धते पुण्यं श्रुतं पापप्रणाशनम् २१।
युधिष्ठिर उवाच-
यमुनायां तु किं पुण्यं किं फलं तु महामुने ।
एतन्मे सर्वमाख्याहि यथादृष्टं यथाश्रुतम् २२।
मार्कंडेय उवाच-।
तपनस्य सुता देवी त्रिषु लोकेषु विश्रुता ।
समागता महाभागा यमुना यत्र निम्नगा २३।
येनैव निःसृता गङ्गा तेनैव यमुना गता ।
योजनानां सहस्रेषु कीर्तनात्पापनाशिनी २४।
तत्र स्नात्वा च पीत्वा च यमुनायां युधिष्ठिर ।
कीर्त्तनाल्लभते पुण्यं दृष्ट्वा भद्राणि पश्यति २५।
अवगाढा च पीत्वा च पुनात्यासप्तमं कुलम् ।
प्राणांस्त्यजति यस्तत्र स याति परमां गतिम् २६

प्रयागे गङ्गा-यमुनयोः सङ्गमः.

अग्नितीर्थमिति ख्यातं यमुना दक्षिणे तटे ।
पश्चिमे धर्मराजस्य तीर्थं हरवरं स्मृतम् २७।
तत्र स्नात्वा दिवं यांति ये मृतास्तेऽपुनर्भवाः ।
एवं तीर्थसहस्राणि यमुना दक्षिणे तटे २८।
उत्तरेण प्रवक्ष्यामि आदित्यस्य महात्मनः ।
तीर्थं तु विरजं नाम यत्र देवाः सवासवाः २९।
उपासते स्म संध्यां तु नित्यकालं युधिष्ठिर ।
देवाः सेवंति तत्तीर्थं ये चान्ये विदुषो जनाः ३०।
श्रद्दधानपरो भूत्वा कुरु तीर्थाभिषेचनम् ।
अन्ये च बहवस्तीर्थाः सर्वपापहराः शुभाः ३१।
तेषु स्नात्वा दिवं यांति ये मृतास्तेऽपुनर्भवाः ।
गंगा च यमुना चैव उभे तुल्यफले स्मृते ३२।
केवलं श्रेष्ठभावेन गंगा सर्वत्र पूज्यते ।
एवं कुरुष्व कौंतेय स्वर्गतीर्थाभिषेचनम् ३३।
यावज्जीवकृतं पापं तत्क्षणादेव नश्यति ।
यस्त्विदं कल्य उत्थाय पठते च शृणोति वा ३४।
मुच्यते सर्वपापेभ्यः स्वर्गलोकं च गच्छति ३५।
इति श्रीपाद्मे महापुराणे स्वर्गखंडे यमुनामाहात्म्ये पंचचत्वारिंशोऽध्यायः ४५।


प्रयागोपरि टिप्पणी

[सम्पाद्यताम्]

टिप्पणी

व्यवहारे प्रयागतीर्थस्य किं स्वरूपं भवितुं शक्यते, अस्मिन् संदर्भे ऋग्वेद खिलभागस्य अयं श्लोकं उल्लेखनीयं अस्ति –

सितासिते सरिते यत्र संगते तत्राप्लुतासो दिवम् उत्पतन्ति ।

ये वै तन्वान् विसृजन्ति धीरास् ते जनासो अमृतत्वम् भजन्ते ॥ - तीर्थ चिन्तामणिः

सिता – गङ्गा, असिता – यमुना। यत्र तौ द्वे नद्यौ संगमयन्तौ, तत्र स्नानेन स्वर्गं प्राप्नुवन्ति। अयं सार्वत्रिका मान्यता अस्ति यत् गङ्गा इडा(चन्द्र) नाडीरस्ति, यमुना पिङ्गला(सूर्य)। मूलाधारचक्रे यत्र तौ द्वौ सङ्गमयन्तौ, तत्र तृतीयाः नाड्याः प्रादुर्भावं भवति – सुषुम्णायाः। सुषुम्णायाः प्रवाहः ऊर्ध्वमुखी भवति। मैथुने इडा-पिङ्गलायाः सङ्गमं सर्वदैव भविष्यति, सुषुम्नायाः प्रादुर्भावं अपि अवश्यं भविष्यति, किन्तु तस्यां कति मात्रायां जलं अस्ति, अयं भक्तोपरि निर्भरं अस्ति। सुषुम्नायां नाड्यां जलस्य मात्रा अधिकतमं भवेत्, अयं अपेक्षितमस्ति।

गङ्गाद्वारे –प्रयागतीर्थे अन्तरम्

गङ्गाद्वारे दक्षयज्ञः प्रचलति। या ऊर्जा परमात्मातः नैसर्गिकरूपेण प्राप्ता अस्ति, तस्याः अधिकतम दक्षतापूर्वकं उपयोगं भवेत्। अयं श्रुत्याः स्थितिरस्ति। प्रयागे ब्रह्मणः यज्ञं प्रचलति। तत्र शङ्खासुरः ब्रह्मणः चतुर्वेदानां हरणं करोति। अयं शंखासुरः स्मृत्याः स्थितिरस्ति । श्रुतस्य स्मृतिस्तरे अवतारणं शंसनं उच्यते। स्मृत्याः स्तरोपरि अवतारणे दक्षतायाः प्रश्नं नास्ति। दक्षतायाः ह्रासं अवश्यमेव भविष्यति। किन्तु सर्वथा लोपं न भवेत्, अयं अपेक्षा अस्ति।

प्रयागस्य सीमा-

आ प्रयागं प्रतिष्ठानादापुराद्वासुकेर्ह्रदात्।

कम्बलाश्वतरौ नागौ नागाच्च बहुमूलकात्।।

एतत्प्रजापतेः क्षेत्रं त्रिषु लोकेषु विश्रुतम्।। मत्स्यपु. १०४.४ ।।


पुराणेषु प्रयागक्षेत्रस्य सीमानिर्धारणविषयकाः ये वाक्याः सन्ति, ते आधारभूताः , किन्तु पर्याप्ताः न सन्ति। मत्स्यपुराणानुसारेण, गंगायाः पूर्वदिशायां समुद्रकूपः अथवा प्रतिष्ठानकूपमस्ति। त्रिस्थलीसेतु ग्रन्थानुसारेण प्रयागस्य पश्चिमदिशायाः निर्धारणं कम्बल एवं अश्वतर नागाभ्यां भवति, उत्तरदिशायाः वासुकिह्रदतः एवं दक्षिणस्य बहुमूलकात्। पुराणेषु प्रयागस्य महती महिमायाः कारणं एवं कथितमस्ति यत् प्रयागे गङ्गा पश्चिमवाहिनी अस्ति(वाराणस्यां अस्याः प्रवाहः उत्तराभिमुखी कथितमस्ति) –

कुरुक्षेत्रसमा गंगा यत्र तत्रावगाहिता ।।
तस्माद्दशगुणा प्रोक्ता यत्र विंध्येन संगता ।। ६३-२ ।।
तस्माच्छतगुणा प्रोक्ता काश्यामुत्तरवाहिनी ।।
काश्याः शतगुणा प्रोक्ता गंगा यत्रार्कजान्विता ।। ६३-३ ।।
सहस्रगुणिता सापि भवेत्पश्चिमवाहिनी ।।
सा देवि दर्शनादेव ब्रह्महत्यादिहारिणी ।। ६३-४ ।।
पश्चिमाभिमुखी गंगा कालिंद्या सह संगता ।।
हंति कल्पशतं पापं सा माघे देवि दुर्लभा ।।नारदपु. १.६३-५ ।।

पुराणेषु पश्चिमदिशायाः कार्यं स्वपापानां भस्मीकरणं, श्मशानकरणं, शून्यस्थितिप्रापणं अस्ति। किन्तु प्रयागतीर्थे पश्चिमदिशायाः कृत्यं शून्यत्वप्राप्तिरेव नास्ति। शून्यत्वप्राप्त्यनन्तरं रसानां, भक्तीनां क्षेत्रस्य आरम्भं भवति। अनेन कारणेन प्रयागे पश्चिमदिशायां ललितादेव्याः एवं कम्बलाश्वतरस्य स्थानमस्ति। पुराणेषु कम्बलाश्वतरौ नागौ संगीतविद्याप्राप्ति हेतु सरस्वत्याः देव्याः आराधनं कुर्वन्ति(इदानीं सैनीग्रामे कम्बलाश्वतरनागानां स्थानं निर्धारितमस्ति। बहिर्वेदी परिक्रमायाः द्वितीयदिवसे अस्य स्थलस्य दर्शनं करणीयम्)। पश्चिम दिशातः विपरीत दिशा प्राची दिशा अस्ति। यथा अष्टसखी शब्दस्य टिप्पण्यां उल्लेखमस्ति, प्राची दिशा विशाखादेव्याः दिशा अस्ति। वैशाखमासस्य संज्ञा माधवः अस्ति।

पुराणेषु प्रयागे यमुनायाः दक्षिण एवं उत्तरकूलानां उल्लेखमस्ति -


अग्नितीर्थमितिख्यातं यमुनादक्षिणे तटे।
पश्चिमे धर्मराजस्य तीर्थन्तु नरकं स्मृतम्।। २७ ।।
तत्र स्नात्वा दिवं यान्ति ये मृतास्ते पुनर्भवाः।
एवं तीर्थसहस्राणि यमुनादक्षिणे तटे।। २८ ।।
उत्तरेण प्रवक्ष्याणि आदित्यस्य महात्मनः।
तीर्थं निरञ्जनं नाम यत्र देवाः सवासवाः।।मत्स्य १०८.२९ ।।
पश्चिमाभिमुखी गंगा कालिंद्या सह संगता ।।
हंति कल्पशतं पापं सा माघे देवि दुर्लभा ।।नारदपु. १.६३-५ ।।

पुराणेषु प्रयागशब्दस्य निरुक्तकरणे कथनमस्ति यत् प्र-यागः, प्रकृष्टयागः यत्र भवति, तत् तीर्थं प्रयागमस्ति। यागस्य प्राकृष्ट्यम् किं भवति, अस्य एकमुदाहरणं वाल्मीकि रामायणे अस्ति। यदा रामस्यान्वेषणकाले भरतः सेनासहितः भरद्वाजाश्रमे अगच्छत्, तदा सेनासह तस्य आतिथ्यहेतु भरद्वाजः अग्निहोत्रशालायां अगच्छत् एवं तत्र स्थितायाः अग्न्याः प्रभावेण सः सर्वां भोज्यसामग्रीं प्राप्तवान् –

अग्निशालां प्रविश्याथ पीत्वाप: परिमृज्य च ।
आतिथ्यस्य क्रियाहेतोर्विश्वकर्माणमाह्वयत् ।। २.९१.११ ।।
आह्वये विश्वकर्माणमहं त्वष्टारमेव च ।
आतिथ्यं कर्तुमिच्छामि तत्र मे संविधीयताम् ।। २.९१.१२ ।।
आह्वये लोकपालांस्त्रीन् देवान् शक्रमुखांस्तथा ।
आतिथ्यं कर्तुमिच्छामि तत्र मे संविधीयताम् ।। २.९१.१३ ।।
प्राक्स्रोतसश्च या नद्य: प्रत्यक्स्रोतस एव च ।
पृथिव्यामन्तरिक्षे च समायान्त्वद्य सर्वश: ।। वा.रामायणम् २.९१.१४ ।।

पुराणेषु प्रयागे त्रयाणां अग्निकुण्डानां स्थित्याः उल्लेखं अस्ति येषां मध्ये गङ्गायाः प्रवाहः अस्ति। किन्तु तेषां त्रीणां अग्निकुण्डानां स्थितिः केन प्रकारेण अस्ति, अस्य उल्लेखं पुराणेषु कुत्रापि नास्ति। किंवदन्ती अस्ति यत् गङ्गायमुनयोः मध्यभागं गार्हपत्याग्निरस्ति, गङ्गातः परः भागः(प्रतिष्ठानपुरम्) आहवनीयाग्निस्थानमस्ति एवं यमुनातः परः भागः(अलर्कपुरम्) दक्षिणाग्निरस्ति। कामनाविशेषानुसारेण एवं कार्यविशिष्टतानुसारेण एषां त्रयाणां अग्नीनां प्रयोगः विहितमस्ति।

प्रयागतीर्थस्य परिक्रमा

प्रयागतीर्थस्य परिक्रमायाः द्विभागाः सन्ति – अन्तर्वेदी परिक्रमा एवं बहिर्वेदी परिक्रमा।

द्विदिवसीया अन्तर्वेद्या परिक्रमायाः आरम्भः जलरूपस्य बिन्दुमाधवतः भवति एवं आगामी दिवसे हनुमद्दर्शनेन समाप्तं भवति।

बहिर्वेद्याः परिक्रमायाः आरम्भः अक्षयवटतः भवति एवं दशदिवसानन्तरं प्रतिष्ठानपुरगमनेन सम्पूर्णं भवति(पञ्चकोशी परिक्रमा)।

त्रिस्थली सेतु – श्रीनारायण भट्ट विरचित

सरस्वती रजोरूपा तमोरूपा कलिन्दजा।
सत्त्वरूपा च गङ्गाऽत्र नयन्ति ब्रह्म निर्गुणम्।।
इयं वेणी हि निःश्रेणी ब्रह्मणो वर्त्म यास्यतः।
जन्तोर्विशुद्धदेहस्य श्रद्धाश्रद्धा प्लुतस्य च।।

ओमित्येकाक्षरं ब्रह्म परब्रह्माभिधायकम्।
तदेव वेणी विज्ञेया सर्वसौख्यप्रदायिनी।।
अकारः शारदा प्रोक्ता प्रद्युम्नस्तत्र जायते।
उकारो यमुना प्रोक्ताऽनिरुद्धस्तज्जलात्मकः।।
मकारो जाह्नवी गङ्गा तत्र संकर्षणो हरिः।
एवं त्रिवेणी विख्याता वेदबीजं प्रकीर्तिता।।

वेदमाता तु सावित्री त्रिपदी या चतुष्पदा।
स एव तीर्थराजोऽयं त्रिवेण्या यत्र सङ्गमः।।

कम्बलाश्वतरा नागौ यमुना दक्षिणे तटे।

पूर्वपार्श्वे तु गङ्गायास्त्रैलोक्ये ख्यातिमान्नृप।
अवटः सर्वसामुद्रः प्रतिष्ठानं च विश्रुतम्।।

उत्तरेण प्रतिष्ठानाद्भागीरथ्यास्तु पूर्वतः।
हंसप्रपतनं नाम तीर्थं त्रैलोक्यविश्रुतम्।।
यामुने चोत्तरे तीरे प्रयागस्य तु दक्षिणे।
ऋणप्रमोचनं नाम तीर्थं तु परमं स्मृतम्।।

ऋग्वेदमूर्तिर्गङ्गा स्याद्यमुना च यजुर्ध्रुवा।
नर्मदा साममूर्तिस्तु स्यादथर्वा सरस्वती।।
अक्षयवटः ब्राह्मे –
मूलं विष्णुः स्वयं साक्षात्स्कन्धा लक्ष्मीः स्वयं शुभा।
पत्राणि भारती देवी पुष्पाणि विबुधेश्वरः।।
ब्रह्मा फलानि सर्वाणि सर्वाधारो हरिः प्रभुः।।

कालिन्द्यां स्वर्धुनी या तु पञ्चक्रोशावधिर्नृप।
पुण्यपूर्णाऽपि सा देवी विकीर्णा लीलया हरेः।।
तस्मात्तु विकिरं प्रोक्तं तीर्थं त्रैलोक्यविश्रुतम्।
विकिरं ये समासाद्य कुर्वन्ति ब्रह्मवित्तमाः।
विकिरं विष्णवे तत्र पूजां मन्त्रविधानतः।
नमः परपुरुषाय नमस्ते शार्ङ्गपाणये।
इमां विकिरपूजां तु गृहाण मधुसूदन।

विकिरे पुण्यतीर्थे तु ये कुर्वन्ति सकृन्नराः।
पितॄनुद्दिश्य श्राद्धं ते पुनन्त्याकोटि पूर्वजान्।।
(द्र. बहिर्वेदि परिक्रमायाः तृतीयदिवसे वीकर/बीकर/बिकर - देवरिया ग्रामे यमुनातटोपरि रात्रिनिवासः एवं श्राद्धकरणम्)

गङ्गायाः पूर्वभागे तु देवगोष्ठेति विश्रुता।
तत्राहं सततं वत्स वसे देवैः समन्वितः।।

गङ्गाया दक्षिणे तीरे माधवोऽनन्तमाधवः।
वर्तते विबुधैः सार्धमनन्तोऽनन्तशक्तिभिः।।

गङ्गायमुनयोर्यत्र सङ्गमः पुण्यसङ्गमः।
तत्र माधवदेवेशो वर्त्तते जगदीश्वरः।।
गङ्गायाः पश्चिमे तीरे ब्रह्मकुण्डोस्ति शोभनः।
तत्राहं अयजं देवमश्वमेधैर्दशोन्मितैः।।
- - - -
तस्माद्विंशतिहस्तेषु शंखतीर्थं तु पावनम्।
शङ्खेन स्नापितो देवो मया तत्र जनार्दनः।।

तस्य दक्षिणतो विप्र तार्क्ष्यकेतुर्विराजते।

तस्माद्याम्ये मुनिश्रेष्ठ चक्रतीर्थं सुशोभनम्।
तत्र साक्षाच्छ्रियःकान्त क्षेत्ररक्षाविधायकः।
सुदर्शनेन चक्रेण भक्तविघ्नविनाशनः।

- - - - - - -- - -- - -- - - - -

तीर्थदीपिकायां वटवृक्षाः
वृन्दावने वटो वंशी प्रयागेय मनोरथा:।
गयायां अक्षय ख्यातः कल्पस्तु पुरुषोत्तमे ।।
निष्कुंभ खलु लंकायां मूलैकः पंचधा वटः ।
स्तेषु वटमूलेषु सदा तिष्ठति माधवः ।।