पद्मपुराणम्/खण्डः ३ (स्वर्गखण्डः)/अध्यायः ४३

विकिस्रोतः तः
Jump to navigation Jump to search
स्वर्गखण्डः

अध्यायः १

अध्यायः २

अध्यायः ३

अध्यायः ४

अध्यायः ५

अध्यायः ६

अध्यायः ७

अध्यायः ८

अध्यायः ९

अध्यायः १०

अध्यायः ११

अध्यायः १२

अध्यायः १३

अध्यायः १४

अध्यायः १५

अध्यायः १६

अध्यायः १७

अध्यायः १८

अध्यायः १९

अध्यायः २०

अध्यायः २१

अध्यायः २२

अध्यायः २३

अध्यायः २४

अध्यायः २५

अध्यायः २६

अध्यायः २७

अध्यायः २८

अध्यायः २९

अध्यायः ३०

अध्यायः ३१

अध्यायः ३२

अध्यायः ३३

अध्यायः ३४

अध्यायः ३५

अध्यायः ३६

अध्यायः ३७

अध्यायः ३८

अध्यायः ३९

अध्यायः ४०

अध्यायः ४१

अध्यायः ४२

अध्यायः ४३

अध्यायः ४४

अध्यायः ४५

अध्यायः ४६

अध्यायः ४७

अध्यायः ४८

अध्यायः ४९

अध्यायः ५०

अध्यायः ५१

अध्यायः ५२

अध्यायः ५३

अध्यायः ५४

अध्यायः ५५

अध्यायः ५६

अध्यायः ५७

अध्यायः ५८

अध्यायः ५९

अध्यायः ६०

अध्यायः ६१

अध्यायः ६२

युधिष्ठिर उवाच-
यथा प्रयागस्य मुने माहात्म्यं कथितं त्वया
तथातथा प्रमुच्येऽहं सर्वपापैर्न संशयः १
भगवन्केन विधिना गंतव्यं धर्मनिश्चयैः
प्रयागे यो विधिः प्रोक्तः तन्मे ब्रूहि महामुने २
मार्कंडेय उवाच-
कथयिष्यामि ते वत्स तीर्थयात्राविधिक्रमम्
यो गच्छेतकुरुश्रेष्ठ प्रयागं देवसंयुतम् ३
बलीवर्दसमारूढः शृणु तस्यापि यत्फलम्
वसते नरके घोरे गवां क्रोधे सुदारुणे ४
सलिलं च न गृह्णंति पितरस्तस्य देहिनः
यस्तु पुत्रांस्तथा बालान्स्नापयेत्पाययेत्तथा ५
यथात्मनस्तथा सर्वान्दानं विप्रेषु दापयेत्
ऐश्वर्यलोभान्मोहाद्वा गच्छेद्यानेन यो नरः ६
निष्फलं तस्य तत्तीर्थं तस्माद्यानं परित्यजेत्
गंगायमुनयोर्मध्ये यस्तु कन्यां प्रयच्छति ७
आर्षेण तु विधानेन यथाविभवसंभवम्
न पश्यति यमं घोरं नरकं तेन कर्मणा ८
उत्तरान्स कुरून्गत्वा मोदते कालमक्षयम्
पुत्रांस्तु दाराँल्लभते धार्मिकान्नयसंयुतान् ९
तत्र दानं प्रदातव्यं यथाविभवसंभवम्
तेन तीर्थफलैनैव वर्द्धते नात्र संशयः १०
स्वर्गे तिष्ठति राजेंद्र यावदाभूतसंप्लवम्
वटमूलं समाश्रित्य यस्तु प्राणान्परित्यजेत् ११
सर्वलोकानतिक्रम्य रुद्रलोकं च गच्छति
तत्र ते द्वादशादित्यास्तपंते रुद्रमाश्रिताः १२
निर्दहंति जगत्सर्वं वटमूलं न दह्यते
नष्टचंद्रार्कपवनं यदा चैकार्णवं जगत् १३
स्वपित्यत्रैव वै विष्णुर्जायमानः पुनः पुनः
देवदानवगंधर्व ऋषयः सिद्धचारणाः १४
सदा सेवंति तत्तीर्थं गंगायमुनसंगमे
तत्र गच्छंति राजेंद्र प्रयागे संयुतं च यत् १५
तत्र ब्रह्मादयो देवा दिशश्चैव दिगीश्वराः
लोकपालाश्च साध्याश्च पितरो लोकसंमताः १६
सनत्कुमारप्रमुखास्तथैव परमर्षयः
अंगिरप्रमुखाश्चैव तथा ब्रह्मर्षयः परे १७
तथा नागाश्च सिद्धाश्च सुपर्णाः खेचराश्च ये
सरितः सागराः शैला नागा विद्याधरास्तथा १८
हरिश्च भगवानास्ते प्रजापतिपुरस्कृतः
गंगायमुनयोर्मध्ये पृथिव्या जघनं स्मृतम् १९
प्रयागं राजशार्दूल त्रिषुलोकेषु विश्रुतम्
ततः पुण्यतमं नास्ति त्रिषुलोकेषु भारत २०
श्रवणात्तस्य तीर्थस्य नामसंकीर्तनादपि
मृत्तिका लंभनाद्वापि नरः पापात्प्रमुच्यते २१
तत्राभिषेकं यः कुर्य्यात्संगमे संशितव्रतः
तुल्यं फलमवाप्नोति राजसूयाश्वमेधयोः २२
न वेदवचनात्तात न लोकवचनादपि
मतिरुत्क्रमणीया ते प्रयागगमनं प्रति २३
दशतीर्थसहस्राणि षष्टिकोट्यस्तथापराः
येषां सान्निध्यमत्रैव कीर्तनात्कुरुनंदन २४
या गतिर्योगयुक्तस्य सदुत्थस्य मनीषिणः
सा गतिस्त्यजतः प्राणान्गंगायमुनसंगमे २५
तेन जीवंति लोकेऽस्मिन्यत्र यत्र युधिष्ठिर
ये प्रयागं न संप्राप्तास्त्रिषु लोकेषु विश्रुतम् २६
एवं दृष्ट्वा तु तत्तीर्थं प्रयागं परमं पदम्
मुच्यते सर्वपापेभ्यः शशांक इव राहुणा २७
कंबलाश्वतरौ नागौ यमुना दक्षिणे तटे
तत्र स्नात्वा च पीत्वा च मुच्यते सर्वपातकैः २८
तत्र गत्वा तु तत्स्थानं महादेवस्य धीमतः
नरस्तारयते सर्वान्दशातीतान्दशापरान् २९
कृत्वाभिषेकं तु नरः सोऽश्वमेधफलं लभेत्
स्वर्गलोकमवाप्नोति यावदाभूतसंप्लवम् ३०
पूर्वपार्श्वे तु गंगायां त्रिषु लोकेषु भारत
कूपं चैव तु सामुद्रं प्रतिष्ठानं तु विश्रुतम् ३१
ब्रह्मचारी जितक्रोधस्त्रिरात्रं यदि तिष्ठति
सर्वपापविशुद्धात्मा सोऽश्वमेधफलं लभेत् ३२
उत्तरेण प्रतिष्ठानाद्भागीरथ्यास्तु पूर्वतः
हंसप्रपतनं नाम तीर्थं त्रैलोक्यविश्रुतम् ३३
अश्वमेधफलं तस्मिन्स्नातमात्रस्य भारत
यावच्चन्द्रश्च सूर्यश्च तावत्स्वर्गे महीयते ३४
उर्वशीपुलिने रम्ये विपुले हंसपांडुरे
सलिलैस्तर्प्पयेद्यस्तु पितॄंस्तत्र विमत्सरः ३५
षष्टिवर्षसहस्राणि षष्टिवर्षशतानि च
सेवते पितृभिः सार्द्धं स्वर्गलोकं नराधिप ३६
पूज्यते सततं तत्र ऋषिगंधर्वकिन्नरैः
ततः स्वर्गपरिभ्रष्टः क्षीणकर्म्मा दिवश्च्युतः ३७
उर्वशीसदृशीनां तु कन्यानां लभते शतम्
गवां शतसहस्राणां भोक्ता भवति भूमिप ३८
कांचीनूपुरशब्देन सुप्तोऽसौ प्रतिबुध्यते
भुक्त्वा तु विपुलान्भोगांस्तत्तीर्थं लभते पुनः ३९
कुशासनधरो नित्यं नियतः संयतेंद्रियः
एककालं तु भुंजानो मासं भोगपतिर्भवेत् ४०
सुवर्णालंकृतानां तु नारीणां लभते शतम्
पृथिव्यामासमुद्रायां महाभोगपतिर्भवेत् ४१
दशग्रामसहस्राणां भोक्ता भवति भूमिपः
धनधान्यसमायुक्तो दाता भवति नित्यशः ४२
स भुक्त्वा विपुलान्भोगांस्तत्तीर्थं स्मरते पुनः
अथ तस्मिन्वटे रम्ये ब्रह्मचारी जितेंद्रियः ४३
उपोष्य योगयुक्तश्च ब्रह्मज्ञानमवाप्नुयात्
कोटितीर्थं समासाद्य यस्तु प्राणान्परित्यजेत् ४४
कोटिवर्षसहस्राणि स्वर्गलोके महीयते
ततः स्वर्गात्परिभ्रष्टः क्षीणकर्म्मा दिवश्च्युतः ४५
सुवर्णमणिमुक्ताढ्ये कुले भवति रूपवान्
ततो भोगवतीं गत्वा वासुकेरुत्तरेण तु ४६
दशाश्वमेधकं तत्र तीर्थं तत्रापरं भवेत्
कृत्वाभिषेकं तु नरः सोऽश्वमेधफलं लभेत् ४७
धनाढ्यो रूपवान्दक्षो दाता भवति धार्मिकः
चतुर्वेदेषु यत्पुण्यं सत्यवादिषु यत्फलम् ४८
अहिंसायां तु यो धर्म्मो गमनादेव तद्भवेत्
कुरुक्षेत्रसमा गंगा यत्रतत्रावगाह्यते ४९
कुरुक्षेत्राद्दशगुणा यत्र सिंध्वा समागता
यत्र गंगा महाभागा बहुतीर्थतपोधना ५०
सिद्धक्षेत्रं हि तज्ज्ञेयं नात्र कार्या विचारणा
क्षितौ तारयते मर्त्यान्नागांस्तारयतेऽप्यधः ५१
दिवि तारयते देवांस्तेन सा त्रिपथा स्मृता
यावदस्थीनि गंगायां तिष्ठंति तस्य देहिनः ५२
तावद्वर्षसहस्राणि स्वर्गलोके महीयते
तीर्थानां तु परं तीर्थं नदीनामुत्तमा नदी ५३
मोक्षदा सर्वभूतानां महापातकिनामपि
सर्वत्र सुलभा गंगा त्रिषु स्थानेषु दुर्लभा ५४
गंगाद्वारे प्रयागे च गंगासागरसंगमे
तत्र स्नात्वा दिवं यांति ये मृतास्तेऽपुनर्भवाः ५५
सर्वेषां चैव भूतानां पापोपहतचेतसाम्
गतिमन्वेषमाणानां नास्ति गंगासमा गतिः ५६
पवित्राणां पवित्रं या मंगलानां च मंगलम्
महेश्वरशिरोभ्रष्टा सर्वपापहरा शुभा ५७
इति श्रीपाद्मे महापुराणे स्वर्गखंडे प्रयागमाहात्म्ये त्रिचत्वारिंशोऽध्यायः ४३