पद्मपुराणम्/खण्डः ३ (स्वर्गखण्डः)/अध्यायः ०३

विकिस्रोतः तः
Jump to navigation Jump to search

ऋषय ऊचुः-
नदीनां पर्वतानां च नामधेयानि सर्वशः
तथा जनपदानां च ये चान्ये भूमिमाश्रिताः १
प्रमाणं च प्रमाणज्ञ पृथिव्याः किल सर्वतः
निखिलेन समाचक्ष्व काननानि च सत्तम २
सूत उवाच-
पंचेमानि महाप्राज्ञ महाभूतानि संग्रहात्
जगतीस्थानि सर्वाणि समान्याहुर्मनीषिणः ३
भूमिरापस्तथा वायुरग्निराकाशमेव च
गुणोत्तराणि सर्वाणि तेषां भूमिः प्रधानतः ४
शब्दस्पर्शश्च रूपं च रसो गंधश्च पंचमः
भूमेरेतेगुणाः प्रोक्ता ऋषिभिस्तत्त्ववेदिभिः ५
चत्वारोप्सुगुणा विप्रा गंधस्तत्र न विद्यते
शब्दः स्पर्शश्च रूपं च तेजसोथ गुणास्त्रयः ६
शब्दः स्पर्शश्च वायोस्तु आकाशे शब्द एव च
एते पंच गुणा विप्रा महाभूतेषु पंचसु ७
वर्तंते सर्वलोकेषु येषु भूताः प्रतिष्ठिताः
अन्योन्यं नातिवर्तंते साम्यं भवति वै तदा ८
यदा तु विषमीभावमाविशंति परस्परम्
तदा देहैर्देहवंतो व्यतिरोहंति नान्यथा ९
आनुपूर्व्या विनश्यंति जायंते चानुपूर्वशः
सर्वाण्यपरिमेयाणि तदेषां रूपमैश्वरम् १०
यत्रयत्र हि दृश्यंते धावंति पांचभौतिकाः
तेषां मनुष्यास्तर्केण प्रमाणानि प्रचक्षते ११
अचिंत्याः खलु ये भावास्तान्न तर्केण साधयेत्
सुदर्शनं प्रवक्ष्यामि द्वीपं तु मुनिपुंगवाः १२
परिमंडलो महाभागा द्वीपोऽसौ चक्रसंस्थितः
नदीजलपरिच्छिन्नः पर्वतैश्चाब्धिसन्निभैः १३
पुरैश्च विविधाकारै रम्यैर्जनपदैस्तथा
वृक्षैः पुष्पफलोपेतैः संपन्नो धनधान्यवान् १४
लवणेन समुद्रेण समंतात्परिवारितः
यथा हि पुरुषः पश्येदादर्शे मुखमात्मनः १५
एवं सुदर्शनो द्वीपो दृश्यते चक्रमंडलः
द्विरंशे पिप्पलस्तस्य द्विरंशे च शशो महान् १६
सर्वौषधिं समादाय सर्वतः परिवारितः
आपस्ततोन्या विज्ञेयाः शेषः संक्षेप उच्यते १७
ऋषय ऊचुः-
उक्तो यस्य च संक्षेपो बुद्धिमन्विधिवत्त्वया
तत्त्वज्ञश्चासि सर्वस्य विस्तरं सूत नो वद १८
यावान्भूम्यवकाशोयं दृश्यते शशलक्षणे
तस्य प्रमाणं प्रब्रूहि ततो वक्ष्यसि पिप्पलम् १९
एवं तैः किल पृष्टः स सूतो वाक्यमथाब्रवीत्
सूत उवाच-
प्रागायता महाप्राज्ञाः षडेते रत्नपर्वताः २०
अवगाढा ह्युभयतः समुद्रौ पूर्वपश्चिमौ
हिमवान्हिमकूटश्च निषधश्च नगोत्तमः २१
नीलश्च वैडूर्यमयः श्वेतश्च शशिसन्निभः
सर्वधातुपिनद्धश्च शृंगवान्नामपर्वतः २२
एते वै पर्वता विप्राः सिद्धचारणसेविताः
तेषामंतरविष्कुंभौ योजनानि सहस्रशः २३
तत्र पुण्या जनपदास्तानि वर्षाणि सत्तमाः
वसंति तेषां सत्त्वानि नानाजातीनि सर्वशः २४
इदं तु भारतं वर्षं ततो हैमवतं परम्
हेमकूटात्परं चैव हरिवर्षं प्रचक्षते २५
दक्षिणेन तु नीलस्य निषधस्योत्तरेण च
प्रागायतो महाभागा माल्यवान्नाम पर्वतः २६
ततः परं माल्यवतः पर्वतो गंधमादनः
परिमंडलस्तयोर्मध्ये मेरुः कनकपर्वतः २७
आदित्यतरुणाभासो विधूम इव पावकः
योजनानां सहस्राणि चतुरशीतिरुच्छ्रितः २८
अधस्ताच्चतुरशीतिर्योजनानां द्विजोत्तमाः
ऊर्ध्वमधश्च तिर्यक्च लोकानावृत्य तिष्ठति २९
तस्य पार्श्वेष्वमी द्वीपाश्चत्वारः संस्थिता द्विजाः
भद्राश्वः केतुमालश्च जंबूद्वीपश्च सत्तमाः ३०
उत्तराश्चैव कुरुवः कृतपुण्य प्रतिश्रयाः
विहंगसुमुखो यस्तु सुपार्श्वस्यात्मजः किल ३१
स वै विचिंतयामास सौवर्णान्प्रेक्ष्य वायसान्
मेरुरुत्तममध्यानामधमानां च पक्षिणाम् ३२
अविशेषकरो यस्मात्तस्मादेनं त्यजाम्यहम्
तमादित्योनुपर्येति सततं ज्योतिषां वरः ३३
चंद्रमाश्च सनक्षत्रो वायुश्चैव प्रदक्षिणः
स पर्वतो महाप्राज्ञा दिव्यपुष्पसमन्वितः ३४
भवनैरावृतैः सर्वैः र्जांबूनदमयैः शुभैः
तत्र देवगणा विप्रा गंधर्वासुरराक्षसाः ३५
अप्सरोगणसंयुक्ताः शैले क्रीडंति सर्वदा
तत्र ब्रह्मा च रुद्रश्च शक्रश्चापि सुरेश्वरः ३६
समेत्य विविधैर्यज्ञैर्यजंतेऽनेक दक्षिणैः
तुंबुरुर्नारदश्चैव विश्वावसुर्हाहा हूहूः ३७
अभिगम्यामरश्रेष्ठं स्तुवंति विविधैः स्तवैः
सप्तर्षयो महात्मानः कश्यपश्च प्रजापतिः ३८
तत्र गच्छंति भद्रं वः सदा पर्वणि पर्वणि
तस्यैव मूर्द्धन्युशना काव्यो दैत्यैर्महीयते ३९
तस्य हैमानि रत्नानि तस्यैते रत्नपर्वताः
तस्मात्कुबेरो भगवांश्चतुर्थं भागमश्नुते ४०
ततः कलांशं वित्तस्य मनुष्येभ्यः प्रयच्छति
पर्वतस्यांतरे दिव्यं सर्वर्तुकुसुमैश्चितम् ४१
कर्णिकारवनं रम्यं शिलाजालसमुच्छ्रितम्
तत्र साक्षात्पशुपतिर्दिव्यभूतैः समावृतः ४२
उमासहायोभगवान्रमते भूतभावनः
कर्णिकारमयीं मालां बिभ्रदापादलंबिनीम् ४३
त्रिभिर्नेत्रैः कृतोद्द्योतस्त्रिभिः सूर्यैरिवोदितैः
तमुग्रतपसः सिद्धाः सुव्रताः सत्यवादिनः ४४
पश्यंति नहि दुर्वृत्तैः शक्यो द्रष्टुं महेश्वरः
तस्य शैलस्य शिखरात्क्षीरधारा द्विजोत्तमाः ४५
विश्वरूपात्परमिता भीमनिर्घातनिस्वना
पुण्यापुण्यतमैर्जुष्टा गंगा भागीरथी शुभा ४६
प्लवंती च प्रवेगेन ह्रदे चंद्रमसः शुभे
तया ह्युत्पादितः पुण्यः स ह्रदः सागरोपमः ४७
तां धारयामास तदा दुर्द्धरां पर्वतैरपि
शतं वर्षसहस्राणि शिरसैव पिनाकधृक् ४८
मेरोस्तु पश्चिमे पार्श्वे केतुमालो द्विजोत्तमाः
जंबूखंडे तु तत्रैव महाजनपदो द्विजाः ४९
आयुर्दशसहस्राणि वर्षाणां तत्र सत्तमाः
सुवर्णवर्णाश्च नरा स्त्रियश्चाप्सरसां समाः ५०
अनामया वीतशोका नित्यं मुदितमानसाः
जायंते मानवास्तत्र निस्तप्तकनकप्रभाः ५१
गंधमादनशृंगेषु कुबेरः सह राक्षसैः
संवृतोप्सरसां संघैर्मोदते गुह्यकाधिपः ५२
गंधमादनपार्श्वे तु परे विगतपातकाः
एकादशसहस्राणि वर्षाणां परमायुषः ५३
तत्र कृष्णा नरा विप्रास्तेजोयुक्ता महाबलाः
स्त्रियश्चोत्पलपत्राभाः सर्वाः सुप्रियदर्शनाः ५४
नीलोत्पलधरं श्वेतं श्वेताद्धैरण्यकं वरम्
वर्षमैरावतं विप्रा नानाजनपदावृतम् ५५
धनुखंडेः महाभागा द्वे वर्षे दक्षिणोत्तरे
इलावृत्तं मध्यगं तु पंचवर्षाणि चैव हि ५६
उत्तरोत्तरमेतेभ्यो वर्षमुद्रिच्यते गुणैः
आयुः प्रमाणमारोग्यं धर्मतः कामतोऽर्थतः ५७
समन्वितानि भूतानि तेषु सर्वेषु सत्तमाः
एवमेषा महाभागाः पर्वतैः पृथिवी चिता ५८
हेमकूटस्तु सुमहान्कैलासो नाम पर्वतः
तत्र वैश्रवणो देवो गुह्यकैः सह मोदते ५९
अस्त्युत्तरेण कैलासं मैनाकं पर्वतं प्रति
हिरण्यशृंगः सुमहान्दिव्यो मणिमयो गिरिः ६०
तस्य पार्श्वे महद्दिव्यं शुभ्रं कांचनवालुकम्
रम्यं विष्णुसरो नाम यत्र राजा भगीरथः ६१
दृष्ट्वा भागीरथीं गंगामुवास बहुलाः समाः
यूपा मणिमयास्तत्र क्षेत्राश्चापि हिरण्मयाः ६२
तत्रेष्ट्वा तु गतः सिद्धिं सहस्राक्षो महायशाः
स्रष्टा भूतिपतिर्यत्र सर्वलोकैः सनातनः ६३
उपास्यते तिग्मतेजा यत्र भूतः समंततः
नरनारायणौ ब्रह्मा मनुः स्थाणुश्च पंचमः ६४
तत्र दिव्या त्रिपथगा प्रथमं तु प्रतिष्ठिता
ब्रह्मलोकादपाक्रांता सप्तधा प्रतिपद्यते ६५
वटोदका सा नलिनी पार्वती च सरस्वती
जंबूनदी च सीता च गंगा सिंधुश्च सप्तमी ६६
अचिंत्या दिव्यसंज्ञा सा प्रभावैश्च समन्विता
उपास्यते यत्र सत्रं सहस्रयुगपर्यये ६७
दृश्यादृश्या च भवति तत्रतत्र सरस्वती
एता दिव्याः सप्तगंगास्त्रिषुलोकेषु विश्रुताः ६८
रक्षांसि वै हिमवती हेमकूटे च गुह्यकाः
सर्पा नागाश्च निषधे गोकर्णं च तपोवनम् ६९
देवासुराणां सर्वेषां श्वेतः पर्वतमुच्यते
गंधर्वा निषधे नित्यं नीले ब्रह्मर्षयस्तथा ७०
शृंगवांस्तु महाभागा देवानां प्रतिसंचरः
इत्येतानि महाभागाः सप्तवर्षाणि भागशः ७१
भूतान्युपनिविष्टानि गतिमंति ध्रुवाणि च
तेषामृद्धिर्बहुविधा दृश्यते देवमानुषा ७२
अशक्यं परिसंख्यातुं श्रद्धे या तु विभूषिता
यां तु पृच्छथ मां विप्रा दिव्यमेनां शशाकृतिम् ७३
पार्श्वे शशस्य द्वे वर्षे उक्ते ये दक्षिणोत्तरे
कर्णे तु नागद्वीपश्च काश्यपद्वीप एव च ७४
कर्णद्वीपशिलो विप्राः श्रीमान्मलयपर्वतः
एतद्द्वितीयं द्वीपस्य दृश्यते शशिसंस्थितम् ७५
इति श्रीपाद्मेमहापुराणे स्वर्गखंडे तृतीयोऽध्यायः ३