पद्मपुराणम्/खण्डः ३ (स्वर्गखण्डः)/अध्यायः ४१

विकिस्रोतः तः
Jump to navigation Jump to search
स्वर्गखण्डः

अध्यायः १

अध्यायः २

अध्यायः ३

अध्यायः ४

अध्यायः ५

अध्यायः ६

अध्यायः ७

अध्यायः ८

अध्यायः ९

अध्यायः १०

अध्यायः ११

अध्यायः १२

अध्यायः १३

अध्यायः १४

अध्यायः १५

अध्यायः १६

अध्यायः १७

अध्यायः १८

अध्यायः १९

अध्यायः २०

अध्यायः २१

अध्यायः २२

अध्यायः २३

अध्यायः २४

अध्यायः २५

अध्यायः २६

अध्यायः २७

अध्यायः २८

अध्यायः २९

अध्यायः ३०

अध्यायः ३१

अध्यायः ३२

अध्यायः ३३

अध्यायः ३४

अध्यायः ३५

अध्यायः ३६

अध्यायः ३७

अध्यायः ३८

अध्यायः ३९

अध्यायः ४०

अध्यायः ४१

अध्यायः ४२

अध्यायः ४३

अध्यायः ४४

अध्यायः ४५

अध्यायः ४६

अध्यायः ४७

अध्यायः ४८

अध्यायः ४९

अध्यायः ५०

अध्यायः ५१

अध्यायः ५२

अध्यायः ५३

अध्यायः ५४

अध्यायः ५५

अध्यायः ५६

अध्यायः ५७

अध्यायः ५८

अध्यायः ५९

अध्यायः ६०

अध्यायः ६१

अध्यायः ६२

युधिष्ठिर उवाच-
भगवञ्छ्रोतुमिच्छामि पुराकल्पे यथास्थितम्
कथं प्रयागगमनं नराणां तत्र कीदृशम् १
मृतानां का गतिस्तत्र स्नातानां चैव किं फलम्
ये वसंति प्रयागे तु ब्रूहि तेषां च किं फलम्
एतन्मे सर्वमाख्याहि परं कौतूहलं हि मे २
मार्कंडेय उवाच-
कथयिष्यामि ते वत्स नाथेष्टं यच्च यत्फलम्
पुरा ऋषीणां विप्राणां कथ्यमानं मया श्रुतम् ३
आप्रयागात्प्रतिष्ठानाद्धर्मकी वासुकी ह्रदात्
कंबलाश्वतरौ नागौ नागाश्च बहुमूलिकाः ४
एतत्प्रजापतिक्षेत्रं त्रिषु लोकेषु विश्रुतम्
अत्र स्नात्वा दिवं यांति ये मृतास्तेऽपुनर्भवाः ५
तत्र ब्रह्मादयो देवा रक्षां कुर्वंति संगताः
अन्ये च बहवस्तीर्थाः सर्वपापप्रणाशनाः ६
न शक्याः कथितुं राजन्बहुवर्षशतैरपि
संक्षेपेण प्रवक्ष्यामि प्रयागस्य च कीर्त्तनम् ७
षष्टिर्धनुः सहस्राणि परिरक्षंति जाह्नवीम्
यमुनां रक्षति सदा सविता सप्तवाहनः ८
प्रयागं तु विशेषेण स्वयं रक्षति वासवः
मंडलं रक्षति हरिर्देवैः सह सुसंमतम् ९
तं वटं रक्षते नित्यं शूलपाणिर्महेश्वरः
स्थानं रक्षति वै देवः सर्वपापहरं शुभम् १०
अधर्मेण वृतो लोके नैव गच्छति तत्पदम्
स्वल्पमल्पतरं पापं यदा तस्य नराधिप ११
प्रयागस्मरमाणस्य सर्वमायाति संक्षयम्
दर्शनात्तस्य तीर्थस्य नामसंकीर्तनादपि १२
मृत्तिका लभनाद्वापि नरः पापाद्विमुच्यते
पंचकुंडानि राजेंद्र येषां मध्ये तु जाह्नवी १३
प्रयागे तु प्रविष्टस्य पापं क्षरति तत्क्षणात्
योजनानां सहस्रेषु गंगां स्मरति यो नरः १४
अपि दुष्कृतकर्मासौ लभते परमां गतिम्
कीर्तनान्मुच्यते पापैर्दृष्ट्वा भद्राणि पश्यति १५
अवगाह्य च पीत्वा च पुनात्यासप्तमं कुलम्
सत्यवादी जितक्रोधो अहिंसां परमास्थितः १६
धर्मानुसारी तत्त्वज्ञो गोब्राह्मणहिते रतः
गंगायमुनयोर्मध्ये स्नातो मुच्येत किल्बिषात् १७
मनसा चिंतितान्कामान्सम्यक्प्राप्नोति पुष्कलान्
ततो गत्त्वा प्रयागं तु सर्वदेवाभिरक्षितम् १८
ब्रह्मचारी वसेन्मासं पितृदेवांश्च तर्पयेत्
ईप्सिताँल्लभते कामान्यत्र तत्राभिजायते १९
तपनस्य सुता देवी त्रिषु लोकेषु विश्रुता
समागता महाभागा यमुना यत्र निम्नगाः २०
तत्र सन्निहितो नित्यं साक्षाद्देवो महेश्वरः
दुष्प्रापं मानुषैः पुण्यं प्रयागं तु युधिष्ठिर २१
देवदानवगंधर्वा ऋषयः सिद्धचारणाः
तत्रोपस्पृश्य राजेंद्र स्वर्गलोके महीयते २२
इति श्रीपाद्मे महापुराणे स्वर्गखंडे एकचत्वारिंशोऽध्यायः ४१