पद्मपुराणम्/खण्डः ३ (स्वर्गखण्डः)/अध्यायः १८

विकिस्रोतः तः
Jump to navigation Jump to search

स्कंदतीर्थं ततो गच्छेत्सर्वपापप्रणाशनम्
आजन्मनः कृतं पापं स्नानमात्राद्व्यपोहति ५१
आंगिरसं ततो गच्छेत्स्नानं तत्र समाचरेत्
गोसहस्रफलं तस्य रुद्रलोके महीयते ५२
लांगलतीर्थं ततो गच्छेत्सर्वपापप्रणाशनम्
तत्र गत्वा तु राजेंद्र स्नानं तत्र समाचरेत् ५३
सप्तजन्मकृतैः पापैर्मुच्यते नात्र संशयः
वटेश्वरं ततो गच्छेत्सर्वतीर्थमनुत्तमम् ५४
तत्र स्नात्वा नरो राजन्गोसहस्रफलं लभेत्
संगमेश्वरं ततो गच्छेत्सर्वपापहरं परम् ५५
तत्र स्नात्वा नरो राज्यं लभते नात्र संशयः
भद्रतीर्थं समासाद्य दानं दद्यात्तु यो नरः ५६
तस्य तीर्थप्रभावेण सर्वं कोटिगुणं भवेत्
अथ नारी भवेत्कापि तत्र स्नानं समाचरेत् ५७
गौरीतुल्या भवेत्सा तु इंद्रं याति न संशयः
अंगारेश्वरं ततो गच्छेत्स्नानं तत्र समाचरेत् ५८
स्नातमात्रो नरस्तत्र रुद्रलोके महीयते
अंगारक्यां चतुर्थ्यां तु स्नानं तत्र समाचरेत् ५९
अक्षयं मोदते कालं मुरारिकृतशासनः
अयोनिसंगमे स्नात्वा न पश्येद्योनिमंदिरम् ६०
पांडवेश्वरकं गत्वा स्नानं तत्र समाचरेत्
अक्षयं मोदते कालमवध्यस्तु सुरासुरैः ६१
विष्णुलोकं ततो गत्वा क्रीडाभोगसमन्वितः
तत्र भुक्त्वा महाभोगान्मर्त्ये राजाभिजायते ६२
कंबोतिकेश्वरं गच्छेत्स्नानं तत्र समाचरेत्
उत्तरायणे तु संप्राप्ते यदिच्छेत्तस्य तद्भवेत् ६३
चंद्रभागां ततो गच्छेत्स्नानं तत्र समाचरेत्
स्नातमात्रो नरस्तत्र सोमलोके महीयते ६४
ततो गच्छेत राजेंद्र तीर्थं शक्रस्य विश्रुतम्
पूजितं देवराजेन देवैरपि नमस्कृतम् ६५
तत्र स्नात्वा नरो राजन्दानं दत्वा च कांचनम्
अथवा नीलवर्णाभं वृषभं यः समुत्सृजेत् ६६
वृषभस्य तु रोमाणि तत्प्रसूतिकुलेषु च
तावद्वर्षसहस्राणि नरो हरपुरे वसेत् ६७
ततः स्वर्गात्परिभ्रष्टो राजा भवति वीर्यवान्
अश्वानां श्वेतवर्णानां सहस्रेषु नराधिप ६८
स्वामी भवति मर्त्येषु तस्य तीर्थ प्रभावतः
ततो गच्छेत राजेंद्र ब्रह्मावर्त्तमनुत्तमम् ६९
तत्र स्नात्वा नरो राजंस्तर्पयेत्पितृदेवताः
उपोष्य रजनीमेकां पिंडं दत्वा यथाविधि ७०
कन्यागते यथाऽदित्ये अक्षयं संचितं भवेत्
ततो गच्छेत राजेंद्र कपिलातीर्थमुत्तमम् ७१
तत्र स्नात्वा नरो राजन्कपिलां यः प्रयच्छति
संपूर्णां पृथिवीं दत्वा यत्फलं तदवाप्नुयात् ७२
नर्मदेश्वरं परं तीर्थं न भूतं न भविष्यति
तत्र स्नात्वा नरो राजन्नश्वमेधफलं लभेत् ७३
तत्र सर्वगतो राजा पृथिव्यामभिजायते
सर्वलक्षणसंपूर्णः सर्वव्याधिविवर्जितः ७४
नार्मदीयोत्तरेकूले तीर्थं परमशोभनम्
आदित्यायतनं रम्यमीश्वरेण तु भावितम् ७५
तत्र स्नात्वा तु राजेंद्र दानं दत्वा च शक्तितः
तस्य तीर्थप्रभावेण दत्तं भवति चाक्षयम् ७६
दरिद्रा व्याधिता ये तु ये च दुष्कृतकर्मणः
मुच्यंते सर्वपापेभ्यः सूर्यलोकं प्रयांति च ७७
माघमासे तु संप्राप्ते शुक्लपक्षस्य सप्तमीम्
वसेदायतने यस्तु निरात्मा यो जितेंद्रियः ७८
न जायते व्याधितश्च कालेंधो बधिरस्तथा
सुभगो रूपसंपन्नः स्त्रीणां भवति वल्लभः ७९
इदं तीर्थं महापुण्यं मार्कंडेयेन भाषितम्
ये प्रयांति न राजेंद्र वंचितास्ते न संशयः ८०
मासेश्वरं ततो गच्छेत्स्नानं तत्र समाचरेत्
स्नातमात्रो नरस्तत्र स्वर्गलोकमवाप्नुयात् ८१
मोदते सर्वलोकस्थो यावदिंद्राश्चतुर्दश
ततः समीपतः स्थित्वा नागेश्वरं तपोवनम् ८२
तत्र स्नात्वा तु राजेंद्र शुचिर्भूत्वा समाहितः
बहुभिर्नागकन्याभिः क्रीडते कालमक्षयम् ८३
कुबेरभवनं गच्छेत्कुबेरो यत्र संस्थितः
कालेश्वरं परं तीर्थं कुबेरो यत्र तोषितः ८४
यत्र स्नात्वा तु राजेंद्र सर्वसंपदमाप्नुयात्
ततः पश्चिमतो गच्छेन्मरुतालयमुत्तमम् ८५
तत्र स्नात्वा तु राजेंद्र शुचिर्भूत्वा समाहितः
कांचनं तु ततो दद्यादन्नशक्त्या तु बुद्धिमान् ८६
पुष्पकेण विमानेन वायुलोकं स गच्छति
मम तीर्थं ततो गच्छेन्माघमासे युधिष्ठिर ८७
कृष्णपक्षे चतुर्दश्यां स्नानं तत्र समाचरेत्
नक्तं भोज्यं ततः कुर्यान्न गच्छेद्योनिसंकटम् ८८
अहल्यातीर्थं ततो गच्छेत्स्नानं तत्र समाचरेत्
स्नातमात्रो नरस्तत्र अप्सरोभिः प्रमोदते ८९
पारमेश्वरे तपस्तप्त्वा अहल्या मुक्तिमागमत्
चैत्रमासे तु संप्राप्ते शुक्लपक्षे त्रयोदशी ९०
कामदेवदिने तस्मिन्नहल्यां तु प्रपूजयेत्
यत्र तत्र समुत्पन्नो नरस्तत्र प्रियो भवेत् ९१
स्त्रीवल्लभो भवेच्छ्रीमान्कामदेव इवापरः
अयोध्यां तु समासाद्य तीर्थं शक्रस्य विश्रुतम् ९२
स्नातमात्रो नरस्तत्र गोसहस्र फलं लभेत्
सोमतीर्थं ततो गच्छेत्स्नानमात्रं समाचरेत् ९३
स्नातमात्रो नरस्तत्र सर्वपापैः प्रमुच्यते
सोमग्रहे तु राजेंद्र पापक्षयकरं भवेत् ९४
त्रैलोक्यविश्रुतं राजन्सोमतीर्थं महाफलम्
यस्तु चांद्रायणं कुर्यात्तस्मिंस्तीर्थे नराधिप ९५
सर्वपापविशुद्धात्मा सोमलोकं स गच्छति
अग्निप्रवेशे तु जलेप्यथवापि ह्यनाशने ९६
सोमतीर्थे मृतो यस्तु नासौ मर्त्येभिजायते
स्तंभतीर्थं ततो गच्छेत्स्नानं तत्र समाचरेत् ९७
स्नातमात्रो नरस्तत्र सोमलोके महीयते
ततो गच्छेत राजेंद्र विष्णुतीर्थमनुत्तमम् ९८
योधनीपुरविख्यातं विष्णुतीर्थमनुत्तमम्
असुरा योधितास्तत्र वासुदेवेन कोटिशः ९९
तत्र तीर्थं समुत्पन्नं विष्णुः प्रीतो भवेदिह
अहोरात्रोपवासेन ब्रह्महत्यां व्यपोहति १००
ततो गच्छेत्तु राजेंद्र तापसेश्वरमुत्तमम्
अमोहकमिति ख्यातं पितॄन्यस्तत्र तर्पयेत् १०१
पौर्णमास्याममावास्यां श्राद्धं कुर्याद्यथाविधि
तत्र स्नात्वा नरो राजन्पितृपिंडं तु दापयेत् १०२
गजरूपाः शिलास्तत्र तोयमध्ये प्रतिष्ठिताः
तस्मिंस्तु दापयेत्पिंडं वैशाखे तु विशेषतः १०३
तृप्यंति पितरस्तावद्यावत्तिष्ठति मेदिनी
ततो गच्छेत राजेंद्र सिद्धेश्वरमनुत्तमम् १०४
तत्र गत्वा तु राजेंद्र गणपत्यंतिकं व्रजेत्
ततो गच्छेत राजेंद्र लिंगो यत्र जनार्दनः १०५
तत्र स्नात्वा तु राजेंद्र विष्णुलोके महीयते
नर्मदादक्षिणेकूले तीर्थं परमशोभनम् १०६
कामदेवः स्वयं तत्र तपस्तप्यत्यसौ महान्
दिव्यं वर्षसहस्रं तु शंकरं पर्युपासते १०७
समाधिपर्वदग्धस्तु शंकरेण महात्मना
श्वेतपर्वोपमश्चैव हुताशः शुक्लपर्वणि १०८
एते दग्धास्तु ते सर्वे कुसुमेश्वरसंस्थिताः
दिव्यवर्षसहस्रेण तुष्टस्तेषां महेश्वरः १०९
उमया सहितो रुद्रस्तेषां तुष्टो वरप्रदः
विमोक्षयित्वा तान्सर्वान्नर्म्मदातटमास्थितान् ११०
तस्य तीर्थप्रभावेण पुनर्देवत्वमागतः
त्वत्प्रसादान्महादेव तीर्थं च भवतूत्तमम् १११
अर्धयोजनविस्तीर्णं तीर्थं दिक्षु समंततः
तस्मिंस्तीर्थे नरः स्नात्वा उपवासपरायणः ११२
कुसुमायुधरूपेण रुद्रलोके महीयते
वैश्वानरे यमेनैव कामदेवेन वायवे ११३
तपस्तप्त्वा तु राजेंद्र तत्रैव च पुरागतैः
अंधोनस्य समीपे तु नातिदूरे तु तस्य वै ११४
स्नानं दानं च तत्रैव भोजनं पिंडपातनम्
अग्निवेशे जले वापि अथवापि अनाशने ११५
अनिवर्तिका गतिस्तस्य मृतस्याप्यर्द्धयोजने
त्रैयंबकेण तोयेन स्नापयेन्नरपुंगवः ११६
अंधोनमूले दत्वा तु पिंडं चैव यथाविधि
पितरस्तस्य तृप्यंति यावच्चंद्र दिवाकरौ ११७
उत्तरायणे तु संप्राप्ते तत्र स्नानं करोति यः
पुरुषो वापि स्त्री वापि वसेदायतने शुचिः ११८
सिद्धेश्वरस्य देवस्य प्रभाते पूजनान्नरः
स तां गतिमवाप्नोति न तां सर्वैर्महामखैः ११९
यदा च तीर्थकालेन रूपवान्सुभगो भवेत्
मर्त्ये भवति राजासावासमुद्रांतगोचरे १२०
क्षेत्रपालं न पश्येच्च दंडपालं महाबलम्
वृथा तस्य भवेद्यात्रा अदृष्ट्वा कर्णकुंडलम् १२१
एतत्तीर्थफलं ज्ञात्वा सर्वेदेवाः समागताः
मुंचंति पुष्पवृष्टिं तु स्तुवंति कुसुमेश्वरम् १२२

इति श्रीपाद्मेमहापुराणे स्वर्गखंडे अष्टादशोऽध्यायः १८